॥ किष्किन्धाकाण्डम् ॥
प्रणम्याद्यां गङ्गां निखिलभयभङ्गां सयमुनां
सवाचं वाल्मीकीं पवनतनयं लक्ष्मणयुतम् ।
गुरुं गीतं वन्दे मुनिगणनुतं रामचरणं
सदा सीतासेव्यं सकलसुखदातारमनिशम् ॥ १ ॥
यदीयां विष्ण्वाद्या निखिलभुवनाधीशपतयः
सदा संसेवन्ते मुनिगणयुतां तत्त्वनिवहाम् ।
गिरं तां गीर्वाणाः सकलकलया कालवलयाः
समीहन्ते नित्यं सकलभयहन्त्रीं सुमुददाम् ॥ २ ॥
कथादिर्यस्यास्ते त्रिभुवनजयी जह्नुतनया
यदीयां संप्रीतिं वितरति सदा सेवकजने ।
स रामस्तीर्थानां परममभिरामः सुमनसां
जयत्युच्चैः श्रीमान् जनकतनयासक्तहृदयः ॥ ३ ॥
अथारण्ये पूर्णां विवृतिमनुकल्प्याद्यकविना
कृते काव्ये कुर्मः सुजनसुखसंपत्तिविपुलाम् ।
सुकिष्किन्धाव्याख्यां परमरसिकोपास्यसफलां
त्रिवेणीतीरे तां दशरथसुतप्रीतिवितराम् ॥ ४ ॥
किष्किन्धाया विवरणो रामायणशिरोमणिः ।
सीतारामप्रियां प्रीतिं दद्यात्सर्वसुखावहाम् ॥ ५ ॥
रामकर्तृकपम्पाप्रदर्शनमारण्यकाण्डान्ते उक्त्वा तत्रत्यरामवृत्तान्तं वर्णयन् किष्किन्धाकाण्डमुपक्रमते स तामित्यादिभिः । सः सर्ववेदप्रसिद्धः सौमित्रिसहितो रामः पद्मादिविशिष्टां पुष्करिणीं सरसीं तां पम्पां गत्वा संप्राप्य आकुलेन्द्रियः सीतासंयोगाभावप्रयुक्तव्याकुलेन्द्रियविशिष्टः सन् विललाप अनेकविधं जगाद ॥ ४।१।१ ॥
विलापाकारमाह– तस्येति । तां पद्मादिविशिष्टां पम्पां दृष्ट्वैव विद्यमानस्य तस्य रामस्य हर्षात् सीतावयवसदृशपङ्कजादिदर्शनजनितप्रमोदात् इन्द्रियाणि चकम्पिरे चञ्चलतां प्रापुः अत एव कामवशं सीतादर्शनविषयकातीच्छाहेतुकतदन्वेषणजनितविविधचेष्टोपलक्षितशोभाविशेषम् आपन्नः प्राप्तः स रामः सौमित्रिमब्रवीत् ॥ ४।१।२ ॥
तद्वचनाकारमाह सौमित्र इति । वैदूर्यविमलोदका वैदूर्यमणिसदृशविमलजलविशिष्टा फुल्लपद्मोत्पलवती विकसितानेकविधपद्मविशिष्टा विविधैः द्रुमैः शोभिता संयुक्ता इयं पम्पा शोभते ॥ ४।१।३ ॥
सौमित्र इति । यत्र यस्यां पम्पायां सशिखराः शृङ्गविशिष्टा इव शैलाः पर्वता इव द्रुमा वृक्षाः राजन्ति तस्याः पम्पायाः शुभदर्शनं काननं वनं पश्य ॥ ४।१।४ ॥
मामिति । भरतस्य दुःखेन मद्वियोगजनितभरतक्लेशस्मरणेन वैदेह्याः हरणेन च शोकाभितप्तं माम् आधयः मानसव्यथाः पीडयन्ति ॥ ४।१।५ ॥
शोकार्तस्येति । चित्रकानना अनेकविधवनविशिष्टा बहुविधैः पुष्पैः व्यवकीर्णा सर्वतो व्याप्ता नलिनैः कमलैः संछन्ना सर्पैः व्यालैः तज्जातिविशेषैश्च अनुचरिता तद्गमनशोभितेत्यर्थः, पम्पा शोकार्तस्यापि मे शोभते । एतेन सीतावयवसदृशकमलादिदर्शनेन सीतैव दृश्यते इति स्वसंभावना सूचिता । श्लोकद्वयमेकान्वयि ॥ ४।१।६,७ ॥
अधिकमिति । नीलपीतम् अनेकविधानां धातूनां तृणानां च संसर्गात् उपलक्षणतया नीलत्वपीतित्वादिविशिष्टं शाद्वलं तृणविशिष्टस्तलं विविधैः अनेकप्रकारकैः परिस्तोमैः स्वस्वजात्या संघीभूतैः द्रुमाणां पुष्पैः अर्पितं संयुक्तमिव अधिकं प्रविभाति, यद्वा विविधैः पुष्पैरर्पितमत एव नीलपीतमेतत् शाद्वलमधिकमेव प्रविभाति । इव एवार्थे ॥ ४।१।८ ॥
पुष्पेति । सर्वतः चतुर्दिक्षु पुष्पभारसमृद्धानि पुष्पभारैः प्रपतितबहुपुष्पैः समृद्धानि समृद्धिमन्ति शिखराणि पुष्पिताग्राभिः पुष्पिताग्रभागविशिष्टाभिः शाखाभिः समन्ततः उपगूढानि आच्छन्नानि सन्तीति शेषः ॥ ४।१।९ ॥
सुखेति । हे सौमित्रे जातपुष्पफला द्रुमा यस्मिन् अत एव प्रचुरो ऽधिको मन्मथः कामो यस्मात् सः सुरभिः सुगन्धविशिष्टः अत एव गन्धवान् कामोद्दीपनं करोम्येवेति गर्वविशिष्टः अयं मासः चैत्र इत्यर्थः, कालः वियुक्तानां चित्तविक्षेपहेतुरस्तीति शेषः । क्षेपणार्थककलधातुप्रकृतिकणिजन्तप्रकृतिको ऽच् “गन्धो गन्धक आमोदे लेशे संबन्धगर्वयोः” इति विश्वः ॥ ४।१।१० ॥
