सुग्रीववृत्तान्तमाह तावित्यादिभिः । वरायुधधरौ रामलक्ष्मणौ दृष्ट्वा सुग्रीवः शङ्कितो ऽभवत् ॥ ४।२।१ ॥
उद्विग्नेति । उद्विग्नहृदयो वानरपुङ्गवः सुग्रीवः सर्वा दिशः समवलोकयन् कस्मिंश्चित् देशे न व्यतिष्ठत ॥ ४।२।२ ॥
नेति । महाबलौ रामलक्ष्मणौ वीक्षमाणः सुग्रीवः स्थातुमेकाग्रतया निवेष्टुं मनो नैव चक्रे अत एव परमभीतस्य कपेः सुग्रीवस्य चित्तं व्यवससाद दुःखं प्राप ॥ ४।२।३ ॥
चिन्तयित्वेति । धर्मात्मा स सुग्रीवः चिन्तयित्वा वालिबलं संस्मृत्य गुरुलाघवं तद्बलस्य गुरुत्वं स्वबलस्य लाघवं लघुत्वं च विमृश्य निश्चित्य सर्वैः वानरैः सह
परमोद्विग्न आसेति शेषः ॥ ४।२।४ ॥
तत इति । रामलक्ष्मणौ पश्यन् सन् परमोद्विग्नः सुग्रीवः सचिवेभ्य अमात्येभ्यः शशंस ॥ ४।२।५ ॥
शंसनप्रकारमाह एताविति । इदं दुर्गं वनं प्रचरन्तौ अत एव इहागतौ चीरवसनौ एतौ छद्मना कापट्येन वालिप्रणिहितौ ध्रुवं निश्चितमेतत् ॥ ४।२।६ ॥
तत इति । ततः सुग्रीववचनश्रवणानन्तरं सुग्रीवसचिवाः परमधन्विनौ रामलक्ष्मणौ दृष्ट्वा तस्मात् गिरितटात् अन्यत् शिखरं जग्मुः सुग्रीवेण सहेति शेषः ॥ ४।२।७ ॥
ते इति । यूथपाः ते सचिवाः यूथपर्षभं सुग्रीवं परिवार्य उपतस्थिरे ॥ ४।२।८ ॥
वानरान्तराणां वृत्तान्तमाह एवमिति । एवमनेन प्रकारेण भीताः अत एव एकायनगताः एकमार्गं प्राप्ताः गिरेर्गिरं प्लवमाना गच्छन्तः गिरीणां शिखराणि वेगेन प्रकम्पयन्तः प्लवमानाः कंचित्तरुमुल्लङ्घन्तः महाबलाः सर्वे शाखामृगाः वानराः तत्र तस्मिन्समये ततः तान् नगान् वृक्षान् बभञ्जुः । श्लोकद्वयमेकान्वयि ॥ ४।२।९,१० ॥
आप्लवन्त इति । तदा तस्मिन्समये तं महागिरिं सर्वत आप्लवन्तः मृगादीन् त्रासयन्तः सन्तः ययुः सुग्रीवसमीपं प्रापुः ॥ ४।२।११ ॥
तत इति । ततः सर्ववानरसमागमानन्तरं समाहिता एकाग्रचित्ताः सुग्रीवसचिवाः कपिमुख्येन सुग्रीवेण पर्वतेन्द्रे संगम्य प्राञ्जल्यः सन्तः स्थिताः ॥ ४।२।१२ ॥
तत इति । ततः सर्वसंगमानन्तरं वालिकिल्बिषशङ्कितं वालिनि भासमानस्वापराधेन भीतम् अत एव भयसंत्रस्तं भयाभ्यां वालिप्रेषिताविमाविति संभावनया भयहेतुभ्यां संत्रासवन्तं सुग्रीवं वाक्यकोविदः हनूमान् उवाच ॥ ४।२।१३ ॥
तद्वचनाकारमाह संभ्रम इति । वालिकृते युष्मद्बाधोद्देश्यकवालिप्रयत्नार्थं संभ्रमः भीतिः सर्वैः भवद्भिस्त्यज्यताम् । तत्र हेतुः यतः अयं गिरिर्मलयः मस्य भवद्विघातवालिनः लयः ऋषिशापाद्विध्वंसो यस्मिन् सः अत इह वालिनो भयं नास्ति ॥ ४।२।१४ ॥
यस्मादिति । यस्मात् वालिनः विद्रुतः पलायितः अत एव उद्विग्नचेताः त्वमसि तं क्रूरदर्शनं वक्रदृष्टिं क्रूरं क्रूरकर्माणं वालिनमिह न पश्यामि, तस्येहागमनं न संभावयामीत्यर्थः ॥ ४।२।१५ ॥
यस्मादिति यस्मात् पूर्वजात् त्वत्तः पूर्वजन्मनः पापकर्मणः वालिनः तव भयं स दुष्टात्मा वाली यद्यपीह न अतः ते भयं न पश्यामि, तथापि हे प्वलङ्गम लघुचित्ततया अल्पज्ञानेन हेतुना आत्मानं स्वमनः मतौ सम्यग्विचारे यस्त्वं न स्थापयसि तस्य ते व्यक्तं प्रकटितं यत् शाखामृगत्वं प्राकृतवानरधर्मः कारणाभावे ऽपि भीतत्वमित्यर्थः, तत् अहो आश्चर्यम् । अहो इत्यनेन तस्य प्राकृतवानरभिन्नत्वं व्यञ्जितम् । यद्यपि तथापीत्यनयोरध्याहारः । श्लोकद्वयमेकान्वयि ॥ ४।२।१६,१७ ॥
