पूर्वसर्गान्ते दुःखं महदुपागमदित्युक्तं तदाकारं वर्णयितुमाह–स इति । दीनः स रामः दीनया वाचा लक्ष्मणमब्रवीत् । तद्वचनाकारमाह–हे लक्ष्मण गोदावरीं नदीं गत्वा ऽन्विष्येत्यर्थः, जानीहि सीतामिति शेषः ॥ ३।६४।१ ॥
सीतायाः तत्र गमने हेतुं वदन्नाह–अपीति । पद्मानि आनयितुम् आनेतुं गोदावरीं सीता गता स्यात् इति शेषः, संभावनार्थको ऽपिः । अर्धं पृथक्–एवमिति । रामेण एवं पुनरुक्तः लघुविक्रमः अतिशीघ्रपादप्रक्षेपवान् लक्ष्मणः गोदावरीं नदीं जगाम । अर्धद्वयमेकान्वयि ॥ ३।६४।२ ॥
तामिति । तीर्थवतीं प्रशस्तावतरणमार्गविशिष्टां तां गोदावरीं विचित्वा विचित्य लक्ष्मणो राममबव्रीत् ॥ ३।६४।३ ॥
तद्वचनाकारमाह–नेति । एनां सीतां तीर्थेषु न पश्यामि क्रोशतो ऽपि मे क्लेशनाशिनी वैदेही न शृणोति अतः कं नु कंचित् देशं देशान्तरम् आपन्ना प्राप्ता ॥ ३।६४।४ ॥
ननु कं देशं गता इत्यत आह–नेति । यत्र यस्मिन्देशे तनुमध्यमा सा सीता आस्ते इति शेषः, तं देशं नैव वेद्मि । अर्धं पृथक्–लक्ष्मणस्येति । लक्ष्मणस्य वचः श्रुत्वा गोदावरीं नदीं रामः स्वयं समभिचक्राम अत एव तां गोदावरीम् उपस्थितः स रामः सीता क्व इत्येवमब्रवीत् । अर्धत्रयमेकान्वयि ॥ ३।६४।५६ ॥
भूतानीति । वधार्हेणापि राक्षसेन्द्रेण रावणेन हृतां सीतां भूतानि अपि यतो रावणभीतेः हेतोः तां सीतां न शशंसुः तथा तत एव हेतोः गोदावरी नद्यपि न शशंस ॥ ३।६४।७ ॥
तत इति । भूतैः पृथिव्यादिभिः अस्मै रामाय प्रियां शशंस इति प्रचोदिता रामेण पृष्टा च सा गोदावरी सीतां न अवदत् । ऽअस्मत्ऽ इति भूषणपाठः ॥ ३।६४।८ ॥
तदेव सहेतुकमाह–रावणस्येति । दुरात्मनो रावणस्य तत् अतिभयंकरं रूपं कर्म च ध्यात्वा संस्मृत्य भयात् सा गोदावरी वैदेहीं न शशंस ॥ ३।६४।९ ॥
निराश इति । सीताया दर्शने तया गोदावर्या निराशः कृतः सीतादर्शनकर्शितः सीताया अदर्शनेन प्राप्तकृशत्वो रामः सौमित्रिमुवाच ॥ ३।६४।१० ॥
एषेत्यादिभिः । हे सौम्य एषा गोदावरी किंचिन्न प्रतिभाषते सीतावृत्तान्तलेशमपि न कथयतीत्यर्थः । अतः जनकं मिथिलाधिपं वैदेह्या मातरं च समेत्य प्राप्य तां सीतां विना ऽहं किम् अप्रियं वक्ष्यामि । सार्धश्लोक एकान्वयी ॥ ३।६४।११ ॥
येति । राज्यविहीनस्य त्यक्तराज्यस्य अत एव वन्येन फलादिना वने जीवतो मे या वैदेही सर्वं शोकं व्यपनयत् सा क्व गता ॥ ३।६४।१२ ॥
