कबन्धोक्तिमेव वर्णयितुमाह–निदर्शयित्वेति । सीतायाः परिमार्गणे अन्वेषणे उपायमिति शेषः, निदर्शयित्वा निबोध्य अन्वर्थं सप्रयोजनं वाक्यं अर्थज्ञः कबन्धः पुनरब्रवीत् ल्यबभाव आर्षः ॥ ३।७३।१ ॥
तद्वचनाकारमाह–एष इत्यादिभिः । हे राम प्रतीचीं दिशमाश्रित्य यत्र देशे पुष्पिताः अत एव मनोरमाः एते द्रुमाः प्रकाशन्ते एष एव शिवः कल्याणप्रदः पन्थाः सुग्रीवसमीपप्रापकमार्गः ॥ ३।७३।२ ॥
जम्ब्विति । जम्ब्वादयो ये वृक्षास्तानारुह्य बलाद्भूमौ पातयित्वा वा अमृतकल्पानि अमृतसदृशानि फलानि भक्षयन्तौ युवां गमिष्यथः । तत्र धन्वनाः धवाः, नागवृक्षाः नागकेसराः, अग्निमुख्याः अरुष्कराः, सुरक्ताः रक्तचन्दनाः, पारिभद्रकाः मन्दाराः । सार्धश्लोकत्रयमेकान्वयि ॥ ३।७३।३५ ॥
तदिति । हे काकुत्स्थ तद्वनम् अतिक्रम्य नन्दनप्रतिमम् अन्यद्वनं प्राप्स्यथ इति शेषः, यत्र वने उत्तराः कुरव इव पादपाः वृक्षाः मधुरस्रवाः मधुच्युतः सर्वकालफलाश्च सन्तीति शेषः । सार्धश्लोक एकान्वयी ॥ ३।७३।६७ ॥
सर्व इति । चैत्ररथे वने यथा इव सर्वे ऋतवः तस्मिन्वने सन्तीति शेषः । अर्धं पृथक्–तत्र तस्मिन्वने फलभारनताः फलभारेणाधो गताः महाविटपधारिणः अतिबृहच्छाखावन्तः मेघपर्वतसंनिभाः ये वृक्षाः सर्वतः शोभन्ते तानारुह्य अथवा भूमौ पातयित्वा अमृतकल्पानि फलानि सुखं यथा स्यात्तथा लक्ष्मणस्ते तुभ्यं प्रदास्यति । अर्धचतुष्टयमेकान्वयि ॥ ३।७३।८९ ॥
चङ्क्रमन्ताविति । वरान् शैलान् पर्वतान् शैलात् शैलं शैलान्तरं च वनाद्वनं च चङ्क्रमन्तौ चङ्क्रम्यमाणौ युवाम् अशर्करां शर्करारहिताम् अविभ्रंशां न विभ्रंशः अधःपतनकारकः कर्दमस्तीरे यस्यां तां समतीर्थां वैषम्यरहितघट्टविशिष्टाम् अशैवलां शैवलरहितां संजातवालूकां संजाता शिलासंघर्षेण समुद्भूता वालुका यस्यां तां कमलोत्पलशोभितां कमलैः उत्पलैः श्यामकमलैश्च शोभितां पम्पां नाम पुष्करणीं ततस्तस्मिन्काले गमिष्यथः । वालूकामित्यत्र दीर्घ आर्षः । अर्धचतुष्टयमेकान्वयि ॥ ३।७२।१०११ ॥
तत्रेति । पम्पासलिलगोचराः पम्पाजलमात्रनिवासिनः पुरा पूर्वं वधस्याकोविदाः अविज्ञातारः वल्गुस्वनाः हंसादयस्तत्र पम्पायां निकूजन्ति नरान्दृष्ट्वा उद्विजन्ते च न । सार्धश्लोक एकान्वयी ॥ ३।७२।१२१३ ॥