ननु वालिनः भयाभावे ऽपि तत्प्रेष्याद्भयसंभावना ऽस्त्येवेत्यत आह बुद्धीति । बुद्धिविज्ञानसंपन्नस्त्वमिङ्गितैः परचेष्टाजनितविचारैः सर्वं भीतिनिवर्तकयत्नादि आचर हि यतः अबुद्धिं विचाराभावं गतः प्राप्तो राजा सर्वभूतानि सर्वस्वप्रजाः न शास्ति शासितुमर्हतीत्यर्थः ॥ ४।२।१८ ॥
सुग्रीव इति । हनुमतः शुभं वाक्यं श्रुत्वा ततस्तं हनूमन्तं सुग्रीवः शुभतरं वाक्यमुवाच ॥ ४।२।१९ ॥
तद्वचनाकारमाह दीर्घेति । सुरसुतोपमौ एतौ दृष्ट्वा कस्य पुरुषस्य भयं न स्यात् ॥ ४।२।२० ॥
तत्र हेतुमाह वालीति । एतौ पुरुषोत्तमौ वालिप्रणिहितौ वालिना प्रेषितौ इति अहं शङ्के । शङ्कायां बीजमाह हि यतः राजानः बहुमित्राः अनेकविधमित्रवन्तः भवन्तीति शेषः, अतः अत्र राजविषये विश्वासः न क्षमः न कार्य इत्यर्थः ॥ ४।२।२१ ॥
अरय इति । छद्मचारिणः कपटाचरणशीलाः अरयः मनुष्येण जनेन विज्ञेयाः विशेषतः शङ्कनीया इत्यर्थः, हि यतः विश्वस्तानां कथंचित् विश्वासं प्रापितानां छिद्रेषु अवसरेषु अविश्वस्ताः स्वयं विश्वासाभाववन्तः प्रहरन्ति, संबन्धसामान्ये षष्ठी ॥ ४।२।२२ ॥
कृत्येष्विति । यतः राजानो बहुदर्शिनः अनेकविधोपायाभिज्ञाः अत एव परहन्तारः शत्रुध्वंसकाः भवन्ति अतो नरैर्जनैः प्राकृतैः स्वाभाविकोपायैरुपलक्षितास्ते शत्रुभूता राजानः ज्ञेयाः प्रतिक्षणमन्वेषणीयाः अत एव कृत्येषु राजोचितकार्येषु वाली मेधावी निपुणः । एतेन वाली अवश्यमन्वेषणीय इति ध्वनितम् ॥ ४।२।२३ ॥
तत्प्रकारमाह ताविति । प्राकृतेन स्वाभाविकेन गमनेन गत्वा इङ्गितानां व्यापाराणां प्रकारैः उत्कटानुत्कटादिविशेषाकारैः रूपव्याभाषणेन रूपेण मृद्वमृद्वाकाराकृत्या व्याभाषणेन सकपटाकपटाकारवचनेन च तौ नरवरा त्वया ज्ञेयौ ज्ञातव्यौ ॥ ४।२।२४ ॥
लक्षयस्वेति । तयोर्नृवरयोः भावमभिप्रायं लक्षयस्य जानीहि । यदि तौ प्रहृष्टमनसौ अनुमानादिज्ञातकापट्यरहितान्तःकरणौ तर्हि प्रशंसाभिः तत्कर्मकप्रशंसावचनैः इङ्गितैः स्वचेष्टितैश्च विश्वासयन् स्वविषयकविश्वासमुत्पादयन् ममाभिमुखमेव स्थित्वा अस्य वनस्य वनसम्बन्धिनः प्रवेशस्य प्रयोजनं धनुर्धरौ नृवरौ पृच्छ । श्लोकद्वयमेकान्वयि ॥ ४।२।२५,२६ ॥
तत्प्रयोजनमाह शुद्धेति । प्लवङ्गम हे वानर एतौ यदि शुद्धात्मानौ वालिप्रेषितत्वाभावेन शुद्धान्तःकरणौ तर्हि व्याभाषिताद्यैः अनयोः अदुष्टता आचरणादिजनितदोषरहितत्वं विज्ञेया ॥ ४।२।२७ ॥
इतीति । कपिराजेन सुग्रीवेण इत्येवं संदिष्टो मारुतात्मजः यत्र रामलक्ष्मणौ तत्र गमने गमनार्थं बुद्धिं निश्चयं चकार ॥ ४।२।२८ ॥
निश्चयानन्तरकालिकं वृत्तमाह तथेति । महानुभावः कपिर्हनुमान् सुभीतस्य सुग्रीवस्य वचः तथेति संपूज्य यत्रातिबली रामस्तत्र ययौ ॥ ४।२।२९ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ किष्किन्धाकाण्डे द्वितीयः सर्गः ॥ ४।२ ॥