पश्येति । पुष्पशालिनाम् अनेकविधपुष्पविशिष्टानाम् अत एव वर्षं तोयं सृजतां त्यजतां तोयमुचां मेघानामिव पुष्पाणि सृजतां वनानां रूपाणि पश्य ॥ ४।१।११ ॥
प्रस्तरेष्विति । वायुवेगप्रचलिताः विविधाः काननद्रुमाः वनवृक्षाः पुष्पैः रम्येषु प्रस्तरेषु शिलासु गां पृथ्वीमवकिरन्ति आच्छादयन्ति ॥ ४।१।१२ ॥
पतितैरिति । पतितैः भूतकालिकपतनकर्तृभिः पतमानैः वर्तमानकालिकपतनकर्तृभिः पादपस्थैः वृक्षे स्थितैश्च कुसुमैः पुष्पैः क्रीडतीव मारुतो वायुः पश्य । पश्य मृगो धावतीतिवत्प्रयोगः ॥ ४।१।१३ ॥
विक्षिपन्निति । कुसुमोत्कटाः विविधकुसुमेनोत्कटतां प्राप्ताः शाखाः विक्षिपन् चालयन् मारुतः चलितस्थानैः कुसुमेभ्यः कुसुमान्तराणि प्राप्तैः षट्पदैः भ्रमरैः अनुगीयते गानेन प्रशस्यते इवेत्यर्थः ॥ ४।१।१४ ॥
मत्तेति । पादपान् वृक्षान् नर्तयन्निव शैलकन्दरनिष्क्रान्तो ऽनिलः मत्तकोकिलसंनादैः मत्तकोकिलानां शब्दैः प्रगीत इव आसीदिति शेषः ॥ ४।१।१५ ॥
तेनेति । अत्यर्थमत्यन्तं विक्षिपता सञ्चालयता पवनेन संसक्तशाखाग्राः संसक्तानि परस्परं संमिलितानि शाखाग्राणि येषां ते अमी पादपाः ग्रथिता इव दृश्यन्ते इति शेषः ॥ ४।१।१६ ॥
स इति । चन्दनशीतलः चन्दनस्पर्शजनितशैत्यविशिष्टः अत एव पुण्यं गन्धम् अभ्यवहन् प्रापयन् अत एव श्रमापनयनः श्रमनिवर्तकः अत एव सुखसंस्पर्शः सो ऽनिलः वाति ॥ ४।१।१७ ॥
अमी इति । मधुगन्धिषु मधुगन्धविशिष्टेषु वनेषु अनुकूजद्भिः षट्पदैः उपलक्षिताः पवनविक्षिप्ताः वायुसञ्चालितशाखावन्तः अमी पादपाः विनदन्ति गायन्तीव ॥ ४।१।१८ ॥
गिरीति । गिरिप्रस्थेषु पर्वतपृष्ठेषु सञ्जातैरिति शेषः, पुष्पवद्भिरत एव मनोरमैः महाद्रुमैः संसक्तशिखराः शैलाः विराजन्ति ॥ ४।१।१९ ॥
पुष्पेति । पुष्पैः संच्छन्नानि शिखराणि शाखाग्राणि येषां ते मारुतोत्क्षेपचञ्चलाः मधुकरा एव उत्तंसाः कर्णपूरा इव शिरःसम्बधिनः उष्णीषा इव वा येषां ते अमी पादपाः प्रगीताः प्रकृष्टं गीतं गानं येषां ते प्रकृष्टगायका इत्यर्थः, लक्ष्यन्त इति शेषः । “पुंस्युत्तंसावतंसौ द्वौ कर्णपूरे ऽथ शेखरे” इति कोशः । उत्तरपक्षे उत्तंसशब्दो ऽर्शआद्यजन्तः ॥ ४।१।२० ॥
सुपुष्पितानिति । सुपुष्पितान् समन्ततः एतान् कर्णिकारान् पीतवर्णविशिष्टकर्णिकाराभिधतरून् हाटकप्रतिसंछन्नान् ऊर्ध्वभागे स्वर्णभूषणनिबिडान् पीताम्बरान् अधोभागे पीताम्बरधारिणः नरान् इव पश्य । एतेन तत्पुष्पाणां सुवर्णवर्णत्वं फलितम् ॥ ४।१।२१ ॥
अयमिति । नानाविहगनादितः अयं वसन्तः सीतया विप्रहीनस्य वियुक्तस्य मम शोकसंदीपनो ऽस्तीति शेषः ॥ ४।१।२२ ॥
मामिति । शोकसमाक्रान्तं मां मन्मथः मन्निष्ठमदापहारित्वं सन्तापयति सीतापहर्तृविज्ञानमन्तरावस्थितिं न लभत इत्यर्थः, हृष्टं यथा भवति तथा प्रवदमानः कोकिलः समाह्वयति प्रियया संयोक्तुं प्रेरयतीवेत्यर्थः ॥ ४।१।२३ ॥
एष इति । हृष्ट एष दात्युहको जलकुक्कुटः प्रणदन् सन् मन्मथाविष्टं मदापहारकत्वविशिष्टं मां शोचयिष्यति प्रियापहारिणो विशेषज्ञानाभावात् तन्मदापहरणस्याशक्यतया शोक एव तिष्ठतीत्यर्थः ॥ ४।१।२४ ॥
श्रुत्वेति । मम प्रिया सीता पुरा पूर्वमेतस्य दात्यूहस्य शब्दं श्रुत्वा प्रमुदिता मामाहूय परममत्यन्तं प्रत्यनन्दत ॥ ४।१।२५ ॥
एवमिति । विचित्रा अनेकदिधरागादिविशिष्टाः नानारावविराविणः अनेकविधशब्दवन्तः पतगाः पक्षिणः वृक्षगुल्मलताः समन्ततः संपतन्ति त्वं पश्य ॥ ४।१।२६ ॥
विमिश्रा इति । पुंभिः पक्षिभिः विमिश्रा आत्मव्यूहाभिनन्दिताः आत्मव्यूहैः स्वस्वज्ञातिसमूहैः अभिनन्दिताः परस्परं प्रापितानन्दाः भृङ्गराजप्रमुदिताः भृङ्गराजशब्देन च प्राप्तप्रमोदाः मधुरस्वराः विहगाः स्त्रीत्वविशिष्टपक्षिणः सन्तीति शेषः ॥ ४।१।२७ ॥
