रामस्वास्थ्यं संवर्ण्य कबन्धवृत्तान्तं वर्णयन्नाह–तावित्यादिभिः । तत्र स्वस्य समीपे स्थितौ बाहुपाशपरिक्षिप्तौ स्वबाहुरूपपाशे बद्धौ रामलक्ष्मणौ दृष्ट्वा कबन्धो ऽब्रवीत् ॥ ३।७०।१ ॥
तद्वचनाकारमाह–तिष्ठत इति । क्षुधार्तं पीडितं मां दृष्ट्वा दैवेन आहारार्थं संदिष्टौ अत एव हतचेतनौ क्षत्रियर्षभौ युवां किं किमर्थं तिष्ठतः, मदास्ये प्रविशतामिति तात्पर्यं, तेन जीवनाशा न कर्तव्येति ध्वनितम् ॥ ३।७०।२ ॥
तदिति । आर्तिसमापन्नो लक्ष्मणः तत् कबन्धोच्चारितं वाक्यं श्रुत्वा विक्रमे पराक्रमप्रकटने कृतनिश्चयः सन् प्राप्तः कालः समयो यस्य तत् हितं वाक्यमुवाच ॥ ३।७०।३ ॥
तद्वचनाकारमाह–त्वामिति । हे राम पुरापूर्वं मत्कर्तृकापराधानुत्पत्तावित्यर्थः, यतः राक्षसाधमः त्वां मां च आदत्ते अगृह्णात् तस्मात् हेतोः अस्य गुरू महान्तौ बाहू असिभ्यां छिन्दावहे शब्दमहिम्ना संबोध्य मध्याहृतं तेनानपराधिनं कथं हन्यामिति संभावना न कार्येति ध्वनितम् ॥ ३।७०।४ ॥
ननु ग्रहणमात्रेण कथमपराधः संभवतीत्यत आह–भीषण इति । भुजविक्रमः भुजयोर्विक्रमो यस्य सो ऽयं राक्षसः लोकं सर्वजनमतिजितं पराजितमिव कृत्वा इह अस्मिन्काले एव आवां हन्तुमिच्छति ॥ ३।७०।५ ॥
ननु शस्त्रादिविहीनो ऽयं कथं मया हन्तव्य इत्यत आह–निश्चेष्टानामिति । क्रतुमध्योपनीतानां पशूनामिव निश्चेष्टानां वधव्यापाररहितानामेव वधः जगतीपतेः राज्ञः कुत्सितो निन्दितः एतेनायं हन्तव्य एवेति सूचितम् ॥ ३।७०।६ ॥
एतदिति । तयोः रामलक्ष्मणयोः एतत् संजल्पितं कथितं श्रुत्वा राक्षसः रौद्रमास्यं मुखं विदार्य व्यादाय तौ भक्षयितुमारभत् ॥ ३।७०।७ ॥
तत इति । ततः राक्षसकर्तृकव्यापारानन्तरं देशकालज्ञौ रामलक्ष्मणौ तस्य रक्षसो बाहू असंदेशयोः अच्छिन्दताम् ॥ ३।७०।८ ॥
तत्प्रकारमाह–दक्षिण इति । दक्षिणो दक्षिणपार्श्वस्थो रामः दक्षिणं बाहुम् असक्तम् आस्थारहितं यथा भवति तथा चिच्छेद लक्ष्मणस्तु सव्यं वामं चिच्छेद दक्षिणशब्दः कुशलार्थको वा ॥ ३।७०।९ ॥
स इति । छिन्नौ बाहू यस्य सः अत एव महास्वनः स राक्षसः खादि नादयन् जलदो महामेघ इव पपात ॥ ३।७०।१० ॥
स इति । शोणितौघपरिप्लुतः रुधिरसमूहव्याप्तः स दानवः निकृत्तौ छिन्नौ भुजौ स्वबाहू दृष्ट्वा युवां कौ इति वीरौ रामलक्ष्मणौ पप्रच्छ ॥ ३।७०।११ ॥
इतीति । इत्येवंप्रकारेण ब्रुवाणस्य कबन्धस्य समीपे तस्य रामस्य प्रेरितो लक्ष्मणः काकुत्स्थं रामं शशंस ॥ ३।७०।१२ ॥
तच्छंसनप्रकारमाह–अयमित्यादिभिः । इक्ष्वाकुदायादः दशरथपुत्र इत्यर्थः, रामो नाम जनैः श्रुतः प्रख्यातः अयं तस्यैव अवरजमनुजं लक्ष्मणं मां विद्धि जानीहि ॥ ३।७०।१३ ॥
नन्विह किमर्थमागतौ इत्यत आह–मात्रेति । राज्ये राज्याभिषेके मात्रा प्रतिहते केनचिद्धेतुना प्रतिषिद्धे सति रामो वनं प्रव्राजितः अत एव मया भार्यया च सह एष रामः महद्वनं चरति अटति ॥ ३।७०।१४ ॥
अस्येति । ननु भार्या क्वास्तीत्यत आह–अस्येति । यामिच्छन्तौ इहागतौ आवामिति शेषः, सा वने वसतो ऽस्य रामस्य भार्या रक्षसा ऽपहृता ॥ ३।७०।१५ ॥
आत्मानमवबोध्य तं ज्ञातुकामः पृच्छति–त्वमिति । कबन्धसदृशः छिन्नशिरा इव उरसि दीप्तेन प्रकाशमानेन आस्येन उपलक्षितः भग्नजङ्घस्त्वं को वा किमर्थं वा विचेष्टसे ॥ ३।७०।१६ ॥
एवमिति । लक्ष्मणेन एवमुत्तमं वच उक्तः अत एव प्रीतः कबन्धः तत्पूर्वोक्तम् इन्द्रवचनं स्मरन्सन् वचनमुवाच ॥ ३।७०।१७ ॥
स्वागतमिति । हे नरव्याघ्रौ वां युवयोः स्वागतं शोभनमागमनम् अत एव वां युवां दिष्ट्या भाग्यातिशयेन अहं पश्यामि दिष्ट्यैव इमौ बाहुबन्धनौ बन्धनरूपौ बाहू युवाभ्यां निकृत्तौ छिन्नौ ॥ ३।७०।१८ ॥
विरूपमिति । विरूपं विकृतः रूपः आकारो यस्य तत् रूपं स्वरूपं यत् यस्मात् अविनयात् यथा यथावत् मे मम प्राप्तं तत्तवाग्रे तत्त्वतः शंसतः मे मत्तः श्रृणु ॥ ३।७०।१९ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे सप्ततितमः सर्गः ॥ ३।७० ॥