घृतेति । इषुभिर्बाणाग्रभागैर्निस्त्वक्पक्षान् निर्गतवल्कलपरिग्रहणान् अत एव न एको ऽपि कण्टको येषु तान् अत एव घृतपिण्डोपमान् अकृशान् अशुष्कानित्यर्थः, अयस्तप्तान् अयसा वह्नौ बाणाग्रभागगृहीतेन तप्तान् परिपक्वान् यान् भक्ष्यान् मूलफलसमूहान् तव भक्त्या समायुक्तो लक्ष्मणः तव तुभ्यं संप्रदास्यति तान् स्थूलान् द्विजान् पक्षिणः तान् प्रसिद्धान् वरान् श्रेष्ठान् रोहितादींश्च ह प्रसिद्धं भक्षयिष्यथः भोजयिष्यथः । सार्धश्लोकद्वयमेकान्वयि ॥ ३।७२।१४१५ ॥
भृशमिति । पद्मगन्धविशिष्टं शिवं कल्याणप्रदं सुखशीतं सुखं सुखप्रदं शीतं शैत्यं यस्य तत् अनामयं रोगनिवर्तकम् अक्लिष्टं मलादिबाधारहितम् अत एव रूप्यस्फटिकसंनिभं वारि पम्पाजलं स लक्ष्मणः पुष्करपत्रेण कमलपर्णेन उद्धृत्य पुष्पसंचये कमलपुष्पसमूहसमीपे मत्स्यान् मत्स्यत्वेन प्रतीयमानान् फलादीनित्यर्थः, भृशं खादते पक्ष्यादये पाययिष्यति । श्लोकद्वयमेकान्वयि ॥ ३।७३।१६१७ ॥
स्थूलानिति । गिरिगुहाशय्यान् गिरिगुहायां शय्या शयनं येषां तान् लक्ष्मणो दर्शयिष्यति अत एव अपां जलस्य लोभात् दुरावृत्तान् बहिर्निर्गतान् वृषभानिव नर्दतः रूपान्वितान् शोभनरूपविशिष्टान् वानरान् पम्पायां द्रक्ष्यसि । श्लोकद्वयमेकान्वयि ॥ ३।७३।१८१९ ॥
सायाह्न इति । हे राम माल्यधारिणः पुष्पवतः विटपी विटपिनः प्रशस्तशाखावतः वृक्षान् सायाह्ने विचरन् त्वं पम्पायां शीतोदकं दृष्ट्वा शोकं विहास्यसि ॥ ३।७३।२० ॥
सुमनोभिरिति । तत्र पम्पासमीपे सुमनोभिः पुष्पैः चिताः संपन्नाः तिलका न नक्तमालका वृक्षविशेषाः फुल्लानि विकसितानि उत्पलानि नीलकमलानि पङ्कजानि तदितरकमलानि च सन्तीति शेषः, तानि माल्यानि पुष्पाणि आरोपयिता प्रगृह्य संधर्ता नरो मनुष्यो नास्ति नरसंचाराभावादिति तात्पर्यं तेन तानि धारयिष्यथ इति व्यञ्जितम् । अर्धद्वयमेकान्वयि ॥ ३।७३।२१ ॥
तन्माल्यानामद्भुतत्वमाह–नेति । म्लानतां न यान्ति शीर्यन्ति च न माल्यानीति शेषः ॥ ३।७३।२२ ॥
तत्र हेतुमाह–मतङ्गेति । सुसमाहिताः मतङ्गशिष्या ऋषयः तत्र पम्पासमीपे आसन् । अर्धं पृथक्–तेषामिति । गुरोः गुरवे वन्यं फलाद्याहरताम् अत एव भाराभितप्तानां तेषां मतङ्गशिष्याणां शरीराद्ये स्वेदबिन्दवः महीं प्रपेतुः ते मुनीनां तपसा तपःप्रभावेण माल्यानि पुष्पाणि जातानि उत्पन्नानि अत एव स्वेदबिन्दुसमुत्थानि तानि न विनश्यन्ति अन्यथाभावं प्राप्नुवन्ति । अर्धचतुष्टयमेकान्वयि ॥ ३।७३।२३२५ ॥