अस्या इति । अस्या पम्पायास्तीरे विद्यमानाः संघशः शकुनाः पक्षिणः दात्यूहरतिविक्रन्दैर्दात्यूहानां प्रीत्युत्पादकशब्दविशेषैः पुंस्कोकिलरुतैरपि प्रमुदिताः सन्तीति शेषः ॥ ४।१।२८ ॥
स्वनन्तीति । ममानङ्गप्रदीपकाः इमे पादपाः स्वनन्ति स्वनविशिष्टबहुपक्षिमत्तया ते अपि स्वनन्तीवेत्यर्थः । अर्धं पृथक् अशोकेति । अशोकस्तबक एव अङ्गारो यस्य सः षट्पदस्वन एव निःस्वनः शब्दो यस्मिन् सः पल्लवताम्रः अरुणपल्लव एव अर्चिर्ज्वाला यस्मिन् स वसन्ताग्निर्मा प्रधक्ष्यति दहतीवेत्यर्थः । अर्धद्वयमेकान्वयि ॥ ४।१।२९ ॥
नहीति । सूक्ष्मपक्ष्मे अक्षिणी यस्यास्तां सीतामपश्यतो मे जीविते प्राणपोषणे प्रयोजनं नास्ति ॥ ४।१।३० ॥
अयमिति । रुचिराणि काननानि यस्मिन् सः कोकिलैः आकुलो व्याप्तः सीमान्तः वनमर्यादापर्यन्तं यस्मिन् सः अयं कालः वसन्तः मम प्रियायाश्च रुचिरः प्रिय इत्यर्थः । एतेन यदीदानीं सा इह स्यात् तदातीव प्रमोदप्रवृद्धिः भवेदिति सूचितम् ॥ ४।१।३१ ॥
मन्मथेति । मन्मथायाससंभूतः मन्मथेन स्वनिष्ठमदमथनसामर्थ्ये निरोधेन यः आयासः तन्निरोधजनितश्रमः तस्मात्संभूतः वसन्तगुणवर्धितः अयं शोकाग्निः न चिरात् शीघ्रमेव क्षिप्रं सीताप्राप्तौ अतित्वराविशिष्टं मां धक्ष्यतीव ॥ ४।१।३२ ॥
अपश्यत इति । वनितां तां सीतामपश्यतः रुचिरद्रुमान्पश्यतः मम आत्मप्रभवः मनोजनितः चिन्तेत्यर्थः, भूयस्त्वमधिकत्वमुपयास्यति प्राप्नोतीत्यर्थः ॥ ४।१।३३ ॥
अदृश्यमानेति । अदृश्यमाना दृष्टिपथमप्राप्ता वैदेही स्वेदसंसर्गदूषकः मलयसंबन्धिपवनद्वारा धर्मादिजनितप्रस्वेदसंबन्धनिवर्तकः दृश्यमानः वसन्तश्च इह अस्मिन्वने मे शोकं वर्धयति ॥ ४।१।३४ ॥
तदेव भङ्ग्यन्तरेणाह मामिति । मृगशावाक्षी मृगबालनयनसदृशनयनविशिष्टा सा सीता वियुक्तानां दुःखप्रदत्वेन क्रौर्यविशिष्टः चैत्रवनानिलश्च चिन्ताशोकबलात्कृतं चिन्ताशोकबलहेतुकविविधकृतमन्तं मां संतापयति अविवक्षितकर्मकत्वेनाकर्मकत्वात्कर्तरि निष्ठा ॥ ४।१।३५ ॥
अमी इति । स्फाटिकैः स्वच्छत्वेन स्फटिकनिर्मितैः गवाक्षैरिव पवनोद्धूतैः पवनेन कम्पितैः स्वैः पक्षैः इतस्ततो नृत्यन्तो ऽमी मयूराः शोभन्ते ॥ ४।१।३६ ॥
शिखिनीभिरिति । शिखिनीभिः परिवृता मदमूर्छिताः मदेन हर्षेण मूर्छिताः प्रवृद्धा नृत्यन्त एते मयूराः मन्मथाभिपरीतस्य गर्वापहारित्वधर्मविशिष्टस्य मम मन्मथवर्धनाः गर्वापहारित्वप्रवर्धकाः सीतासंयोगार्थं तदपहारिगर्वध्वंसाय प्रेरयन्त इवेत्यर्थः ॥ ४।१।३७ ॥
पश्येति । मन्मथार्ता एषा शिखिनी नृत्यन्तं भर्तारं मयूरमुपनृत्यति त्वं पश्य ॥ ४।१।३८ ॥
तामिति । रुचिरौ पक्षौ वितत्य प्रसार्य रुतैः शब्दैस्तां रामामुपहसन्निव मयूरो ऽपि मनसा अनुधावति रामासमीपं गन्तुमिच्छति ॥ ४।१।३९ ॥
मयूरस्येति । यस्मात् मयूरस्य वने प्रिया सीता न हृता तस्मात् कान्तया सह नृत्यति मयूर इति शेषः । एतेन सीतापहरणदर्शने मयूराणामपि शोकातिशयः स्यादिति सूचितम् ॥ ४।१।४० ॥
ममेति । पुष्पमासे चैत्रे इत्यर्थः, विना सीततयेति शेषः, ममायं वासस्तु सुदुःसहः । अर्धं पृथक् ॥ ४।१।४१ ॥
पश्येति । तिर्यग्योनिगतेष्वपि संरागः जातः अधुना वसन्तसमये शिखिनी कामात् भर्तारं मयूरं यथा ऽभिवर्तते एवं तथैव विशालाक्षी जानकी यदि अपहृता न भवेत् तदा मदनेन अतिहर्षेणोपलक्षिता जातसंभ्रमा मत्कर्मकादरविशिष्टा सती ममाप्यभिवर्तेत मत्समीपमेव तिष्ठेदित्यर्थः, इति त्वं पश्य जानीहि । श्लोकद्वयमेकन्वयि ॥ ४।१।४२,४३ ॥