ज्ञातीति । ज्ञातिपक्षविहीनस्य ज्ञातिभिः पक्षैः सहायैश्च विहीनस्य राजपुत्रीमपश्यतः अत एव जाग्रतः निद्रामलभमानस्य मम रात्रयः दीर्घा बृहत्यो भविष्यन्ति अतिदुःखेन व्यत्येष्यन्तीत्यर्थः, इत्यहं मन्ये ॥ ३।६४।१३ ॥
मन्दाकिनीमिति । यदि कदाचित् सीता दृश्यते तर्हि सर्वाणि मन्दाकिनीप्रभृतीति अनुचरिष्यामि ॥ ३।६४।१४ ॥
एते इति । वीर हे लक्ष्मण मे मह्यं वक्तुका मा इवैते महामृगाः मां पुनः पुनः ईक्षन्ते । वक्तुकामत्वे गमकमाह–इङ्गितानि चेष्टितानि उपलक्षये जामामि ॥ ३।६४।१५ ॥
तानिति । नरव्याघ्रो राघवो रामः तान् वक्तुकामान् मृगान् दृष्ट्वा निरीक्षन् उत्तरदानोद्देश्यकमृगचेष्टां विचारयन् सन् बाष्पसंरुद्धया गिरा क्व सीतेति प्रत्युवाच ॥ ३।६४।१६ ॥
एवमिति । नरेन्द्रेण रामेण एवमुक्ताः अत एव सहसोत्थिताः सर्वे ते मृगाः नभस्थलं दर्शयन्तः सन्तः दक्षिणाभिमुखाः बभूवुरिति शेषः । अनया चेष्टया आकाशमार्गेण दक्षिणदिशं वैदेही गतेति सूचितम् ॥ ३।६४।१७ ॥
तदेव स्पष्टमाहमैथिलीति । ह्रियमाणा मैथिली यां दिशमभ्यपद्यत तेन मार्गेण दक्षिणदिशेत्यर्थः, गच्छन्तो धावन्तो मृगाः नराधिपं रामं निरीक्षन्ते दिश एव मार्गशब्देन ग्रहणान्न यत्तदोर्भिन्नविषयत्वम् ॥ ३।६४।१८ ॥
येनेति । येन हेतुना मार्गमाकाशरूपाध्वानं भूमिं च ते पृष्टाः मृगाः निरीक्षन्ते स्म नदन्तः पुनर्गच्छन्ति स्म तेन हेतुना लक्ष्मणेन ते मार्गप्रदर्शकाः मृगा उपलक्षिता ज्ञाताः तन्मार्गप्रदर्शनमवबुद्धमित्यर्थः ॥ ३।६४।१९ ॥
तेषामिति । वचनस्य उक्तस्य सर्वस्वः सर्वार्थो यस्मिन् तत्तेषामिङ्गितं लक्षयामास तात्पर्यं बुबुधे इत्यर्थः, अत एव ज्येष्ठं भ्रातरं लक्ष्मण आर्तवत् वच उवाच ॥ ३।६४।२० ॥
तद्वचनाकारमाह–क्वेति । सीता क्व इति त्वया पृष्टा अत एव सहसोत्थिता इमे मृगाः क्षितिं नभोभूमिं दक्षिणां नैर्ऋतीं दिशं च यत् यतो दर्शयन्ति अतः एतां नैर्ऋतीं दिशं साधु गच्छावहे यदि तस्य सीतादर्शनस्य आगम उपायः सा सीतैव वा लक्ष्यते लक्ष्येत संभावनार्थको यदिः । अर्धचतुष्टयमेकान्वयि ॥ ३।६४।२१२२ ॥
बाढमिति । बाढमित्येवोक्तेति शेषः । लक्ष्मणानुगतः काकुत्स्थो रामः वसुन्धरां वीक्षमाणः सन् दक्षिणां दिशं प्रस्थितः ॥ ३।६४।२३ ॥
एवमिति । एवं पूर्वोक्तरीत्या अन्योन्यं संभाषमाणौ तावुभौ भ्रातरौ वसुन्धरायां पृथिव्यां पतितपुष्पमार्गं स्खलितपुष्परूपं पन्थानमपश्यताम् ॥ ३।६४।२४ ॥
पुष्पेति । महीतले निपतितां पुष्पवृष्टिं दृष्ट्वा दुःखितो वीरो रामः दुःखितं लक्ष्मणमुवाच ॥ ३।६४।२५ ॥
