कबन्धशंसनाकारं वर्णयन्नाह–पुरेत्यादिभिः । हे राम त्रिषु लोकेषु विश्रुतं ख्यातमचिन्त्यं स्वेच्छामयत्वेन चिन्तयितुमशक्यं मम रूपं पुरा आसीत् ॥ ३।७१।१ ॥
यथेति । सः प्राप्ताचिन्त्यस्वरूपो ऽहं लोकवित्रासनं लोकोद्वेगसंपादकं सूर्यादेरिव महद्वपुः कृत्वा इतस्ततः वनतागन् ऋषीन् त्रासयामि अत्रासयम् । सार्धः श्लोक एकान्वयी ॥ ३।७१।२ ॥
तत इति । ततः अनेकविधरूपदर्शनात् हेतोः स्थूलशिरा नाम महर्षिः मया कोपितः ॥ ३।७१।३ ॥
कोपनप्रकारमाह–स इति । विविधम् अनेकप्रकारं वन्यं मूलफलादि चिन्वन्स महर्षिः अनेन प्रदर्शिताचिन्त्यस्वस्वरूपेण धर्षितः वञ्चितः मयेति शेषः, घोरशापाभिधायिना घोरशापबोधकवचनशीलेन महर्षिणा प्रेक्ष्य अवलोक्य एकमहमुक्तः ॥ ३।७१।४ ॥
तदुक्तिप्रकारमाह–एतदिति । एतत्ते रूप नृशंसं क्रूरम् अत एव विगर्हितं जनैर्निन्दितमस्तु । सः दत्तशापः ऋषिः मया याचितः तत्प्रकारमाह–शापस्यान्तः विध्वंसः भवेदिति ॥ ३।७१।५ ॥
अभीति । अभिशापकृतस्य स्वापराधद्वारा महाशापप्रवर्तकस्य मम इति समीपे तेन मत्प्रार्थितेन महर्षिणा दं वचो भाषितम् । अर्धं पृथक् । तद्वचनाकारमाह–यदेति । यदा भुजौ तौ बाहू रामश्छित्व विजने वने त्वां दहेत् तदा विपुलं विशालं स्वं स्वकीयं रूपं स्वरूपं प्राप्स्यसे ॥ ३।७१।६ ॥
स्वस्वरूपविकृतिवृत्तान्तमुक्त्वा आत्मानं बोधयन्नाह–श्रियेति । श्रिया विराजितं दनोः पुत्रं विद्धि मामिति शेषः ॥ ३।७१।७ ॥
ननु शापहेतुककुत्सितरूपप्राप्तावपि कबन्धरूपताप्राप्तिः कथमित्यत आह–इन्द्रेति । इदं कबन्धाकृतिरूपं रणाजिरे संग्रामाङ्गणे इन्द्रशापात् प्राप्तं मयेति शेषः, अर्धं पृथक् । इन्द्रशापे कारणं बोधयितुमाह–अहमिति । उग्रेण तपसा पितामहं ब्रह्माणम् अतोषयम् अत एव ब्रह्मा मे मह्यं दीर्घायुः प्रादात् ततस्तस्माद्धेतोः विभ्रमो गर्वः मामस्पृशत् प्राप्नोत् । अर्धद्वयमेकान्वयि ॥ ३।७१।८ ॥
गर्वस्वरूपं बोधयन्नाह–दीर्घमिति । मया दीर्घमायुः प्राप्तमतः शक्रः मे किं करिष्यति इत्येवं बुद्धिं निश्चयमास्थाय रणे संग्रामे शक्रमधर्षयम् ॥ ३।७१।९ ॥
तस्येति । तस्य इन्द्रस्य बाहुप्रमुक्तेन बाहुना प्रक्षिप्तेन शतपर्वणा शतधारेण वज्रेण सक्थिनी तदुपलक्षितं नाभ्यधोभागं शिरश्च शरीरे संप्रवेशितम् ॥ ३।७१।१० ॥
स इति । स इन्द्रः मया याच्यमानः मारयेति प्रार्थ्यमानः यमसादनं नानयत् मृतिं न प्रापितवान् । कुत इत्यत्राह–पितामहेति । तत्पूर्वोक्तं दीर्घायुर्विषयकं पितामहवचनः सत्यमस्त्विति मम मह्यम् अब्रवीत् न त्वां मारयामीत्यब्रवीदित्यर्थः ॥ ३।७१।११ ॥
स्वकर्तृकप्रार्थनानन्तरमाह अनाहार इति । वज्रिणा त्वया अभिहतः अत एव भग्नसक्थिशिरोमुखो ऽहमनाहारः सन् सुदीर्घं कालं जीवितुमपि कथं शक्तो भविष्यामीति शेषः ॥ ३।७१।१२ ॥
स इति । एवमुक्तः स शक्रः योजनमायतौ बाहू तीक्ष्णदंष्ट्रविशिष्टं कुक्षौ कुक्षिप्रदेशे आस्यं मुखं च अकल्पयत् ॥ ३।७१।१३ ॥
स इति । सः प्राप्तभुजादिहरं सिंहादीन् वनेचरान्संक्षिप्य मुखे प्रक्षिप्य भक्षयामि ॥ ३।७१।१४ ॥
स इति । यदा रामः ते बाहू छेत्स्यते तदा त्वं स्वर्गं गमिष्यसि इति स इन्द्रो मामब्रवीत् ॥ ३।७१।१५ ॥