पश्येति । हे लक्ष्मण शिरिरात्यये वसन्ते इत्यर्थः, पुष्पभारसमृद्धानां वनानां पुष्पाणि मम निष्फलानि प्रियया विना निष्प्रयोजनकानि भवन्ति ॥ ४।१।४४ ॥
ग्राहकान्तराणामप्यभावात्पुष्पाणां वैयर्थ्यमेवेति बोधयन्नाह रुचिराणीति । अतिश्रिया ऽतिशोभया रुचिराण्यपि पादपानां पुष्पाणि निष्फलानि निष्प्रयोजनकानि अत एव मधुकरोत्करैः मधुकरसमूहैः समं महीं यान्ति ॥ ४।१।४५ ॥
नदन्तीति । शकुनाः पक्षिणः अन्योन्यम् आह्वयन्त इव मम कामोन्मादकराः सीतासंयोगविषयकोत्कटेच्छयोन्मादप्रवर्तकाः सन्तः कामं यथेच्छं कलं मनोहरं नदन्ति ॥ ४।१।४६ ॥
वसन्त इति । यत्र मे प्रिया सीता परवशा सती वसति तत्रापि यदि वसन्तः वसन्तहेतुकमयूरादिशब्दश्रवणं पुष्पोत्करादिदर्शनं च भवेदिति शेषः, उपवनादौ तिष्ठेदित्यर्थः, तदा अहमिव शोचति शोचेत् ॥ ४।१।४७ ॥
संभावनान्तरमाह नूनमिति । यत्र सा सीता अस्ति तं देशं वसन्तः वसन्तचिह्नं नैव स्पृशति सा नैव जानातीत्यर्थः, नूनं निश्चितमेतत् । तत्र हेतुमाह असितपद्माक्षी अरुणकमलनयना सा सीता मया विना कथं वर्तयेत् नैव तिष्ठेदित्यर्थः । एतेन मद्वियोगसमये वसन्तचिह्नदर्शनादेव मद्वियोगमसहमाना सती द्रुतं साकेतं गच्छेदिति तात्पर्यम् ॥ ४।१।४८ ॥
संभावनान्तरमाह अथवेति । अथवा यत्र मे प्रिया तत्र वसन्तः वर्तते वर्तेत सा तं जानीयादित्यर्थः । परंतु परैः शत्रुभिः निर्भर्त्सिता सती सा सीता किं करिष्यति । एतेन रावणस्य सामर्थ्यातिशयो व्यञ्जितः ॥ ४।१।४९ ॥
श्यामेति । श्यामा नित्यं षोडशवार्षिकीत्वेन प्रतीयमानां पद्मपलाशाक्षी कमलपत्रनयना मे प्रिया वसन्तमासाद्य प्राप्य जीवितं स्वशरीरपालनं परित्यक्ष्यति नूनं निश्चितमेतत् ॥ ४।१।५० ॥
तदेव भङ्ग्यन्तरेणाह दृढमिति । मद्विरहं वियोगं गता प्राप्ता सीता अलं वर्तयितुं शोभनतया स्थातुं न शक्ष्यतीति शेषः, हि इति बुद्धिः मम हृदये दृढं संपरिवर्तते ॥ ४।१।५१ ॥
तत्र हेतुं बोधयन्नाह मयीति । वैदेह्याः भावः प्रीतिः मयि तत्त्वतो विनिवेशितः संस्थापितः, ममापि भावः सीतायां सर्वथा तत्त्वतो विनिवेशितः । एतेन द्वयोः प्रीत्योरचाल्यत्वं व्यञ्जितम् ॥ ४।१।५२ ॥
एव इति । पुष्पवहः सुगन्धवानित्यर्थः, हिमावहः शैत्यं प्राप्तः अत एव सुखस्पर्शः एष वायुस्तां सीतां चिन्तयतो मम पावकप्रतिमः वह्निसदृशः, प्रतीयते इति शेषः ॥ ४।१।५३ ॥
सदेति । यं मारुतं पुरा सीतया सहा ऽहं सदा सुखं मन्ये स मारुतः सीतां विना मम शोकसञ्जननः ॥ ४।१।५४ ॥
तामिति । यो ऽसौ वायसः काकः पक्षी विहङ्गः आकाशं प्राप्तः सन् तदा सीतासंयोगकाले प्रणदितः वियोगसूचकप्रणादं कृतवान् स वायसस्तां विना सीतावियोगसमय इत्यर्थः, पादपगतः वृक्षं प्राप्तः सन् प्रहृष्टमभिकूजति संयोगसूचकनादं करोतीत्यर्थः । एतेन सीतासंयोगो ध्रुवं भविष्यतीति सूचितम् ॥ ४।१।५५ ॥
तदेव भङ्ग्यन्तरेणाह एष इति । विहगः आकाशगः सन् य एष वायसः प्रतिहारकः वियोगसूचकशब्दवत्त्वेन अपहरणहेतुः स एव पक्षी विशालाक्ष्या सीतायाः समीपं मामुपनेष्यति प्रापणसूचकसुशब्दवत्त्वेन हेतुना प्रापयिष्यति ॥ ४।१।५६ ॥
पश्येति । वने पुष्पिताग्रेषु वृक्षेषु अवकूजतां द्विजानां पक्षिणां मदविवर्धनं संनादं पश्य जानीहि ॥ ४।१।५७ ॥
विक्षिप्तामिति । पवनेन विक्षिप्तां सञ्चालितां तिलकमञ्जरीम् असौ षट्पदो भ्रमरः मदोद्धूतां मदहेतुकप्रकम्पविशिष्टां सहसा ऽभ्येति प्राप्नोति । एतेन प्रियया संयोक्तुं मामपि प्रेरयतीवेति सूचितम् ॥ ४।१।५८ ॥
कामिनामिति । अयमशोकः कामिनां प्रियाविषयकेच्छावतां वियुक्तानामित्यर्थः, अत्यन्तं शोकवर्धनः अत एव पवनोत्क्षिप्तैः स्तबकैः मां तर्जयन्निव स्थितः ॥ ४।१।५९ ॥