तद्वचनाकारमाह–अभीति । हे लक्ष्मण कानने वने मया दत्तानि वृक्षेभ्य आहृत्य समर्पितानि अत एव वैदेह्या अपिनद्धानि धृतानि यानि तानीमानि पुष्पाणि अभिजानामि बुद्ध्या निश्चिनोमि ॥ ३।६४।२६ ॥
नन्वेतावत्कालपर्यन्तं कथं तथैव स्थितानीत्यत आह–मन्ये इति । मम प्रियं प्रकुर्वन्तः सूर्यादयो ऽभिरक्षन्तीति मन्ये निश्चिनोमि ॥ ३।६४।२७ ॥
एवमिति । महाबाहुः रामः लक्ष्मणमेवमुक्त्वा प्रस्रवणाकुलं तदभिधं गिरिमुवाच ॥ ३।६४।२८ ॥
तद्वचनाकारमाह–कच्चिदिति । क्षितिभृतां नाथ हे पर्वतश्रेष्ठ रम्ये रमणीये वनोद्देशे मया विरहिता सर्वाङ्गसुन्दरी रामा स्त्री त्वया कच्चित् दृष्टा कच्चिदिति प्रश्ने ॥ ३।६४।२९ ॥
तदुत्तरादानानन्तरकालिकं रामवचनमाह–क्रुद्ध इति । तत्र तदुत्तराप्रदानसमये क्रुद्धः क्रोधवत्त्वेन प्रतिभासमानो रामः क्षुद्रमृगं सिहं इव अब्रवीत् ॥ ३।६४।३० ॥
तद्वचनाकारमाह–तामिति । सर्वाणि ते सानूनि शिलाः यावदहं न विध्वंसयामि तावदेव हे पर्वत हेमवर्णा सुवर्णवर्णसदृशवर्णविशिष्टाम् अत एव हेमाङ्गीं हेममयाङ्गीत्वेन प्रतीयमानां सीतां दर्शय ॥ ३।६४।३१ ॥
एवमिति । मैथिलीं प्रति रामेण एवमुक्तः पर्वतः तां सीतां दर्शयन् जानन्नपि राघवे रावणसमीपे नादर्शयत अबोधयत् । एतेन ज्ञापनसमये रावणस्मृतिर्भवतीति ध्वनितं तेन रावणभीतेरतिप्राबल्यं व्यञ्जितम् ॥ ३।६४।३२ ॥
तत इति । शिलोच्चयं पर्वतं दाशरथिरुवाच । अर्धं पृथक् । तद्वचनाकारमाह–मम बाणाग्निनिर्दग्धः पर्वतस्त्वं भस्मीभूतो भविष्यसि अत एव निस्तृणद्रुमपल्लवः सन् असेव्यश्च भविष्यसि । अर्धद्वयमेकान्वयि ॥ ३।६४।३३ ॥
पर्वतं प्रत्युक्त्वा लक्ष्मणं प्रत्याह–इमामिति । हे लक्ष्मण यदि सीतां नाख्याति तर्हि सरितमिमां गोदादरीं शोषयिष्यामि ॥ ३।६४।३४ ॥
एवमिति । एवं प्ररुषितः आश्रितप्ररोषो रामः चक्षुषा दिधक्षन् दग्धुमिच्छन् सन्निव भूमौ पर्वतगोदावरीसमीपदेशे निष्क्रान्तं राक्षसस्य जटायुनिपातितरावणस्य महत् पदं पदाकृतिरेखां त्रस्तायाः रामवियोगात् भीतायाः अत एव रामकाङ्क्षिण्याः अत एव इतस्ततः प्रधावन्त्या राक्षसेन अनुसृप्तायाः अनुगताया वैदेह्याः पदानि च ददर्श । अर्धचतुष्टयमेकान्वयि ॥ ३।६४।३५३६ ॥
स इति । सीताया राक्षसस्य च परिक्रान्तमितस्ततो गमनं समीक्ष्य भग्नं धनुः भग्नौ तूणी च बहुधा विकीर्णम् अवयवशः प्रक्षिप्तं रथं च समीक्ष्य संभ्रान्तहृदयः उद्विग्नचित्तो रामः भ्रातरं शशंस ॥ ३।६४।३७३८ ॥