अनेनेति । हे राजसत्तम अस्मिन् वने यद्यत्पश्यामि तस्य तस्य सर्वस्य अनेन वपुषा ग्रहणं साधु यथा स्यात्तथा रोचये । तत्र हेतुः–रामो ग्रहणमवश्यं समुपैष्यति प्राप्स्यति इत्यहं मन्ये इन्द्रवचनान्निश्चिनोमि अत एव इमां बुद्धिं पुरस्कृत्य देहन्यासकृतश्रमः देहत्यागोद्देश्यककृतप्रयत्नो ऽहमस्मीति शेषः । अर्धचतुष्टयमेकान्वयि ॥ ३।७१।१६१७ ॥
स इति । यतो महर्षिणा यथातत्त्वमुक्तमतः अन्येन हन्तुमहं न शक्यः अतः सः महर्षिणोक्ते राम एव त्वमतस्ते भद्रम् ॥ ३।७१।१८ ॥
अहमिति । हे नरर्षभ युवाभ्यामग्निना संस्कृतो ऽहं मतिसाचिव्यं भवत्कार्यसाधनाय बुद्ध्या साहायं करिष्यामि । तत्स्वरूपमाह–तव कार्यसाधकमिति शेषः, मित्र युवाभ्यामुपदेक्ष्यामि ॥ ३।७१।१९ ॥
एवमिति । अनेन दनुना एवमुक्तो राघवः पश्यतो लक्ष्मणस्य समीपे इदं जगाद ॥ ३।७१।२० ॥
तद्वचनाकारमाह–रावणेनेति । भ्रात्रा सह जनस्थानात् यथासुखं निष्क्रान्तस्य मम भार्या रावणेन हृता ॥ ३।७१।२१ ॥
ननु हर्तारं जानास्येव पुनः किं पृच्छसीत्यत आह–नामेति । तस्य अपहर्तुः रक्षसः नाममात्रमेव जानामि तस्य निवासादिकं न विद्महे ॥ ३।७१।२२ ॥
शोकार्तानामिति । शोकार्तानां शोकपीडितानामनाथानाम् अपूर्णमनोरथानाम् अत एवमनेन प्रकारेण विपरिधावताम् अस्माकमुपकारेण हेतुना सदृशं योग्यं कारुण्यं कृपां कर्तुं वर्तताम् ॥ ३।७१।२३ ॥
काष्ठानीति । काले समयान्तरे कुञ्जरैः भग्नानि अत एव शुष्काणि काष्ठान्यानीय कल्पिते सद्यः कृते श्वभ्रे अवटे त्वां धक्ष्यामः “अस्मदो द्वयोश्च” इति बहुवचनम् ॥ ३।७१।२४ ॥
स इति । सः प्राप्तसंस्कारस्त्वं यदि तत्त्वतो जानासि तर्हि अत्यर्थमत्यन्तं कल्याणं त्वं कुरु । कल्याणस्वरूपमाह–येन सीताहृता तं यत्रास्ति तं च सीतां सीताचेष्टां च समाचक्ष्व ब्रूहि ॥ ३।७१।२५ ॥
एवमिति । रामेण एवमुक्तो दनुः वक्तारं राघवं प्रोवाच ॥ ३।७१।२६ ॥
तद्वचनाकारमाह–दिव्यमिति । मे दिव्यं ज्ञानं नास्ति अतो मैथिलीं नाभिजानामि अतो यस्तां मैथिलीं वक्ष्यति तं दग्धः अत एव स्वं रूपमास्थितो ऽहं वक्ष्ये ॥ ३।७१।२७ ॥
नन्विदानीमेव तं बोधयेत्यत आह–य इति । येन तव सीता हृता तं राक्षसं विज्ञातुं विशेषतो बोधयितुम् अदग्धस्य मे शक्तिर्नास्ति तत् तस्मात् हेतोः तत्परं दाहोत्तरकाले तद्रक्षः यो ऽभिजानाति तमहं वक्ष्ये । यो ऽभिजानाति तं वक्ष्ये इत्यनेन रावणभीतिः सुग्रीवद्वारैव सीताप्राप्तिर्वेति निश्चयः सूचितः ॥ ३।७१।२८ ॥
ज्ञानाभावे हेतुमाह–विज्ञानमिति । हे राघव स्वकृतेन स्वसंपादितेन शापदोषेण महद्विज्ञानं भ्रष्टं लोकविगर्हितं रूपं च प्राप्तम् ॥ ३।७१।२९ ॥
स्वेप्तितं प्रार्थयते–किमिति । यावत् सविता सूर्यो ऽस्तं न याति तावत् माम् अवटे क्षिप्त्वा यथाविधि दह । किं त्विति वृत्तान्तरे ॥ ३।७१।३० ॥
तत्प्रयोजनमाह–दग्ध इति । न्यायेन विधिना दग्धो ऽहं यस्तं राक्षसं वेत्स्यति वेत्ति तं वक्ष्यामि ॥ ३।७१।३१ ॥
ननु त्वया बोधितो ऽपि सः मह्यं कथं बोधयिष्यतीत्यत आह–तेनेति । न्यायवृत्तेन न्यायाचरणेन त्वया तेन रावणविज्ञात्रा सह सख्यं कर्तव्यम् अत एव लघुविक्रमः शीघ्रकार्यकारी ते साहायं कल्पयिष्यति ॥ ३।७१।३२ ॥
साहाय्यकारणे तद्योग्यतामाह–नहीति । कारणान्तरे कस्मिंश्चित्कारणे यतः सर्वान् लोकान् परिवृत्तः परिभ्रान्तः अतः त्रिषु लोकेषु तस्याविज्ञानं नास्ति ॥ ३।७१।३३३४ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे एकसप्ततितमः सर्गः ॥ ३।७१ ॥