अमी इति । हे लक्ष्मण कुसुमशालिनः प्रशस्तकुसुमाश्रयाः अमी चूताः विभ्रमोत्सिक्तमनसः विभ्रमेण शृङ्गारविषयकविचारविशेषेण उत्सिक्तं युक्तं मनो येषां ते अत एव साङ्गरागाः अङ्गरागसहिताः नरा इव दृश्यन्ते ॥ ४।१।६० ॥
सौमित्र इति । चित्रासु पम्पायाः वनराजिषु वनपङ्क्तिषु किंनराः यतस्ततो विचरन्तीति पश्य ॥ ४।१।६१ ॥
इमानीति । जले तरुणसूर्यवत् उदयकालिकसूर्य इव इमानि नलिनानि अरुणकमलानि प्रकाशन्ते । अभूतोपमैषा ॥ ४।१।६२ ॥
एषेति । प्रसन्नसलिला स्वच्छजलविशिष्टा पद्मैः नीलोत्पलैश्चायुता व्याप्ता हंसकारण्डवाकीर्णा हंसैः कारण्डवैश्च आकीर्णा युक्ता सौगन्धिकायुता सौगन्धिकेन कमलजातिविशेषकह्लारेणायुता व्याप्ता असौ पम्पा ऽस्तीति शेषः ॥ ४।१।६३ ॥
जल इति । तरुणसूर्याभैः उदयकालिकसूर्यसदृशैः षट्पदैः आहृतानि केशराणि येषां तैः पङ्कजैररुणकमलैः समन्तादभिसंवृता पम्पा शोभते ॥ ४।१।६४ ॥
चक्रेति । नित्यचक्रवाकयुता चित्रप्रस्थवनान्तरा चित्रप्रस्थानि चित्रप्रदेशकानि वनान्तराणि वनमध्यानि यस्याः सा पम्पा सलिलार्थिभिः जलं पातुकामैः मातङ्गैर्गजैः मृगयूथैश्च शोभते ॥ ४।१।६५ ॥
पवनेति । एवनेन आहताः वेगाः यासां ताभिः ऊर्मिभिः लहरीभिस्ताड्यमानानि पङ्कजानि विमले अम्भसि जले विराजन्ते ॥ ४।१।६६ ॥
पद्मेति । सततं प्रियपङ्कजां वैदेहीमपश्यतो मे जीवितं प्राणपालनं नाभिरोचते ॥ ४।१।६७ ॥
अहो इति । यः गतामन्यत्र प्राप्ताम् अत एव दुर्लभां दुःखेन लब्धव्यां कल्याणीं नित्यं कल्याणसंयुक्तामत एव कल्याणतरवादिनीं सीतां स्मारयिष्यति स्मरयति तस्य कामस्य संयोगेच्छाविशेषस्य अमत्वं प्राप्तिः अहो सुखप्रदं, वाशब्दो हेत्वर्थे । एतेन भविष्यत्कालिकी तस्याः प्राप्तिर्यदि न स्यात्तर्हि ईदृगिच्छाविशेषो न स्यादिति सूचितं तेन तस्याः प्राप्तिर्ध्रुवं भविष्यतीति ध्वनितम् ॥ ४।१।६८ ॥
शक्य इति । पुष्पितद्रुमः वसन्तः यदि मां न हन्यात् तर्हि अभ्यागतः सम्प्राप्तः कामः सीताप्राप्तिविषयकोत्कटेच्छा धारयितुं मया शक्यः भवेत् । एतेन वसन्तहेतुकेन प्रियावियोगजनितदुःखेन यदि शैथिल्यं प्राप्नुयात् तर्हि तादृगिच्छा ऽपि निवर्तेत तर्हि इच्छाहेतुकोद्योगाभावात् तत्प्राप्तिर्न भविष्यतीति ध्वनितम् ॥ ४।१।६९ ॥
यानीति । सीतया सह यानि पुष्पादीनि मे रमणीयानि भवन्ति तान्येव तया विना अरमणीयानि जायन्ते ॥ ४।१।७० ॥
पद्मेति । पद्मकोशपलाशानि पद्मकोशदलानि सीतायाः नेत्रकोशाभ्यां नेत्रपक्ष्मप्रदेशाभ्यां सदृशानि इति हेतोः द्रष्टुं दृष्टिः मन्यते इच्छति । पद्मकोशपलाशानीत्युभयान्वयि । एकत्रशब्द अपरत्रार्थः ॥ ४।१।७१ ॥
पद्मेति । पद्मकेशरसंसृष्टः पद्मकेशरसंबन्धी वृक्षान्तरविनिस्सृतः वृक्षयोर्मध्यादागतः मनोहरो वायुः सीतायाः निःश्वास इव वाति ॥ ४।१।७२ ॥
सौमित्र इति । पम्पायाः दक्षिणे गिरिसानुनि पर्वतशिखरे पुष्पितां कर्णिकारस्य यष्टिं कर्णिकारवृक्षमित्यर्थः, पश्य ॥ ४।१।७३ ॥
अधिकमिति । धातुभिः गैरिकादिभिः विभूषितः अयं शैलराजः वायुवेगविघट्टितं वायुवेगेन संप्रापितं विचित्रमनेकविधैः सुगन्धैः रङ्गैश्च विशिष्टं रेणुं सृजते ॥ ४।१।७४ ॥
गिरीति । हे सौमित्रै गिरिप्रस्थाः शैलप्रदेशाः सर्वतः संप्रपुष्पितैः अत एव निष्पत्रैः अत एव रम्यैः किंशुकैः पलाशैः सर्वतः प्रदीप्ताः प्रज्वलिता इव भान्तीति शेषः ॥ ४।१।७५ ॥
पम्पेति । संसिक्ताः पम्पाजलकर्तृकसेकविशिष्टाः मधुगन्धिनः मालत्यादयः पम्पातीररुहाः गिरिपृष्ठेषु नीलाशोकादयश्च शोभन्ते । श्लोकचतुष्टयमेकान्वयि ॥ ४।१।७६७९ ॥
अङ्कोला इति । गिरिसानुषु गिरिशृङ्गेषु अङ्कोलादयः दृश्यन्ते । सार्धश्लोकत्रयमेकान्वयि ॥ ४।१।८०८२ ॥
