कबन्ध-गमनानन्तर-कालिकं राम-वृत्तान्तम् आह–ताव् इत्यादिभिः ।
कबन्धेन दर्शितं पम्पायाः तं मार्गं प्रतीचीं दिशं गृह्य गृहीत्वा तौ रामलक्ष्मणौ आतस्थतुः
॥ ३।७४।१ ॥
ताविति । शैलेषु पर्वतावयवेषु आचितानेकान् आचितान् व्याप्तान् अनेकान् बहून् क्षौद्रपुष्पफलद्रुमान् क्षौद्रैर् मधुभिः पुष्पैः फलैश्च विशिष्टान् तरून् वीक्षन्तौ रामलक्ष्मणौ सुग्रीवं द्रष्टुं जग्मतुः ॥ ३।७४।२ ॥
कृत्वेति । तौ रामलक्ष्मणौ शैलपृष्ठे वासं कृत्वैव पम्पायाः पश्चिममेव तीरमुपतस्थतुः ॥ ३।७४।३ ॥
ताविति । तौ रामलक्ष्मणौ पुष्करिण्याः पम्पायाः पश्चिमं तीरमासाद्य तत्र शबर्याः आश्रमम् अपश्यताम् ॥ ३।७४।४ ॥
ताविति । तौ बहुभिर्द्रुमैः आवृतं सुरम्यं तं शबरीसंबन्धिनमाश्रमम् आसाद्य वीक्षन्तौ इतस्ततः शबरीमन्वेषयन्तौ अभ्युपेयतुः ॥ ३।७४।५ ॥
तौ इति । सिद्धा तपःसिद्धिं प्राप्ता शबरी तौ रामलक्ष्मणौ दृष्ट्वा कृताञ्जलिः सती उत्थाय पादौ जग्राह पाद्यादिकं च प्रादात् । सार्धश्लोक एकान्वयी ॥ ३।७४।६ ॥
तामिति । ततः शबरीदत्तपाद्यादिस्वीकारानन्तरं श्रमणीं तपस्विनीं शबरीं राम उवाच । अर्धं पृथक् ॥ ३।७४।७ ॥
तद्वचनाकारमाह–कच्चिदित्यादिभिः । ते त्वया विघ्नाः निर्जिताः कच्चिदिति प्रश्ने । कोपो नियतः निवर्चितः आहारो नियतो नियमितः शब्दावृत्त्या उभयान्वयी ॥ ३।७४।८ ॥
कच्चिदिति । नियमाः योगाङ्गीभूतनियमादयः सफलाः फलसहिताः ॥ ३।७४।९ ॥
रामेणेति । रामेण पृष्टा प्रत्यवस्थिता तत्संमुखं स्थिता तापसी शबरी रामाय शशंस ॥ ३।७४।१० ॥
तद्वचनाकारमाह–अद्येति । तव संदर्शनात् अद्य तपःसिद्धिः कृछ्रचान्द्रायणादिनिष्पत्तिः प्राप्ता अत एव मे जन्म सफलम् अत एव गुरवः सुपूजिताः ॥ ३।७४।११ ॥
अद्येति । हे पुरुषर्षभ देववरे ब्रह्मादिभ्यो ऽपि श्रेष्ठे त्वयि सुपूजिते सति तप्तं विचारः सफलम् अत एव स्वर्गो ऽपि भविष्यति ॥ ३।७४।१२ ॥
चक्षुषेति । हे रघुनन्दन तव सौम्येन चक्षुषा ऽवलोकनेन अहं पूतास्मि अत एव त्वत्प्रसादात्त्वत्प्रसन्नतां प्राप्य अक्षयान् ध्वंसाप्रतियोगिनः लोकान् गमिष्यामि ॥ ३।७४।१३ ॥
चित्रकूटमिति । यान् ऋषीनहं पर्यचारिषम् असेविषि ते ऋषयः त्वयि चित्रकूटं प्राप्ते सति अतुलप्रभैः अनुपमप्रभाविशिष्टैः विमानैः इतः दिवमारूढाः ॥ ३।७४।१४ ॥
स्वस्थितौ निमित्तमाह–तैरिति । सौमित्रिसहितो रामः इमं ते आश्रममागमिष्यति अतः स रामो ऽतिथिः ते त्वया प्रतिग्रहीतव्यः सत्कारपूर्वं निवेशनीयः तं रामं दृष्ट्वा वरान् उत्तमान् लोकान् त्वं गमिष्यसि इति तैर्दिवमारोहद्भिः महर्षिभिरहमुक्ता । श्लोकद्वयमेकान्वयि ॥ ३।७४।१५१६ ॥
एवमिति । तदा स्वर्गगमनसमये महाभागैः महर्षिभिः यतो ऽहमेवमुक्ता अतः मया तवार्थे पम्पायास्तीरसंभवं विविधं वन्यं फलमूलादि संचितम् । सार्धश्लोक एकान्वयी ॥ ३।७४।१७ ॥
एवमिति । शबर्या एवमुक्तो राघवः विज्ञाने अतिदुर्लभपरमात्मज्ञाने ऽपि अबहिष्कृतां तद्विषयकज्ञानवतीमित्यर्थः, तां शबरीम् इदं प्राह ॥ ३।७४।१८ ॥
तद्वचनाकारमाह–दनोरिति । दनोः कबन्धात् श्रुतं ते त्वत्संबन्धिनां महात्मनां प्रत्यक्षं महात्मजनप्रसिद्धं प्रभावं साक्षात्संद्रष्टुमिच्छामि यदि मन्यसे इच्छसि ॥ ३।७४।१९ ॥
एतदिति । रामवक्रविनिःसृतमेतद्वचनं श्रुत्वा उभौ रामलक्ष्मणौ तद्वनं दर्शयामास ॥ ३।७४।२० ॥
