०६६ रामसमाश्वासनम्

लक्ष्मणोक्तिमेव वर्णयन्नाह–तमित्यादिभिः । शोकसंतप्तं सीतावियोगजनितशोकेन पीडितम् अत एवाचेतप्तं चित्तस्वास्थ्यरहितम् अत एव अनाथवत् नाथत्वाभाववन्तमिव विलपन्तम् अत एव परिद्यूनमिव क्षीणत्वेन प्रतीयमानमित्यर्थः । अत एव परिद्यूनमिव क्षीणत्वेन प्रतीयमानमित्यर्थः । अत एव महता मोहेन कर्तव्यविषयकाविवेकेन युक्तं तं रामं ततः शोकसंतप्तत्वादिहेतोः सौमित्रिः मुहूर्तात् मुहूर्तमाश्वास्य चरणौ अभिपीडयन् सन् संबोधयामास शोकादिनिवृत्तिकारणीभूतवचनमुच्चारयामास । श्लोकद्वयमेकान्वयि ॥ ३।६६।१२ ॥

संबोधनप्रकारमाह–महतेत्यादिभिः । महता अत्युत्कृष्टेन तपसा पुत्रहेतुकव्रतादिना महता कर्मणा श्रृङ्गिऋष्यानयनादिरूपक्रियया च राज्ञा दशरथेन अमरैरमृतमिव लब्ध आसीत् भवानिति शेषः । एतेन त्वमतिदुर्लभो ऽसीति सूचितं तेन रामस्यातिमहत्त्वं व्यञ्जितं तेन महतां शोको ऽनुचित इति ध्वनितं तेन त्वया शोको न कार्य इति व्यञ्जितम् ॥ ३।६६।३ ॥

तवेति । तव गुणैर्बद्धो महीपतिः सर्वपृथ्वीनियन्ता राजा अतिदीप्तिमान् दशरथः त्वद्वियोगात् देवत्वं साकेतकर्मकगतिम् आपन्नः कृतवान् इत्यर्थः, इति भरतस्य भरतात् यथा यथावत् श्रुतम् । एतेन रामगुणानां निरवद्यत्वं सूचितं, तेनातिशोकवत्त्वे धैर्यादिगुणस्य मालिन्यापत्तिरिति व्यञ्जितम् ॥ ३।६६।४ ॥

यदीति । हे काकुत्स्थ प्राप्तमिदं दुःखं यदि त्वं न सहिष्यसे तर्हि अल्पसत्त्वः अत एव इतरः त्वत्तो नीचः प्राकृतो जनः कः सहिष्यति ऽइतरस्त्वन्यनीचयोःऽ इति कोशः ॥ ३।६६।५ ॥

दुःखित इति । दुःखितः प्रियावियोगेन खिन्नो भवान् यदि लोकान् धक्ष्यते द्वेष्यत्वसंशयेन भस्मीकरिष्यति तर्हि आर्ताः प्राप्तदुःखाः प्रजाः निर्वृतिं सुखं क्व नु यास्यन्ति न क्वापीत्यर्थः ॥ ३।६६।६ ॥

सीताविषये अपक्षयादिसंशयो न कार्य इति बोधयन्नाह–लोकेति । एष अपक्षयादिः लोकस्वभावः प्राकृतजनानां स्वभावसिद्धः, एतेन सीतायाः प्राकृतविलक्षणात्वं व्यञ्जितम् । स्वभावसिद्धत्वमेव विवृण्वन्नाह–शक्रेण सालोक्यं गतो नहुषात्मजो यो ययातिः तम् अनयः स्वर्गप्राप्तिविध्वंसः समस्पृशत् स्वर्गाद्विध्वस्त इत्यर्थः ॥ ३।६६।७ ॥

महर्षिरिति । यो महर्षिः सकलद्रष्टा यश्च नो ऽस्माकं पितुः पुरोहितो वसिष्ठः अस्य वसिष्ठस्य अह्ना एकदिनेन पुत्रशतं शतसंख्याकप्राकृतपुत्राः जज्ञे तथा एकदिनेनैव हतं विश्वामित्रेणेति शेषः ॥ ३।६६।८ ॥

येति । जगतो माता अत एव सर्वलोकनमस्कृता या इयं भूमिः अस्या भूमेः चलनं दृश्यते ॥ ३।६६।९ ॥

याविति । यौ जगतो धर्मौ यथासंभवं कर्मप्रवृत्तिहेतू नेत्रौ कालपरिच्छेदद्वारा जनानां तत्तल्लोकप्रापकौ अत एव यत्र ययोः सर्वं प्रतिष्ठितं महाबलौ तौ आदित्यचन्द्रौ ग्रहणं राहुग्रासजनितदुःखम् अभ्युपेतौ प्राप्तौ ॥ ३।६६।१० ॥