पुष्पितानिति । पुष्पिताग्राभिः लताभिः परिवेष्टितान् पुष्पितान् अत एव सुरुचिरान् पम्पायाः बहून् द्रुमान् पश्य । अर्धद्वयमेकान्वयि ॥ ४।१।८३ ॥
वातेति । वातेन विक्षिप्ताः सञ्चलिताः विटपाः शाखाः येषां तान् अत एव संनतान् नम्नीभूतान् इमान् द्रुमान् लताः मत्ताः वरस्त्रिय इव यथा यथावत् समनुवर्तन्ते संवेष्टयन्ति ॥ ४।१।८४ ॥
पादपादिति । पादपात् वृक्षात् पादपं वृक्षान्तरं शैलात् शैलं वनाद्वनं गच्छन् अनिलो वायुः नैकरसास्वादेन अनेकविधरसानुभवेन संमोदितः प्राप्तानन्द इव वाति ॥ ४।१।८५ ॥
केचिदिति । पर्याप्तकुसुमाः पर्याप्तानि परिपूर्णानि कुसुमानि येषु ते मधुगन्धिनः केचित्पादपाः आबभुः । मुकुलसंवीताः कुड्मलैः पूर्णाः अत एव श्यामवर्णां इव केचित्पादपाः आबभुः ॥ ४।१।८६ ॥
इदमिति । इदं मृष्टं स्वच्छम् इदं स्वादु इदं प्रफुल्लमित्यपि इति च रागयुक्तः अनुरागविशिष्टो मधुकरः कुसुमेषु अवलीयते ॥ ४।१।८७ ॥
अवलीनप्रकारमाह निलीयेति । मधुकरो भ्रमरः पम्पातीरद्रुमेषु केषुचित् द्रुमपुष्पेषु निलीय पुनरुत्पत्य निःसृत्य सहसा अन्यत्र पुष्पान्तरेषु गच्छति ॥ ४।१।८८ ॥
इयमिति । शयनप्रस्तरैः शय्यास्तरणैरिव स्वयं निपतितैः कुसुमसंघातैः पुष्पसमूहैः उपस्तीर्णा आच्छादिता अत एव सुखाकृता सुखसंपादिका इयं भूमिरस्तीति शेषः ॥ ४।१।८९ ॥
विविधा इति । विविधैस्तैः स्वयं पतितैरेव पुष्पैः विविधा अनेकविधाः विस्तीर्णाः विशालाः पीतरक्ताभाः प्रस्तराः शय्या इव गिरिसानुषु पर्वतशृङ्गेषु कृताः ॥ ४।१।९० ॥
हिमान्त इति । हिमान्ते शिशिरावसाने पुष्पमासे चैत्रे तरवः हि यतः संघर्षात् परस्पराभिभवेच्छयेव पुष्पिताः अतः वृक्षाणां पुष्पसम्भवं पुष्पसंपत्ति पश्य ॥ ४।१।९१ ॥
आह्वयन्त इति । कुसुमोत्तंसविष्टपाः कुसुमशिरस्काशाखावन्तः अत एव षट्पदनादिताः अत एव अन्योन्यमाह्वयन्त इव नगाः वृक्षाः शोभन्ते ॥ ४।१।९२ ॥
एष इति । कारण्डव एष पक्षी कामं सीतासंयोगेच्छामुद्दीपयन्निव सलिलं विगाह्य कान्तया सार्धं रमते ॥ ४।१।९३ ॥
मन्दाकिन्या इति । यत् यस्मात् हेतोः मन्दाकिन्याः तत्सदृश्याः पम्पायाः इदमेतत् रूपं मनोरमम् अतः तस्याः मन्दाकिन्याः मनोरमाः गुणा जगति विख्याताः प्रसिद्धाः अतः स्थाने युक्तमेतत् ॥ ४।१।९४ ॥
यदीति । रघूत्तम हे लक्ष्मण सा सीता यदीह दृश्येत अत एव यदि वसेम तदा शक्राय इन्द्रसुखाय अयोध्यायै च न स्पृहयेयम् ॥ ४।१।९५ ॥
तदेव सहेतुकमाह नहीति । शाद्वलेषु तया सीतया सह रमतो मम अन्येषु लोकादिषु चिन्तास्मृतिर्न भवेत् एवं स्पृहा इच्छा न भवेत् ॥ ४।१।९६ ॥
अमी इति । विविधच्छदाः अनेकविधपत्रविशिष्टाः अमी तरवः कान्तां विना मे चिन्तामुत्पादयन्ति ॥ ४।१।९७ ॥
पश्येति । शीतजलां पुष्करायुतां चक्रवाकानुचरितां चक्रवाकैः सेवितां महामृगनिषेविताम् इमां पम्पां पश्य । सार्धश्लोक एकान्वयी ॥ ४।१।९८,९९ ॥
अधिकमिति । विकूजद्भिर्विहङ्गमैः पम्पा अधिकं शोभते । अर्धं पृथक् दीपयन्तीति । मुदिता द्विजाः पक्षिणः श्यामां षोडशवार्षिकीत्वेन प्रतीयमानां प्रियां स्मृत्वा विद्यमानस्य मे कामं संयोगेच्छां दीपयन्तीव दीपयन्त्येव । अर्धद्वयमेकान्वयि ॥ ४।१।१०० ॥
पश्येति । चित्रेषु सानुषु मृगीभिः सहितान्मृगान्पश्य । एतेन संयुक्तदर्शनमपि मम प्रियास्मारकमिति सूचितम् ॥ ४।१।१०१ ॥
ननु किं तेनेत्यत आह मामिति । मृगशावाक्ष्या मृगबालनयनया वैदेह्या विरहीकृतं मां ततस्ततः सञ्चरन्तः मृगीसहिताः मृगाः मे चित्तमतीव व्यथयन्ति संयोगकालिकसुखानुभवस्मृत्या व्यथां संपादयन्तीत्यर्थः ॥ ४।१।१०२ ॥
अस्मिन्निति । रम्ये मत्तद्विजगणाकुले उन्मत्तपक्षिसमूहैर्व्याप्ते अस्मिन्सानुनि यदि कान्तां पश्येयं तर्हि मम स्वस्ति भवेत् ॥ ४।१।१०३ ॥