शंसनप्रकारमाह–पश्येति । हे लक्ष्मण कीर्णाः भूमौ प्रक्षिप्ताः भूषणानामाभरणानां कनकबिन्दवः स्वर्णमयबिन्दुरूपावयवाः विविधानि माल्यानि पुष्पाणि च पश्य । वाक्यस्य कर्मत्वान्न द्वितीया ॥ ३।६४।३९ ॥
तप्तेति । तप्तबिन्दुनिकाशैः प्रतप्तस्वर्णबिन्दुसदृशैः चित्रैः ह्रस्वलध्वादिभेदेनानेकविधैः क्षतजबिन्दुभिः रुधिरपृषतैः सर्वत आवृतं धरणीतलं पश्य । एतेन सीताङ्गजनितानीमानि किमिति संशयः सूचितः ॥ ३।६४।४० ॥
वस्तुतस्तु रुधिराणि सीताङ्गजन्यानि न संभवन्तीति बोधयन्नाह–मन्य इति । हे लक्ष्मण कामरूपिभिः राक्षसैः भित्त्वा भित्त्वा विभक्ता सती भक्षिता अनैव भविष्यति इति मन्ये । एको वा एवार्थे अपर इत्यर्थे । एतेन तस्या नित्यात्वं सूचितम् ॥ ३।६४।४१ ॥
ननु कस्याङ्गजानीमानि रुधिराणीत्यत आह–तस्या इति । सीताया निमित्तं विवदमानयोः द्वयोः राक्षसयोः इह युद्धं बभूव । एतेन तयोरन्यतरशरीरजमिति व्यञ्जितं बलवत्त्वेन राक्षससदृशपरैकराक्षसशब्देनैकशेषात् न मृषावाचित्वसंसर्गः ॥ ३।६४।४२ ॥
मुक्तेति । मुक्तामणिचितं मुक्ताभिर्मणिभिश्च चितं संरचितं तपनीयविभूषितं स्वर्णनिर्मितिविशेषेण राजितं भग्नं धरण्यां पतितम् इदं महद्धनुः कस्य धनुषो ऽतिविचित्रत्वाद्रक्षःसामान्यस्य न संभवतीति प्रश्ने बीजम् ॥ ३।६४।४३ ॥
राक्षसानामिति । वैदूर्यगुलिकाचितं वैदूर्यमण्यलंकृतम् इदं धनुः राक्षसानां राक्षसविशेषाणां वा सुराणां देवविशेषाणां वा ॥ ३।६४।४४ ॥
विशीर्णमिति । विशीर्णम् अत एव भूमौ पतितं काञ्चनं कवचं दिव्यमाल्योपशोभितं शतशलाकं शलाकाशतविशिष्टम् इदं छत्रं च कस्य ॥ ३।६४।४५ ॥
भग्नेति । भूमौ निपातितम् इदं भग्नदण्डं काञ्चनीरच्छदाः स्वर्णमयोरच्छदविशिष्टाः पिशाचवदनाः रणे निहिताः भीमरूपाः इमे खरा गर्दभविशेषाश्च कस्य । सार्धश्लोक एकान्वयी ॥ ३।६४।४६ ॥
दीप्तेति । दीप्तपावकसंकाशः प्रदीप्तज्वलनसदृशः समरध्वजः समरे ध्वजः स्वामिप्रकाशकश्चिह्नविशेषः यस्मिन्सः सांग्रामिकः अपविद्धः पातितः अत एव भग्नः रथः कस्य । अर्धद्वयमेकान्वयि ॥ ३।६४।४७ ॥
रथेति । रथाक्षमात्रा रथाधारप्रमाणकाः चतुःशताङ्गुलायता इत्यर्थः, विशिखाः विगताः शिखाः फलभागा येषां ते तपनीयविभूषणाः सुवर्णशोभिताः घोरदर्शनाः निहताः केनचिद्भग्नाः अत एव प्रकीर्णाः इतस्ततः प्रक्षिप्ताः इमे बाणाः कस्य ॥ ३।६४।४८ ॥
शरावराविति । शरैः पूर्णौ विध्वस्तौ शरावरौ इषुधी पश्य प्रतोदाभीषुहस्तः प्रतोदस्तोत्रम् अमीषवः प्रग्रहरश्मयः हस्ते यस्य सो ऽयं कस्य पुरुषस्य सारथिर्हतः । एषा पदवी प्रपतितरथादिसूचितमार्गः कस्यापि रक्षस एव व्यक्तं स्फुटमेतत् ऽअभीषुः अग्रहे रश्मौऽ इति शाश्वतः ॥ ३।६४।४९५० ॥