तेषामिति । गतानां तपोर्जितलोकं प्राप्तानां तेषां मतङ्गशिष्याणां परिचारिणी दासी अत एव श्रमणी तपोनिरता अत एव चिरजीविनी शबरी नाम अद्यापि दृश्यते ॥ ३।७३।२६ ॥
त्वामिति । धर्मे स्थिता नित्यं स्वधर्मे निरता शबरी त्वां दृष्ट्वा स्वर्गलोकं गमिष्यति । एतेन त्वद्दर्शनावध्येव तस्या इहावस्थानमिति सूचितं तेन तस्याः रामदिदृक्षा व्यञ्जिता ॥ ३।७३।२७ ॥
तत इति । ततो ऽनन्तरं हे राम पम्पायाः पश्चिमं तीरम् आश्रित्य विद्यमानम् अतुलम् अनुपमं, गुह्यं जनैरगम्यत्वेन गुप्तं तत्प्रसिद्धम् आश्रमस्थानम् अत्यन्तश्रमनिवर्तकमतङ्गकुटीं पश्यसि ॥ ३।७३।२८ ॥
तद्गुह्यत्वमेव प्रकटयन्नाह–नेति । तत्र तदाश्रमसमीपे तस्मिन्प्रसिद्धे वने पर्वते च विविधाः ये नागाः गजाः सन्तीति शेषः, ते ऽपि नागाः तत्र तस्मिन् तदाश्रमे मतङ्गस्थाने आक्रमितुं न शक्नुवन्ति एतेन मतङ्गस्य प्रभावातिशयः सूचितः ॥ ३।७३।२९ ॥
ऋषेरिति । तत् आश्रमसमीपस्थं यत् काननं वनं तत् मतङ्गस्य ऋषेः विधानात् निर्माणादेव मतङ्गवनमिति विश्रुतं प्रख्यातम् ॥ ३।७३।३० ॥
तस्मिन्निति । नन्दनसंकाशे नन्दनेन फलपुष्पसंवृद्ध्या संकाशः अतिशोभा यस्य तस्मिन्देवारण्योपमे नन्दनचैत्ररथादिसदृशे नानाविहगसंकीर्णे अनेकविधपक्षिसंकुले तस्मिन्वने निर्वृतः आनन्दयुक्तः सन् रंस्यसे ॥ ३।७३।३१ ॥
ऋष्यमूक इति । पम्पायाः पम्पातीरवर्तिमतङ्गाश्रमात् पुरस्तात् पूर्वदिग्भागे पुष्पितद्रुमः पुष्पिताः द्रुमाः यस्मिन्तः शिशुनागाभिरक्षितः शिशुनागैः बालसर्पैर्बालगजैश्च अभिरक्षितः अत एव सुदुःखम् अतिदुःखप्रदम् आरोहणं यस्य सः उदारः अभीष्टदाता पूर्वकाले सृष्ट्यादौ ब्रह्मणा ऽभिनिर्मितः ऋष्यमूकः तदभिधपर्वतः अस्तीति शेषः, तदर्थस्तु ऋषीणां तत्र प्राप्तानाम् अमूकः मूकतानिवृत्तिः अज्ञानध्वंसं इति यावत् यस्मात्सः । सार्धश्लोक एकान्वयी ॥ ३।७३।३२३३ ॥
तत्प्रभावं वर्णयन्नाह–शयान इति । हे राम तस्य ऋष्यमूकस्य मूर्धनि शिखरे शयानः यः पुरुषः स्वप्ने यत् वित्तं लभते सः प्रबुद्धः निवृत्तनिद्रः सन् तद्वित्तमधिगच्छति प्राप्नोति ॥ ३।७३।३४ ॥
य इति । पापकर्मा अत एव विषमाचारः यः पुरुषः एनं पर्वतमधिरोहति तं तत्रैव सुप्तमेनं पुरुषं राक्षसाः तत्प्रभावजनितरक्षोविशेषाः तत्र पर्वते एव प्रहरन्ति ॥ ३।७३।३५ ॥