तदाकारमाह जीवेयमिति । वैदेही यदि पम्पायाः पवनं मया सह सेवेत तर्हि जीवेयं शरीरपालनं कुर्याम् ॥ ४।१।१०४ ॥
पद्मेति । पद्मसौगन्धिकयोः वहं सुगन्धप्रापकम् अत एव शोकविनाशनं पम्पायाः वनमारुतं ये सेवन्ते धन्याः । पद्मसौगन्धिकशब्दो लक्षणया स्वस्वगन्धपरः अवान्तरजातिभेदान्न पौनरुक्त्यम् ॥ ४।१।१०५ ॥
श्यामेति । श्यामा नित्यं षोडशवार्षिकीत्वेन प्रतीयमाना मया विरहिता जनकात्मजा प्राणान्कथं धारयति ॥ ४।१।१०६ ॥
किमिति । पृष्टसीतं पृष्टा सीता येन तं सत्यावादिनं जनकं किं कुशलं वक्ष्यामि नु महान्विस्मयो ऽयम् ॥ ४।१।१०७ ॥
यामिति । या सीता पित्रा वनं प्रस्थापितं मां धर्मं समास्थाय मन्दं शनैः अनुगता सा सीता क्व वर्तते ॥ ४।१।१०८ ॥
तयेति । राज्याद्भ्रष्टम् इहागतम् अत एव विहतचेतसं निवर्तितराज्यविषयकचित्तं मां या सीता अनुगता तया विहीनः अत एव कृपणो ऽहं कथं धारये प्राणानिति शेषः ॥ ४।१।१०९ ॥
तदिति । अञ्चिते पूजिते विदैः प्रशंसिते इत्यर्थः, प्रद्मतुल्ये अक्षिणी यस्मिन् सुगन्धि शोभनगन्धविशिष्टं शुभं सकलमङ्गलहेतुभूतम् अव्रणं विस्फोटकादिहेतुकव्रणरहितं तस्याः सीतायाः चारु मुखम् अपश्यतो मम मनः सीदत्येव । इवशब्दः एवार्थे ॥ ४।१।११० ॥
स्मितेति । स्मितहास्यान्तरयुतं स्मितम् ईषदेव हास्यं यस्मिंस्तदेव अन्तरं मुखमध्यं तत्रैव युतं संयोगो यस्य तत् गुणवत् प्रसादादिगुणविशिष्टं मधुरं मधुरवर्णविशिष्टं हितम् उपकारकम् अत एव अतुलम् उपमारहितं वैदेह्याः वाक्यं कदा श्रोष्यामि ॥ ४।१।१११ ॥
प्राप्येति । श्यामा षोडशवार्षिकीत्वेन प्रतीयमाना साध्वी पतिव्रता सीता वने दुःखं प्राप्यापि मन्मथविकर्शितं समयाभावात् तिरोहितमदमथनकर्तृत्वकं मां प्राप्यैव नष्टदुःखा अत एव हृष्टा सती साधु यथा भवति तथा अभ्यभाषत अभिभाषेत । एक इव एवार्थे अपरो हेत्वर्थे ॥ ४।१।११२ ॥
किमिति । नृपात्मज हे लक्ष्मण सा मया प्रेषिता स्नुषा क्व कस्मिन् स्थाने कथं केन प्रकारेणास्तीति शेषः, इति पृच्छन्तीं कौशल्यां किं नु वक्ष्यामि ॥ ४।१।११३ ॥
गच्छेति । हे लक्ष्मण त्वं गच्छ भरतं पश्य अहं तु तां जनकात्मजामृते विना जीवितुमिह पालयितुं न शक्तो ऽस्मीति शेषः ॥ ४।१।११४ ॥
इतीति । अनाथवत् नाथत्वाभाववन्तमिव इति विलपन्तं महात्मानं रामं लक्ष्मणः युक्तमुचितमव्ययं विकाररहितं वचनमुवाच ॥ ४।१।११५ ॥
तद्वचनाकारमाह संस्तम्भेति । हे पुरुषोत्तम हे राम मा शुचः शोकं न कुरु संस्तम्भ समुत्पन्नं शोकं निवर्तय । तत्र हेतुः ते भद्रमेव । तत्रापि हेतुः अकलुषात्मनां नित्यं कलुषसंसर्गरहितानाम् ईदृशानां भवत्सदृशानां मतिरिच्छा मन्दा निष्फला न भवति । एतेन भवदीप्सितसिद्धिर्भविष्यत्येवेति तात्पर्यम् ॥ ४।१।११६ ॥
अशीघ्रपाप्तौ कृत्यमाह स्मृत्वेति । वियोगजं दुःखं स्मृत्वा प्रिये अतिप्रीतविषयीभूते अजने विधातरि स्नेहं प्रीतिं त्यज राममात्रैकवध्यो रावण इति ब्रह्मवरप्रदानं दूरीकुर्वित्यर्थः । एतेन वरप्रदानस्य मृषात्वे मां महाकालं वा संपेर्य द्रुतं रावणं घातयेति सूचितम् ॥ ४।१।११७ ॥
ननु रावणो यदि पलायेत तर्हि कथं तद्विघात इत्यत आह यदीति । रावणो यदि पातालं गच्छति गच्छेत् ततो ऽप्यधिकमधो वा गच्छति तदा ऽपि रावणः सर्वथा न भविष्यति विनङ्क्ष्यतीत्यर्थः ॥ ४।१।११८ ॥
ननु ब्रह्मवरप्रदानस्य मृषात्वे मर्यादाभङ्गः स्यात् । अतः उपायान्तरं वक्तव्यमित्याशङ्कामुद्भाव्य उपायान्तरमाह प्रवृत्तिरिति । तस्य रावणस्य प्रवृत्तिः संस्थितिः तावत्प्रथमं लभ्यतां यत्नतो ज्ञायतां, ततः प्रवृत्तिज्ञानानन्तरं सीतां वा हास्यति निधनं विनाशं वा गमिष्यति प्राप्स्यति । तत्र गत्वा जहीत्यर्थः ॥ ४।१।११९ ॥