दर्शनप्रकारमाह–पश्येति । मेघघनप्रख्यं निबिडमेघसदृशं मतङ्गवनमिति नाम्ना विश्रुतं प्रसिद्धम् एव इदं वनं पश्य ॥ ३।७४।२१ ॥
इहेति । भावितात्मानः परिशीलितपरमात्मानः ते प्रसिद्धाः मे गुरवः इह अस्मिन्प्रदेशे मन्त्रवन्मन्त्रपूजितं मन्त्रवतां मन्त्रवतां मन्त्रवेदितृ़णामित्यर्थः, मन्त्रैः पूजितम् आह्लानमन्त्रैरभिमन्त्रितं तीर्थं गङ्गादि जुहवाञ्चक्रिरे आददिरे आनिन्युरित्यर्थः, तीर्थमध्वरं जुहवाञ्चक्रिरे चक्रुरित्यर्थो वा ॥ ३।७४।२२ ॥
इयमिति । यत्र यस्यां मे मया सुसत्कृताः ते मतङ्गशिष्याः श्रमात् अत्यनुष्ठितकृछ्रचान्द्रायणादिजनितखेदात् उद्वेपिभिः कम्पयुक्तैः करैः पुष्पोपहारं कुर्वन्ति ॥ ३।७४।२३ ॥
तेषामिति । हे रघूत्तम तेषामस्मद्गुरूणां तपःप्रभावेण श्रिया स्वशोभया सर्वाः दिशः अद्यापि द्योतयन्ती वेदी त्वं पश्य । वाक्यार्थस्य दृशिक्रियायां कर्मत्वेनान्वयात्तद्वाचकस्य प्रातिपदिकत्वाभावात् न द्वितीया ऽद्योतयन्ति दिशः सर्वाः श्रिया वेद्यो ऽतुलप्रभाःऽ इति भूषणपाठः ॥ ३।७४।२४ ॥
अशक्नुवद्भिरिति । उपवासश्रमालसैः शास्त्रविहितापवासजनितश्रमहेतुकालसविशिष्टैः अत एव गन्तुमशक्नुवद्भिस्तैः मदाचार्यैः चिन्तितेन चिन्तया गतान्समेतान् संघीभूतान्सप्त सागरान् त्वं पश्य ॥ ३।७५।२५ ॥
कृतेति । हे रघुनन्दन पादपेषु वृक्षेषु कृताभिषेकैः कृतस्नानैः न्यस्ताः संस्थापिताः वल्कला अद्यापि न विशुष्यन्ति ॥ ३।७४।२६ ॥
देवेति । देवकार्याणि कुर्वद्भिः अस्मदाचार्यैः कुवलयैः कुड्मलैः सार्धं पुष्पैः यानि इमानि कृतानि रचितानि मालाजातानि तानि म्लानत्वं नैव यान्ति ॥ ३।७४।२७ ॥
कृत्स्नमिति । इदं वनं त्वया दृष्टं श्रोतव्यं महात्मानो यशः श्रुतं च तत्तस्माद्धेतोः अभ्यनुज्ञाता आचार्यैः रामाग्रे त्वया तनुत्यागः कर्तव्यः इत्याज्ञापिता अहम् एतत्कलेवरं त्यक्ष्यामि ॥ ३।७४।२८ ॥
तनुं त्यक्त्वा किं करिष्यसीत्यत आह–तेषामिति । तेषाम् आश्रमः अयमिति शेषः, अहं परिचारिणी च तेषां भावितात्मनां परिशीलितपरमात्मनां मुनीनां समीपं गन्तुमहामेच्छमि ॥ ३।७४।२९ ॥
धर्मिष्ठमिति । धर्मिष्ठम् अत्यन्तं धर्मसंयुक्तं वचः शबरीवचनं श्रुत्वा प्रहर्षं लेभे आश्चर्यमित्यब्रवीच्च ॥ ३।७४।३० ॥
तामिति । शंशितव्रतान् अतितीक्ष्णव्रतशीलां शबरीं हे भद्रे त्वया अहं अर्चितः अतो यथाकामं गच्छ इति राम उवाच ॥ ३।७४।३१ ॥
इतीति । इत्येवं रामेण उक्ता जटिला जटावती चीरकृष्णजिनाम्बरा चीरं खण्डपटः तत्सहितं कृष्णाजिनम् अम्बरं यस्याः अनुज्ञाता रामाज्ञया त्वया समागन्तव्यम् इति पूर्वं स्वाचार्यैराज्ञपिता शबरी आत्मानं स्वदेहं हुताशने हुत्वा संस्थाप्य ज्वलत्पावकसंकाशा प्रज्वलितवह्निसदृशी सती स्वर्गमेव जगाम । सार्धश्लोक एकान्वयी ॥ ३।७४।३२ ॥
दिव्येति । दिव्याभरणसंयुक्ता दिव्यभूषणैर्भूषिता दिव्यमाल्यानुलेपना दिव्ये माल्यानुलेपने पुष्पचन्दने यस्याः सा दिव्याम्बरधरा शबरी प्रियदर्शना बभूव ॥ ३।७४।३३ ॥
विराजयन्तीति । सौदामिनी सुदामाभिधपर्वते प्रकाशमाना विद्युदिव तं देशं विराजयन्ती प्रकाशयन्ती शबरी यत्र यस्मिन् स्थाने सुकृतात्मानः महर्षयः ते शबरीगुरवः विहरन्ति तत् पुण्यस्थानम् आत्मसमाधिना स्वचित्तैकाग्र्येण जगाम । सार्धश्लोक एकान्वयी ॥ ३।७४।३४३५ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे चतुःसप्ततितमः सर्गः ॥ ३।७४ ॥