तत इति । ततः तत्र मतङ्गाश्रमवासिनां पम्पायां क्रीडतां शिशुनागानां बालगजानां महान् आक्रन्दः शब्दः श्रूयते ॥ ३।७३।३६ ॥
सक्ता इति । रुधिरधाराभिः ईषदरुणमदप्रवाहैः सक्ताः युक्ता मेघवर्णाः तरस्विनो वेगवन्तो वनगोचराः वनमात्रनिवासिनो ये परमद्विपाः महागजाः संहत्य स्वस्वसजातीयैर्मिलित्वा पृथक् कीर्णा विजातीयेभ्यो भिन्नाः सन्तः प्रचरन्ति । ते परमगजाः तत्र पम्पायां विमलं पानीयं पीत्वा निर्वृताः प्राप्तानन्दाः सन्तो वनानि संविगाहन्ते तान् दृष्ट्वा शोकं प्रहास्यसीत्यपकृष्यते । सार्धश्लोकद्वयमेकान्वयि ॥ ३।७३।३७३८ ॥
ऋक्षानिति । नीलकोमलप्रभान् नीलमणिसदृशकोमलकप्रभावतः प्राप्तान् ऋक्षान् द्वीपिनो व्याघ्रांश्च अपेतान् वधशङ्काया अभावेन समीपे प्राप्तान् अजयान् मनुष्यजयरहितान् रुरून् मृगविशेषांश्च दृष्ट्वा शोकं प्रहास्यसि ॥ ३।७३।३९ ॥
रामेति । हे राम महती विशाला शिलापिधाना शिला पिधानमाच्छादनं यस्याः सा तस्य ऋष्यमूकस्य गुहा शोभते अस्याः गुहायाः प्रवेशनं सुग्रीवाद्यन्यकर्तृकप्रवेशः दुःखं प्रवेष्टुमशक्यमित्यर्थः ॥ ३।७३।४० ॥
तस्या इति । तस्याः गुहायाः प्राग्द्वारे बहुमूलफलः अनेकविधमूलफलविशिष्टः अत एव रम्यः नानानगसमाकुलः अनेकविधनगैर्व्याप्तः महान् विशालः शीतमुदकं यस्य स ह्रदः गुहायाः प्राग्द्वारे अस्तीति शेषः ॥ ३।७३।४१ ॥
तस्यामिति । धर्मात्मा सुग्रीवः तस्यां गुहायां वसति कदाचित्पर्वतस्य शिखरे ऽपि तिष्ठति ॥ ३।७३।४२ ॥
कबन्ध इति । भास्करवर्णाभः सूर्यवर्णसदृशवर्णविशिष्टः स्रग्वी मालावान्कबन्धः रामलक्ष्मणावनुशास्य ख आकाशे व्यरोचत ॥ ३।७३।४३ ॥
तमिति । खस्थमाकाशस्थं तं कबन्धं प्रस्थितौ रामलक्ष्मणौ त्वं व्रजस्वेति वाक्यमूचतुः स कबन्धो ऽपि अन्तिके निकटे विद्यमानौ यौ रामलक्ष्मणौ कार्यसिद्ध्यर्थं गम्यतामित्यब्रवीत् । सार्धश्लोक एकान्वयी ॥ ३।७३।४४४५ ॥
सुप्रीताविति । तदा तस्मिन्काले सुप्रीतौ रामलक्ष्मणावनुज्ञाप्य कबन्धः प्रस्थितः अभवदिति शेषः । अर्ध पृथक् । उपसंहरन्नाह–स इति । श्रिया सर्वसंपत्त्या वृतो युक्तः अत एव भास्वरसर्वदेहः भास्वरः प्रकाशमानः सर्वदेहः सावयवशरीरं यस्य सः खस्थः स कबन्धः तदद्भुतं रूपं प्रतिपद्य रामं चावेक्ष्य सख्यं कुरुष्व इति निदर्शयन्सन्नभ्युवाच ॥ ३।७३।४६ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे त्रिसप्ततितमः सर्गः ॥ ३।७३ ॥