कबन्धशरीरदाहमाह–एवमित्यादिभिः । कबन्धेन एवमुक्तौ तौ रामलक्ष्मणौ गिरिप्रदरं गिरिगर्तमासाद्य प्राप्य तत्र चितां निर्मायेति कबन्धशरीरं संस्थाप्येति च शेषः, पावकं विससर्जतुः विससृजतुः ॥ ३।७२।१ ॥
लक्ष्मण इति । लक्ष्मणस्तु ज्वलिताभिः महोल्काभिः समन्ततः चितामादीपयामास अत एव सा चिता सर्वतः प्रजज्वाल ॥ ३।७२।२ ॥
तदिति । पच्यमानस्य दह्यमानस्य मेदसा मांसेन पूर्णमिति शेषः, अत एव घृतपिण्डोपमं तच्छरीरं पावको मन्दं दहति ॥ ३।७२।३ ॥
स इति । स कबन्धः चितामाशु विधूय प्रकम्प्य अजरे जीर्णजारहिते नवीने इत्यर्थः, वाससी दिव्यां मालां पच बिभ्रत्सन् विधूमः धूमरहितः अग्निरिव उत्थितः ॥ ३।७२।४ ॥
तत इति । विरजाम्बरः नवीनाम्बरवान् भास्वरः अतिप्रकाशवान् सर्वप्रत्यङ्गभूषणः सर्वेषु प्रत्यङ्गेषु करादिषु भूषणानि यस्य सः अत एव संहृष्टो महातेजाः कबन्धः भास्वरे विमाने तिष्ठन् प्रभया दश दिशो विराजयंश्च सन् ततः तस्याश्चिताया वेगेन उत्पपात । श्लोकद्वयमेकान्वयि ॥ ३।७२।५६ ॥
स इति । अन्तरिक्षगतः स कबन्धः हे राघव यथा सीतामवाप्स्यसि तथा तत्त्वेन शृणु इति राममब्रवीत् ॥ ३।७२।७ ॥
तद्वचनाकारमाह–रामेत्यादिभिः । हे राम याभिर्युक्तिभिः सर्वं कृत्यं लोके विमृश्यते विज्ञायते ताः युक्तयः संधिविग्रहयानासनद्वैधीभावसमाश्रयाख्याः षट् सन्तीति शेषः, एतेन
राजभिस्ताः अवश्यं कर्तव्या इति सूचितम् । अर्धं पृथक् । त्वयि दुःखप्राप्तिर्न संभवतीति बोधयन्नाह–परिमृष्ट इति । दशा सर्वदंशकेन अन्तेन कालेन परिमृष्टः वशं प्राप्तः पुरुषः दशाभागेन दशांशेन दुर्दशयेत्यर्थः, सेव्यते प्राप्यते दशान्तेन कालेन हीनस्तद्वशत्वानाक्रान्तो ऽपि स लक्ष्मणस्त्वं दशाभागगतः भार्यापहरणेन कुदशां प्राप्तः इव । हिरिवार्थे आश्चर्यमेतदिति तात्पर्यम् । अर्धद्वयमेकान्वयि ॥ ३।७२।८ ॥
यदिति । यत् यस्मात् दारप्रधर्षणं दारापहरणमत एव व्यसनं दुःखं त्वया प्राप्तं तत् तस्य कृते छेदाय सः केनचिद्धेतुना दुर्दशां प्राप्तः सुहृन्मित्रं त्वया कार्यः करणीयः हि यतः अकृत्वा सुहृदमिति शेषः, ते सिद्धिं चिन्तयन्नहं न पश्यामि ॥ ३।७२।९१० ॥
ननु तादृशः को ऽस्तीत्यत आह–श्रूयतामिति । हे राम अहं वक्ष्यामि तादृशमिति शेषः, अतस्त्वया श्रूयताम् । तद्वचनाकारमाह–शक्रसूनुना क्रुद्धेन भ्रात्रा वालिना सुग्रीवो नाम वानरो निरस्तः अत एव पम्पापर्यन्तशोभिते पम्पाप्रदेशेन विराजिते गिरिवरं ऋष्यमूके चतुर्भिर्वानरैः सह निवसति ॥ ३।७२।१११२ ॥
निरसनप्रकारमाह–वानरेन्द्र इति । महावीर्यत्वादिविशिष्टः वानरेन्द्रः सुग्रीवः राज्यहेतोः भ्रात्रा विवासितः ततस्तेजस्वी प्रतापवान् अमितप्रभः अनियतबुद्धिविशेषविशिष्टः । श्लोकद्वयमेकान्वयि ॥ ३।७२।१३१४ ॥