वैरमिति । सुघोरहृदयैस्तैः सीतापहारिभिः राक्षसैः सह जीवितान्तकं राक्षसजीवनविघातकं शतगुणं पूर्वापेक्षया अत्यधिकं मम वैरं पश्य जानीहि । ऽममासीत्ऽ इति तीर्थपाठः ॥ ३।६४।५१ ॥
हृतेति । यतः अमृता मरणधर्मरहिता अत एव न भक्षिता वैदेही हृतैव महावने ह्रियमाणां सीतां धर्म एव त्रायते ॥ ३।६४।५२ ॥
भक्षितायामिति । भक्षितायां रुद्रादिद्वारा सकललोकसंहारकर्त्र्यां वैदेह्यां हृतायां सत्यां मम प्रियं कर्तुं लोके के ईश्वराः ब्रह्मविष्णुमहेशाद्यन्यतमाः समर्थाः न के ऽपीत्यर्थः । अत्र रुद्रादिद्वारा सकललोकसंहारकर्त्र्यां हृतायामित्युक्त्या अपहरणमपि कस्मैचिन्निमित्ताय तदिच्छयैव जातमिति सूचितं तेनापहरणकर्तुस्तत्परिकरवर्तित्वं सूचितम् । भक्षिताशब्दः कर्तृनिष्ठान्तः कर्माविवक्षितत्वेनाकर्मकत्वात् ॥ ३।६४।५३ ॥
नन्वपहरणकर्तुः सीतापरिकरस्थत्वे त्वत्परि करस्थत्वमर्थसमाजग्रस्तमिति कथं भवन्तमनादृत्य भवत्प्रियामपहृतवान् इत्यत आह–कर्तारमिति । लोकानां कर्तारम् उत्पत्त्यादिविधातारं शूरम् अतिशौर्यवन्तं करुणवेदिनं करुणो दयालुरेव वेदी दयालुत्वसमानाधिकरणसकलविष्ायकज्ञानवन्तमित्यर्थः । परमात्मानम् अज्ञानात् सर्वभूतानि अवमन्येरन् नाद्रियन्ते इत्यर्थः । एतेन अज्ञानस्य अतिप्राबल्यं सूचितम् ॥ ३।६४।५४ ॥
ननु तत्परिकरस्थत्वेनैव तस्यां हृतायां किमर्थं भवतो विषाद इत्यत आह–मृदुमिति । मृदुं सरलस्वभावं लोकहिते युक्तं सज्जनप्रियार्थे निरतं करुणवेदिनं करुणत्वसमानाधिकरणसकलविषयकज्ञानवन्तं मां त्रिदशेश्वराः ब्रह्मप्रभृतयः निर्वीर्यः पराक्रमरहितो ऽयमिति मन्यन्ते मंस्यन्ते “वर्तमानसामीप्ये–” इति भविष्यति लट् एतेन मदेकनिवर्तनीयराक्षसोपद्रुतानां महान् खेदो भविष्यतीति सूचितं तेन तन्निवर्तनोपायः कर्तव्य इति ध्वनितम् ॥ ३।६४।५५ ॥
मामिति । हे लक्ष्मण गुणः सौशील्यादिः दोषः संवृत्तः संपन्न इति त्वं पश्य जानीहि । एतेन यदि सौशील्यादिगुणो न स्यात् तर्हि राक्षसप्रवृद्धिर्न स्यादिति व्यञ्जितम् । अर्धं पृथक्– अद्येति । सर्वभूतानाम् अभवाय चिन्तानिवृत्तये रक्षसां अभवाय परमकल्याणाय च अतिप्रभावविशिष्टशरस्पर्शहेतुकराक्षसत्वनिवृत्तिपूर्वकमोक्षायेत्यर्थः । शशिज्योत्स्नां संहृत्यैव उदितो महान् सूर्य इव सर्वान् दण्डदानविरोधिगुणान् सौशील्यादीन् संहृत्य एव इव मम तेजः अद्यैव प्रकाशते तत्पश्येति तात्पर्यम् । सार्धंश्लोक एकान्वयी ॥ ३।६४।५६५७ ॥