तदेव संगृह्याह–सुमहान्तीति । सुमहान्ति भूतानि पृथिव्यादीनि देहिनो ऽतिप्रवृद्धा देवाश्च दैवस्य नित्यप्रमोदविशिष्टस्य सर्वभूतस्य सर्वाणि भूतानि यस्मात् तस्य त्वत्तनुप्रकाशब्रह्मणः न प्रमुञ्चन्ति तदाज्ञापितं न जहति अत एव शक्रादिषु देवाधीशेष्वपि नयानयौ सुखप्राप्त्यप्राप्ती श्रूयेते अतः त्वं त्वथितुं नार्हसि । एतेन यदि त्वत्तनुप्रकाशरूपब्रह्माज्ञावर्तित्वं सर्वलोकानामस्ति तर्हि तवाज्ञावर्तित्वमस्तीति किं वक्तव्यमिति काव्यार्थापत्तिरलंकाररूपो हेतुर्ध्वनितः । श्लोकद्वयमेकान्वयि ॥ ३।६६।१११२ ॥

मृतायामिति । मृतायां स्वनियम्यरुद्रादिद्वारा सकलभुवननिवर्तिकायां सीतायां नष्टायाम् अपहरणेनादृश्यत्वं प्राप्तायां सत्यामपि अन्यः प्राकृतविलक्षणस्त्वं प्राकृत इव शोचतुं नार्हसि ॥ ३।६६।१३ ॥

प्राकृतविलक्षणानां शोको न युक्त इति बोधयन्नाह–त्वदिति । सर्वदर्शनाः सर्वविषयकज्ञानवन्तः अत एव अनिर्विण्णदर्शना निरन्तरं प्रसन्नचित्ताः त्वद्विधाः प्राकृतविलक्षणाः जना नैव शोचन्ति, एतेन तव शोको न युज्यते इति व्यञ्जितम् ॥ ३।६६।१४ ॥

नन्वहं तु इदानीं न सर्वदर्शनः सीताचरितविषयकज्ञानाभावात् इत्यत आह–तत्त्वत इति । यतो बुद्ध्या युक्ताः महाप्राज्ञाः शुभाशुभे विजानन्ति अतः बुद्ध्या निश्चयकारकान्तःकरणवृत्त्या तत्त्वतः तत्त्वं श्रृङ्गारपोषकविप्रलम्भमित्यर्थः, समनुचिन्तय निश्चिनु ॥ ३।६६।१५ ॥

अदृष्टेति । न दृष्टौ फलोत्पत्तेः प्रागनुभूतौ गुणदोषौ येषां तेषामध्रुवाणां तेषां प्रसिद्धानां कर्मणामिष्टं फलं क्रियां विचारकर्मान्तरेण विना नैव वर्तते प्रवर्तते । एतेन विप्रलम्भस्याप्यतिसुखदातृत्वं ध्वनितम् ॥ ३।६६।१६ ॥

ननु त्वया इयं बुद्धिः कथं लब्धेत्यत आह–मामिति । एवमनेन प्रकारेण पुरा बहुशो ऽनेकवारं मां त्वमेव उक्तवान् अतः को ब्रह्मा वा बृहस्पतिर्वा त्वां सर्वगुरुमनुशिष्यादपि नेत्यर्थः, बहुशोक्तवानित्यत्र संधिरार्षः ॥ ३।६६।१७ ॥

ननु गुरुं मां त्वं कथं शिक्षयसीत्यत आह–बुद्धिरिति । ते बुद्धिर्निश्चयो देवैरपि दुरन्वया ज्ञातुमशक्या अतः शोकेन अभिप्रसुप्तं तिरोहितत्वेन प्रतीतं ते ज्ञानं संबोधयामि तत्स्वरूपं कथयामि ॥ ३।६६।१८ ॥

स्वप्रार्थनायास्तात्पर्यमाह–दिव्यमिति । इक्ष्वाकुवृषभ इक्ष्वाकुश्रेष्ठ दिव्यं सर्वैः स्तुत्यं मानुषं प्राकृतविलक्षणं नित्यमनुष्यमात्रनिष्ठं च आत्मनः पराक्रमम् अवेक्ष्यैव द्विषतामेव वधे यतस्वैव द्वेषसोभावनया अन्येषां वधो मा भूदित्यर्थः । चकारा एवं चैवार्थाः ॥ ३।६६।१९ ॥

तदेव भङ्ग्यन्तरेणाह–किमिति । कृतेन सर्वविनाशेन ते किं न किमपीत्यर्थः, अतस्तं प्रियाहर्तारं रिपुं विज्ञाय यत्नतो निश्चित्य उद्धर्तुं विध्वसितुमर्हसि ॥ ३।६६।२० ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे षट्षष्टितमः सर्गः ॥ ३।६६ ॥