ननु पलायितश्चेत्कथमस्मत्कर्तृकवधः स्यादित्यत आह यदीति । चेत् यदि मैथिलीं न दास्यति तदा सीतया सह रावणो यदि दितेः अवध्यदैत्यमातुः गर्भं याति तदा तत्र गर्भे एनं रावणं हनिष्यामि रावणं संताड्य सीतामानेता ऽस्मीति तात्पर्यम् ॥ ४।१।१२० ॥
स्वास्थ्यमिति । हे आर्य भद्रं कल्याणकारकं स्वास्थ्यं धैर्यं भजस्व स्वीकुरु अत एव कृपणा सीतावियोगहेतुककार्पण्यविशिष्टा मतिः त्यज्यताम् । एतेन तस्या अन्वेषणे यत्नः कर्तव्य इति व्यञ्जितम् । यत्नाभावे दोषमाह अयत्ने यत्नाभावे सति नष्टकार्यार्थैः नष्टौ कार्यार्थौ प्रयत्नधने येषां तैः अर्थः नष्टधनं न लभ्यते ॥ ४।१।१२१ ॥
यत्नो ऽप्युत्साहमूलक इति बोधयन्नाह उत्साह इति । हि यतः उत्साहात् उत्साहं परित्यज्य बलं परमुत्कृष्टं कार्यसाधकमित्यर्थः, नास्ति अतः उत्साह एव बलवान् प्रशस्तबलप्रवर्तकः अतः सोत्साहस्य पुरुषस्य लोकेषु किंचिदपि न दुर्लभम् ॥ ४।१।१२२ ॥
उत्साहवन्त इति । उत्साहवन्तः प्रशस्तोत्साहविशिष्टाः पुरुषाः कर्मसु दुष्करक्रियास्वपि नावसीदन्ति अतः उत्साहमात्रमाश्रित्य जानकीं प्रतिलप्स्यामः ॥ ४।१।१२३ ॥
त्यज्यतामिति । महात्मानं महानां सर्वपूज्यब्रह्मादित्रयाणामात्मानं नियन्तारमत एव कृतात्मानं तैः कृतः आत्मा मनो यस्मिंस्तमात्मानं स्वस्वरूपं किं किमर्थं न बुध्यते स्मरसि । बोधप्रयोजनमाह शोकं पृष्ठतः सन्यस्य कृत्वा त्यक्त्वेत्यर्थः, कामवृत्तत्वं राक्षसकर्तृकयथेच्छवर्तनं त्यज्यतां त्याज्यताम् ॥ ४।१।१२४ ॥
एवमिति । शोकोपहतचेतनः प्रियवियोगहेतुकशोकव्याप्तचित्तः एवं संबोधितः लक्ष्मणेन प्रार्थितः रामः शोकं मोहं कर्तव्यविषयकविवेकराहित्यं च त्यज्य त्यक्त्वा धैर्यमुपागमत् प्राप्नोत् ॥ ४।१।१२५ ॥
स इति । अचिन्त्यपराक्रमः अव्यग्रः नित्यं व्यग्रतारहितः स रामः पारिप्लवद्रुमां वायुप्रकम्पितद्रुमविशिष्टां पम्पामभ्यतिक्रामत् अत्यजत् । आगमशास्त्रस्यानित्यत्वादडभावः ॥ ४।१।१२६ ॥
अतिक्रमणप्रकारमाह निरीक्षमाण इत्यादिभिः । उद्विग्नचेताः वियुक्तसीतास्मरणहेतुकोद्विग्नचित्तः अत एव दुःखोपहतः दुःखव्याप्तः महात्मा रामः विचार्य सीतान्वेषणमवश्यं कर्तव्यमिति निश्चित्य सर्वं वनं निर्झरकन्दरं च निरीक्षमाणः सन् प्रतस्थे ॥ ४।१।१२७ ॥
तमिति । गच्छन्तं राघवं तं रामं मत्तमातङ्गविलासगामी मत्तगजवत् विलासेन गच्छति तच्छीलः धर्मेण रामसेवकत्वरूपस्वस्वभावेन बलेन च उपलक्षितः अत एव इष्टचेष्टः इष्टे रघुनाथेच्छाविषयीभूते चेष्टा व्यापारो यस्य रामेप्सितसाधक इत्यर्थः, स लक्ष्मणः ररक्ष ॥ ४।१।१२८ ॥
ताविति । ऋष्यमूकस्य समीपचारी शाखामृगाणां वानराणमधिपः सुग्रीवः अद्भुतदर्शनीयौ तौ रामलक्ष्मणौ ददर्श अत एव वितत्रसे वालिप्रेषितबलवत्पुरुषसंभावनया वित्रासं प्राप अत एव इष्टं किंचित् हितं न चिचेष्ट नावलुलोके । विभ्रान्तिमत्तस्य बभूव चित्तम् इति तीर्थादिपाठः ॥ ४।१।१२९ ॥
तदेव भङ्ग्यन्तरेणाह स इति । गजमन्दगामी शाखामृगः सुग्रीवः तत्र ऋष्यमूके चरन् सन् चरन्तौ तौ रामलक्ष्मणौ दृष्ट्वा चिन्तापरीतः को ऽयमिति चिन्तया व्याप्तः अत एव भयभारभग्नः निरस्तोत्साहश्च सन् परमं विषादं दुःखं जगाम प्राप ॥ ४।१।१३० ॥
तमिति । पुण्यसुखं पुण्यसुखयोः संपादकं शरण्यं शरणहितमत एव सदैव शाखामृगसेवितान्तं शाखामृगैः सेवितः अन्तः मध्यं यस्य तं मतङ्गशापात् वालिना दुष्प्रवेशमाश्रमं महौजसौ तौ राघवलक्ष्मणौ दृष्ट्वा त्रस्ताः हरयो वानराः अभिजग्मुः ॥ ४।१।१३१ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ किष्किन्धाकाण्डे प्रथमः सर्गः ॥ ४।१ ॥