तेजसः प्रकाशाभावे दोषमाह–नैवेति । यक्षादयः तेजसः प्रकाशाभावे इति शेषः सुखं न प्राप्स्यन्ति । अत्र राक्षसा विभीषणादयः सुखशब्देन पारलौकिकसुखस्यापि ग्रहणे राक्षससामान्यग्रहे ऽपि न क्षतिः । वौ निषेधार्थौ ॥ ३।६४।५८ ॥
ममेति । अस्त्रबाणसंपूर्णम् अस्त्रैर्ब्रह्मास्त्रादिभिः बाणैश्च संपूर्णं व्याप्तमाकाशं पश्य । अद्य त्रैलोक्यचारिणां राक्षसानामसंपातं क्रियाराहित्यं करिष्यामि ॥ ३।६४।५९ ॥
तदेव भङ्ग्यन्तरेणाह–समित्यादिभिः । कालकर्मणा कालस्य इव कर्म व्यापारो यस्य तेन रावणतेजसेत्यर्थः । संनिरुद्धा आच्छादिता ग्रहगणा यस्मिन् अत एव आवारितनिशाकरम् आच्छादितनिशाकरविशिष्टमत एव विप्रनष्टानलमरुद् विप्रनष्टौ स्वाभाविकप्रकाशाभावेन स्वाभाविकगत्यभावेन च विप्रनष्टप्रायौ अनलमरुतौ यस्मिंस्तत् अत एव भास्करद्युतिसंवृतं संवृतभास्करद्युतिकमत एव विनिर्मथितशैलाग्रं विनिर्मथितानि विलोडितानि शैलाग्राणि यस्मिन् तत् अत एव शुष्यमाणजलाशयं शुष्यज्जलाशयविशिष्टमत एव ध्वस्तद्रुमलतागुल्मं ध्वस्तद्रुमादिविशिष्टमत एव ध्वस्तद्रुमलतागुल्मं ध्वस्तद्रुमादिविशिष्टमत एव विप्रनाशितः इतस्ततश्चालितः सागरो यस्मिन् तत् त्रैलोक्यं संयुक्तं बाधकविध्वंसेन तत्तत्प्रभावविशिष्टं करिष्यामि । सार्धश्लोकद्वयमेकान्वयि ॥ ३।६४।६०६१ ॥
नेति । ईश्वराः सीतासमर्पणे समर्थाः ते राक्षसाः कुशलिनीं नित्यं कुशलविशिष्टां मम सीतां यदि न दास्यन्ति तर्हि अस्मिन् लोके मुहूर्ते कस्मिंश्चित् समये मम विक्रमं द्रक्ष्यन्ति । अर्धद्वयमेकान्वयि ॥ ३।६४।६२ ॥
नेति । हे लक्ष्मण मम चापमुखात् धनुरप्रभागात् मुक्तैः बाणजालैः निरन्तरम् अन्तररहितम् आकाशं सर्वभूतानि न उत्पतिष्यन्ति ॥ ३।६४।६३ ॥
मर्दितमिति । मम नाराचैः बाणविशेषैः समाकुलं व्याप्तमत एव मर्दितं प्राप्तक्षोदमत एव ध्वस्तभ्रान्तमृगद्विजं ध्वस्ताः अधःपतिताः भ्रान्ताश्च मृगद्विजाः यस्मिन् अत एव अमर्यादं चित्तस्वास्थ्यरहितत्वेन स्वस्वपरिपाटीरहितजन्तुविशिष्टं जगत्पश्य ॥ ३।६४।६४ ॥
ननु राक्षसहेतोः सर्वेषां विनाशं कथं करिष्यसीत्यत आह–आकर्णेति । जीवलोकदुरावरैः जीवलोके नियम्यनियामकयोर्भुवने दुरावरं दुर्वारणं येषां तैः आकर्णपूरैः इषुभिः बाणैः अपिशाचं पिशाचरहितम् । अराक्षसं राक्षसरहितं जगत् मैथिलीहेतोः करिष्ये । एतेन राक्षसतदनुयाय्यतिरिक्तानां भीतिमात्रं भविष्यति न ध्वंस इति ध्वनितम् ॥ ३।६४।६५ ॥
