रामविलापमेवाह–स इत्यादिभिः । प्रियया विहीनः अत एव शोकेन मोहेन शोकजनितकर्तव्यविषयकाविवेकेन पीड्यमानः अत एव आर्तरूपः राजपुत्रः स रामः भ्रातरं विषादयन् सन् भूयो ऽधिकं तीव्रं विषादं प्रविवेश ॥ ३।६३।१ ॥
विषादप्रवेशानन्तरकालिकं वृत्तमाह–स इति । विपुले शोके निमग्नः स रामः व्यसनानुरूपं दुःखितजनयोग्यं वाक्यम् उष्णं विनिःश्वस्य सशोकं रुदन् सन् शोकवशाभिपन्नं शोकवशेन खिन्नं लक्ष्मणमुवाच ॥ ३।६३।२ ॥
तद्वचनाकारमाह–नेत्यादिभिः । मद्विधः दुष्कृतकर्मकारी दुष्कृतम् अन्यैरनाचरितं कर्म करोति तच्छीलः द्वितीनपयः वसुंधरायां नास्ति इत्यहं मन्ये अत एव हृत्सुखापहारको ऽयं शोकानुशोकः शोकोत्तरं प्रवृत्तः शोकः परंपरायाः परंपरया मनो भिन्दन् सन्नेव मामेति ॥ ३।६३।३ ॥
स्वदुष्कृतकर्मकारित्वमेव प्रकटयन्नाह–पूर्वमिति । असकृत् वारंवारं कृतानि राक्षसैराचरितानि पापानि कर्माणि पूर्वं स्वाप्राकट्यसमये तत्र साकेते विद्यमानेन मया यत् यस्मात् अभीप्सितानि मदिच्छाविषयीभूतानि तस्मात् अयं विपाकः इच्छामात्रजनितफलम् अद्यापतितः अत एव दुःखेन दुःखम् अहं विशामि एतेन यदि मदिच्छा न स्यात्तर्हि राक्षसानां ब्रह्मादिप्रेरितदुष्कृतकर्मप्रवृत्तिर्न स्यादिति सूचितं तेन सकलजनकर्तृत्वादीनां खायत्तत्वं ध्वनितम् । तथाच श्रुतिः– “कर्तृत्वं करणत्वं च स्वभावश्चेतना धृतिः । यत्प्रसादादिमे सन्ति न सन्ति यदुपेक्षया” इति ॥ ३।६३।४ ॥
विपाकस्वरूपं बोधयन्नाह–राज्येति । हे लक्ष्मण प्रविचिन्तितानि मे सर्वाणि राज्यप्रणाशादीनि मे शोकवेगम् आपूरयन्ति ॥ ३।६३।५ ॥
सर्वमिति । सर्वं राज्यप्रणाशादिजनितम् इदं दुःखं शून्यं बहुजनरहितं वनमेत्य शरीरे अन्तःकरणे शान्तं सीतानिरन्तरसंबन्धजनितातिप्रमोदेन निवृत्तमित्यर्थः सीतावियोगात्तु काष्ठैः उपदीप्तो वह्निरिव सहसा पुनरभ्युदीर्णं समुत्थितम् ॥ ३।६३।६ ॥
सीताविषये स्वकृतनिश्चयमाह–सेति । आर्या सर्वनारीश्रेष्ठा राक्षसेन खमाकाशमुपेत्य अभ्याहृता अत एव सुस्वरविप्रलापा सुस्वरः शोभनस्वरविशिष्टः विप्रलापो यस्याः सा भीरुः मम सीता अभीक्ष्णं भयेन मद्वियोगजनितभीत्या विक्रन्दितवती नूनं मया निश्चितमेतत् ॥ ३।६३।७ ॥
ताविति । लोहितस्य कुङ्कुमादिना मनोहररागविशिष्टस्य अत एव प्रियदर्शनस्य उत्तमचन्दनस्य सदोचितौ नित्यं संलग्नौ अत एव शोणितपङ्कदिग्धौ शोणितपङ्कसंलिप्तसदृशौ वृत्तौ तौ प्रियायाः स्तनौ मम नाभिभातः मां न प्रकाशयेते महदनुचितमेतदिति तात्पर्यम् । ऽनाभिपातःऽ इति पाठे वियोगदुःखान्न रक्षत इत्यर्थः । शोणितपङ्कदिग्धशब्दः आचारक्विबन्तप्रकृतिककर्तृक्विबन्तः ॥ ३।६३।८ ॥
तदिति । श्लक्ष्णः मनोहरः सुव्यक्तः संस्फुटः मृदुः ऋजुवर्णविशिष्टः प्रलापो यस्मात् तत् कुञ्चितानां केशानां भारो यस्मिंस्तत् रक्षोवशमुपागतायाः प्राप्तायाः तस्याः सीतायाः तन्मुखं राहुमुखे इन्दुरिव न भ्राजते ॥ ३।६३।९ ॥
