रामविलापमेवाह यावत्सर्गम्–सीतामित्यादिभिः । सीतामपश्यन् अत एव शोकोपहतचेतनो रामः विललाप ॥ ३।६२।१ ॥
पश्यन्निति । तां सीतां मन्मथार्दितः स्वप्रेर्यशिवद्वारा मन्मथार्दको राघवः सीतामपश्यन्नपि पश्यन्निव विलापाश्रयेण विलापाश्रयणेन हेतुना दुर्वचं वक्तुमशक्यं वाक्यमुवाच ॥ ३।६२।२ ॥
तद्वचनाकारमाह–त्वमित्यादिभिः । हे प्रिये पुष्पप्रियतया हेतुना मम शोकविवर्धनी त्वम् अशोकस्य शाखाभिः ते स्वस्य शरीरम् आवृणोषि ॥ ३।६२।३ ॥
कदलीति । कदलीकाण्डसदृशौ अत एव कदल्यां संवृतौ उभौ ते तव ऊरू अहं पश्यामि अतः गूहितुम् आच्छादितुं त्वं न शक्तासि ॥ ३।६२।४ ॥
कर्णिकारेति । हे देवि हसन्ती त्वं कर्णिकारवनं सेवसे तत्रैव परिहासाय निगूढा ऽसीत्यर्थः । मम बाधावहेन मद्विघातकेन ते परिहासेनालं न कर्तव्यमित्यर्थः ॥ ३।६२।५ ॥
विशेषेणेति । हे प्रिये यद्यपि परिहासप्रियं ते शीलं स्वभावम् अवगच्छामि जानामि तथापि आश्रमस्थाने विशेषश्रमस्थित्यर्थं विशेषेणायं ते परिहासः न प्रशस्यते । यद्यपीत्यध्याहृतम् ॥ ३।६२।६ ॥
आगच्छेति । हे विशालाक्षि तवायमुटजः पर्णशाला शून्यः अतस्त्वमागच्छ । अर्धं पृथक् । लक्ष्मणं संबोध्याह–सुव्यक्तमिति । हे लक्ष्मण सा सीतां विलपन्तं मां यतो न उपसंप्रैति आगच्छति अतः राक्षसैः अभक्षितापि सीता अपहृता एव व्यक्तं स्फुटमेतत् । एको वाशब्द एवार्थे । अर्धद्वयमेकान्वयि ॥ ३।६२।७ ॥
एतानीति । हे लक्ष्मण रजनीचरैः भक्षितां मे देवीं साश्रुनेत्राणि एतानि मृगयूथानि शंसन्तीव ॥ ३।६२।८ ॥
हेति । मम संबन्धिनि आर्ये त्वं क्व यातासि हा कष्टमेतत् मे देवी माता अद्य सकामा तदीप्सितराक्षसवधस्य सन्निहितत्वात् प्राप्तमनोरथा भविष्यति ॥ ३।६२।९ ॥
सीतयेति । सीतया सह निर्यातः इहागतः विना सीतां सीतारहितत्वमुपागतः प्राप्तो ऽहं शून्यं ममान्तःपुरं कथं प्रवेक्ष्यामि किंच सीतां विना ममान्तःपरुमुपागतः प्राप्तो ऽहं कथं प्रवेक्ष्यामि ॥ ३।६२।१० ॥
निर्वीर्य इति । सीतापनयनेन सीतायाः हरणेन लोकः मां निर्वीर्य इति निर्दयश्चेति वक्ष्यति, प्रकाशं स्फुटं मे कातरत्वं च वक्ष्यति ॥ ३।६२।११ ॥
निवृत्तेति । निवृत्तवनवासो ऽहं कुशलं परिपृच्छन्तं जनकं निरीक्षितुं कथं शक्ष्ये ॥ ३।६२।१२ ॥
विदेहेति । विदेहरातो जनकः तया सीतया विरहितं मां दृष्ट्वा सुताविनाशसंतप्तः कन्यादर्शनाभावहेतुकतापं प्राप्तः सन्मोहस्य वैचित्यस्य वशमधीनत्वमेष्यति ॥ ३।६२।१३ ॥
अथवेति । अथवा भरतपालितां पुरीम् अहं न गमिष्यामि, एतेनानुमितान्यपरिहासवचनभीरुत्वं सूचितम् । ननु स्वपुरत्यागः कथं भविष्यतीत्यत आह–स्वर्गः अप्रकटसाकेतो ऽपि तया सीतया हीनश्चेत् शून्यः सर्वसंपत्तिरहितः मम मतः ॥ ३।६२।१४ ॥
मामिति । हि उक्तहेतोः वने माम् उत्सृज्य अयोध्यां पुरीं गच्छ अहं तु सीतां विना कथंचन न जीवेयम् ॥ ३।६२।१५ ॥
गाढमिति । रामेणानुज्ञातस्त्वं वसुंधरां पालय इति वचः गाढमाश्लिष्य मद्वचनाद्भरतस्त्वया वाच्यः ॥ ३।६२।१६ ॥
अम्बेति । अम्बादिः ममाज्ञया त्वया अभिवाद्या प्रणमनीया प्रयत्नेन भवता रक्षणीया च ॥ ३।६२।१७१८ ॥
सीताया इति । सीतायाः मम च विनाशः परस्परमदर्शनं मे जनन्याः अग्रे त्वया विशेषेण निवेद्यः कथनीयो भवेत् ॥ ३।६२।१९ ॥
इतीति । सुकेश्या शोभनकेशवत्या तया सीतया विना वनमुपगम्य प्राप्य इत्यनेन प्रकारेण राघवे विलपति सति भयविकलमुखः वियोगसूचकरामवचनश्रवणजनितभयहेतुकवैकल्यविशिष्टमुखविशिष्टः अत एव व्यथितमनाः लक्ष्मणो ऽपि भृशमत्यन्तमातुरो बभूव ॥ ३।६२।२० ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे द्विषष्टितमः सर्गः ॥ ३।६२ ॥