ममेति । अमर्षात् राक्षसकृतबहुदुष्कृतासहनात् हेतोः रोषप्रयुक्तानां क्रोधात्त्यक्तानां
विमुक्तानां विशेषेण मुक्तं संसारान्मोक्षो यैः तेषां दूरगामिनां विशिखानां बाणानां बलं सुराः द्रक्ष्यन्ति । एतेन सुरकार्यार्थमेवायमुद्योग इति ध्वनितम् ॥ ३।६४।६६ ॥
ननु बहूनां रक्षसां पुलस्त्यवंशत्वात् तद्द्रोहे तद्वंशीयकुबेरादिभिरपि भवतां द्रोहः संपद्येतेत्यत आह–नेति । प्रणाशिते अस्मन्नियम्यरुद्रादिद्वारा अनेकवारमदर्शनं प्रापिते त्रैलोक्ये विद्यमाना देवादयो मम क्रोधात् न भविष्यन्ति अस्मद्द्रोहबुद्धिमत्त्वे विनङ्क्ष्यन्तीत्यर्थः । अत एव मद्बाणैः शकलीकृताः खण्डत्वं प्रापिताः देवादीनां लोकाः बहुधा अनेकविधं निपतिष्यन्ति । अर्धचतुष्टयमेकान्वयि ॥ ३।६४।६७६८ ॥
निरिति । मृतां रुद्रादिद्वारा सकलजगद्विध्वंसिनीं हृतां मम प्रियामिति शेषः । ईश्वराः सीतासमर्पणे समर्थाः राक्षसाः यदि न दास्यन्ति तर्हि सायकैः इमान् राक्षसत्वं प्राप्तान् लोकान् जनान् निर्मर्यादान् त्यक्तराक्षसस्वभावान् करिष्यामि । मृताशब्दः अविवक्षितकर्मकत्वात् कर्तृप्रत्ययान्तः ॥ ३।६४।६९ ॥
ननु रावणभिया सर्वे लोकास्तत्साहाय्यं करिष्यन्तीति कथं प्रियायाः प्राप्तिर्भविष्यतीत्यत आह–तथेति । प्रियां वैदेहीं यदि न दास्यन्ति तर्हि सचराचरं रावणसहायीभूतचराचरसहितं त्रैलोक्यं लोकत्रयात्मकं सर्वं जगत् नाशयामि नाशयिष्यामि ॥ ३।६४।७० ॥
इतीति । इत्यनेन प्रकारेण उक्त्वा क्रोधताम्राक्षः स्वीकृतराक्षसत्वनिवर्तनहेतुककोपजनितात्यरुणनयनः रामः कार्मुकं निष्पीड्य दृढमुष्टिना परिगृह्य आशीविषोपमम् अतिविषवत्कृष्णसर्पसदृशं शरमादाय धनुषि संदधे ॥ ३।६४।७१ ॥
युगान्ते इति । युगान्ताग्निरिव क्रुद्धो रामः इदमब्रवीत् । अर्धं पृथक् । तद्वचनाकारमाह–यथेति । हे लक्ष्मण सर्वभूतेषु प्राप्ताः जरादयो यथा न प्रतिहन्यन्ते परमात्मातिकृपापात्रातिरिक्तैर्न निवार्यन्ते तथा क्रोधसंयुक्तो ऽहम् असंशये यथा भवति तथा न निवार्यो ऽस्मि ॥ ३।६४।७२७३ ॥
पुरेति । पुरा इव अरुदतीं क्लेशरहितामित्यर्थः । अनिन्दितां नित्यं निन्दारहितां सीतां यदि न दिशन्ति अपहरणकर्तारो न दास्यन्ति तर्हि देवादिसहितं शैलसहितं जगत् परिवर्तयामि । एतेन राक्षसभिया देवादिभिस्तत्साहाय्यं न कार्यमिति ध्वनितम् ॥ ३।६४।७४ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे चतुःषष्टितमः सर्गः ॥ ३।६४ ॥