तामिति । हारपाशस्य हाररूपमालायाः सदोचितां तां सदोचितः अन्तःप्रान्तभागो यस्यास्तां सुव्रतायाः मम प्रियायाः तां सर्वविलक्षणां ग्रीवां रुधिराशनानि रक्षांसि भित्त्वा रुधिरं पिबन्ति नूनं काक्वा नेत्यर्थः ॥ ३।६३।१० ॥
मयेति । आयतकान्तनेत्रा आयते विस्तृते कान्ताय पत्यन्वेषणाय नेत्रे यस्याः सा मया विहीना अत एव रक्षोभिरावृत्य विकृष्यमाणा या सीता सा दीना सती कुररीव निनादं मुक्तवती कृतवती नूनं निश्चितमेतत् ॥ ३।६३।११ ॥
पूर्वं कस्यांचित् शिलायां स्थित्वा सीतया सह परिहासादिकं जातं तामवलोक्याह–अस्मिन्निति । कान्तमतिरमणीयं स्मितं यस्याः सा उदारशीला पूर्वमस्मिन् शिलातले मया सार्धमुपोपविष्टा, जातहासा जातो हासः परिहासो यया सा सीता बहुवाक्यजातं परिहासमात्रविषयकत्वहेतुककुत्सितवाक्यसमूहं त्वामाह ॥ ३।६३।१२ ॥
गोदावरीति । सरितां वरिष्ठा इयं गोदावरी मम प्रियायाः नित्यकालं सर्वसमयं प्रिया अतः अत्र गच्छेदिति चिन्तयामि संभावयामि । संभावनाया असंभवे हेतुः–सा सीता एकाकिनी अस्मादादिसाहाय्यरहिता सती कदाचित् न याति एतेन क्वचिन्निलीना स्यादिति रामसंभावना ध्वनिता ॥ ३।६३।१३ ॥
पद्मेति । पद्मानि एवानेतुमभिप्रयाता अपि इति यत् संभावनं तदप्ययुक्तम् । तत्र हेतुः– मया विना सा पङ्कजानि कदाचिन्न गच्छति ॥ ३।६३।१४ ॥
काममिति । पुष्पिता वृक्षखण्डा यस्मिन् तत् इदं वनं प्रयाता । तत्प्रयातमप्ययुक्तम् एकाकिनी अतिबिभेति ॥ ३।६३।१५ ॥
सूर्यं संबोध्य पृच्छति–आदित्येति । लोककृताकृतज्ञ कृताकृतयोर्ज्ञातः अत एव सत्यानृतकर्मसाक्षिन् भो आदित्य मम प्रिया सीता क्व क्वचित् गता निलीनेत्यर्थः, हृता वा शोकहतस्य मे सर्वं शंसस्व शंस ॥ ३।६३।१६ ॥
लोकेष्विति । हे वायो यत् ते तव नित्यं विदितं ज्ञातं न भवेत् तत् किंचित् सर्वेषु लोकेषु नास्ति सर्वं त्वया ज्ञातमित्यर्थः । अतः मृता लोकान्तरगमनकर्त्रीत्वेन मृतासदृशी वा हृता सती पथि वर्तते वा इति कुलपालनीं तां सीतां शंसस्व ॥ ३।६३।१७ ॥
इतीवेति । इतीव अतीव शोकविधेयदेहं शोकव्याप्तशरीरम् अत एव विसंज्ञं विशेषज्ञानरहितमत एव विलपन्तं रामम् अदीनसत्त्वः धैर्यावलम्बेन दीनसत्त्वाभाववान् अत एव न्याय्ये स्थितः सौमित्रिः कालयुतं समयोचितं वाक्यमुवाच ॥ ३।६३।१८ ॥
तद्वचनाकारमाह–शोकमिति । शोकं विसृज्य त्यक्त्वा धृतिं धैर्यं भजस्व अत एव अस्याः सीताया विमार्गणे सोत्साहता उत्साहवैशिष्ट्यं चास्तु हि यतः उत्साहवन्तो नराः अतिदुष्करेष्वपि कर्मसु न सीदन्ति ॥ ३।६३।१९ ॥
इतीवेति । इतीव अत्यन्तं ब्रुवन्तम् उदग्रपौरुषम् आर्तं सौमित्रिं न चिन्तयामास एतदुक्तिः शोभनेति न स्वीचकारेत्यर्थः । अत एव धृतिं धैर्यं पुनर्विमुक्तवान् अत एव महत् दुःखं पुनरुपागमत् ॥ ३।६३।२० ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे त्रिषष्टितमः सर्गः ॥ ३।६३ ॥