स इति । हे राम सुग्रीवस्ते मित्रम् अत एव सीतायाः परिमार्गणे अन्वेषणे सहायश्च भविष्यति अतः शोके मनो मा कृथाः ॥ ३।७२।१५ ॥
इदानीं राक्षसविध्वंससमयः संप्राप्त इति बोधयन्नाह–भवितव्यमिति । हे इक्ष्वाकुशार्दूल यद्भवितव्यं तदन्यथा कर्तुं न शक्यं जनैरिति शेषः । तत्र हेतुः– हि यतः कालः दुरतिक्रमः अतिक्रमितुमशक्यः ॥ ३।७२।१६ ॥
गच्छेति । हे राघव महाबलं तं सुग्रीवमितः शीघ्रं गच्छ तं सुग्रीवं गत्वा अद्रोहाय द्रोहानुत्पत्तये दीप्यमाने विभावसौ वह्निसमीपे समागम्य प्राप्य वयस्यं सखायं कुरु अत एव वानराधिपः कृतज्ञत्वादिविशिष्टः स कृतसख्यः सुग्रीवस्ते त्वया नावमन्तव्यः । सार्धश्लोकद्वयमेकान्वयि ॥ ३।७२।१७१८ ॥
सख्यकरणयोग्यतां बोधयन्नाह–शक्ताविति । तस्य सुग्रीवस्य चिकीर्षितमिच्छाविषयीभूतं कार्यं कर्तुं युवां शक्तौ समर्थौ कृतार्थः कृतप्रयोजनो वा अकृतार्थो वा तव कृत्यं कार्यं करिष्यति, एतेन सुग्रीवस्य सत्यप्रतिज्ञत्वं सूचितम् । अर्धद्वयमेकान्वयि ॥ ३।७२।१९ ॥
सुग्रीवस्थानं निर्दिशन्नाह–स इति । वालिना स्वभ्रात्रा सह कृतकिल्बिषः वाल्यपराधकारीत्यर्थः, अत एव शङ्कितः भ्रातुः प्राप्तशङ्कः भास्करस्य सूर्यस्यौरसः उरसो जातः पुत्रः ऋक्षरजसस्तदभिधस्य पुत्रः क्षेत्रज इत्यर्थः, स सुग्रीवः पम्पामटति ॥ ३।७२।२० ॥
समिति । ऋष्यमूकालयम् ऋष्यमूके आलयं यस्य तं कपिं सुग्रीवम् अग्निसन्निधौ आयुधं संनिधाय सत्येन शपथेनेत्यर्थः, वयस्यं सखायं कुरु ॥ ३।७२।२१ ॥
स इति । कपिकुञ्जरः कपिश्रेष्ठः स सुग्रीवः नरमांसाशिनां राक्षसानां सर्वाणि स्थानानि
नैपुण्यात्स्वनिपुणतया कार्त्स्न्येनाधिगच्छति प्राप्नोति जानाति वा अत एतस्य सुग्रीवस्याविदितमज्ञातं लोके किंचिन्नास्ति । सार्धः श्लोक एकान्वयी ॥ ३।७२।२२२३ ॥
यावदिति । सहस्रांशुः सहस्रकिरणविशिष्टः सूर्यः यावद्देशं प्रतपति तावद्देशं नदीप्रभृतीन् वानरैः सार्धमन्विष्यते पत्नीमधिगमिष्यति ज्ञात्वा बोधयिष्यति । सार्धश्लोक एकान्वयी ॥ ३।७२।२४ ॥
तदेव भङ्ग्यन्तरेणाह–वानरानिति । दिशः पूर्वादिदिग्भागान् विचेतुमन्वेषितुं महाकायान्वानरान्प्रेषयिष्यति अत एव त्वद्वियोगेन शोचतीं रावणालये विद्यमानां मैथिलीम् अन्वेष्यति त्वां प्रापयिष्यति सीता रावणेनापि हृतेति ज्ञाने ऽपि सर्वदिगन्वेषणोक्त्या सर्वास्वपि दिक्षु रावणालयमस्तीति सूचितम् ॥ ३।७२।२५२६ ॥
स इति । प्लवङ्गमानां शाखामृगाणामृषभो ऽधिपतिः स सुग्रीवः मेरुशृङ्गाग्रगतां वा पातालतले आश्रितां वा प्रविश्य रक्षांसि निहत्य अनिन्दितां नित्यं निन्दारहितां तव प्रियां पुनः प्रदास्यति ॥ ३।७२।२७ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे द्विसप्ततितमः सर्गः ॥ ३।७२ ॥