एवमुक्त्वा ऽपि लक्ष्मणोच्चारितप्रत्युत्तरमलभमानस्य रामस्य पुनः प्रश्नमाह–अथेत्यादिभिः । अथ प्रत्युत्तरप्रदानाभावानन्तरम् आश्रमात् अध्वप्रचलनजनितेषद्खेदात् उपावृत्तं निवृत्तं सौमित्रिं दुःखार्दितो रामः अन्तरा आश्रममध्ये पुनः पप्रच्छ ॥ ३।५९।१ ॥
तत्प्रश्नाकारमाह–तमिति । आसा अतिप्रकाशविशिष्टा यत् या मैथिली तव विश्वासात् वने मया विरहिता तां मैथिलीमपास्य त्यक्त्वा किमर्थं त्वमागतः इति तं लक्ष्मणमुवाच ॥ ३।५९।२ ॥
वचनान्तरमाहदृष्ट्वेति । यत् महत्पापं राक्षसकर्तृकापहरणादि शङ्कमानं मे मनो व्यथितं तत् मैथिलीं त्यज्य त्यक्त्वा अभ्यागतमिह प्राप्तं त्वां दृष्ट्वैव सत्यं प्रतीयत इति शेषः ॥ ३।५९।३ ॥
सत्यत्वे कारणान्तरमाह–स्फुरत इति । हे लक्ष्मण सीताविरहितं त्वां दूरे दृष्ट्वा विद्यमानस्य मे सव्यं वामं नयनं हृदयं बाहुश्च स्फुरते ॥ ३।५९।४ ॥
एवमिति । एवमनेन प्रकारेण भूय उक्तः दुःखसमाविष्टः लक्ष्मणः दुःखितं राममब्रवीत् ॥ ३।५९।५ ॥
तद्वचनाकारमाह–नेति । कामचारेण स्वेच्छयेत्यर्थः, तां सीतां त्यक्त्वा स्वयमहमिह नागतः किंतु तया सीतयैव प्रचोदितः प्रेरितो ऽहं त्वत्सकाशमागतः ॥ ३।५९।६ ॥
ननु तयैव किमर्थं प्रेरित इत्यत आह–आर्येणेति । हे लक्ष्मण मां परित्राहि इत्यार्येण भवता पराक्रुष्टमिव पराक्रुष्टमुच्चारितं सुविस्वरमतिस्वरसहितं यत् वाक्यं तत् मैथिल्याः श्रुतिं श्रवणपथं गतम् ॥ ३।५९।७ ॥
सेति । आर्तस्वरं श्रुत्वा भयविक्लवा तव स्नेहेन रुदन्ती रुदती सा मैथिली गच्छ गच्छेति मामाह ॥ ३।५९।८ ॥
प्रचोद्यमानेनेति । तया सीतया गच्छेति बहुशः प्रचोद्यमानेन मया तत्प्रत्ययान्वितं रामस्य न क्वचिद्भीतिरिति सीताविश्वासकारकमिदं वाक्यं मैथिली प्रत्युक्ता ॥ ३।५९।९ ॥
तद्वाक्याकारमाह–नेति । यत् अस्य रामस्य भयमावहेत्तद्रक्षो ऽहं न पश्यामि अत एतदुदाहृतं रामस्य नास्ति किंतु केन अन्येनेत्यर्थः, उदाहृतमुच्चारितम् अतो निर्वृता त्यक्तभया भव ॥ ३।५९।१० ॥
तत्र हेत्वन्तरमप्युक्तमित्याह–विगर्हितमिति । यस्त्रिदशान्देवानपि त्रायेत् स आर्यः सर्वश्रेष्ठः रामः विगर्हितं निन्दितं त्राहीति वचनं कथमभिधास्यति ॥ ३।५९।११ ॥
किमिति । किंनिमित्तं किंचित्कारणमुद्दिश्य केनापि राक्षसविशेषेण मे भ्रातुः स्वरमवलम्ब्य लक्ष्मण मां त्राहीति विस्वरं वाक्यं व्याहृतं कथितम् ॥ ३।५९।१२ ॥
राक्षसेनेति । हे शोभने त्रासान्मां प्रत्युद्वेगप्रापणार्थं राक्षसेन त्राहीति वाक्यमीरितमतः कुनारीजनसेविता प्राकृतनारीजनैराश्रिता व्यथा भवत्या न कार्या ॥ ३।५९।१३ ॥
अलमिति । जातो जायमानो वा यः पुमान् राघवं पराजयेत्स त्रिपु लोकेषु नास्ति अतो राघवो देवैरप्यजेयः अतो विक्लवतां विह्वलतां गन्तुं प्राप्तुमलम्, विक्लवतां न प्राप्नुहीत्यर्थः, अतः स्वस्था सती निरुत्सुका मत्प्रेषणप्रयत्नरहिता भव ऽविक्लवो विह्वलस्तथाऽ इति हलायुधः । श्लोकद्वयमेकान्वयि ॥ ३।५९।१४१५ ॥
एवमिति । एवमुक्ता परिमोहितचेतना भवद्विषयकातिस्नेहेन व्याकुलचित्ता वैदेही अश्रूणि मुञ्चन्ती सती दारुणं वच उवाच ॥ ३।५९।१६ ॥
तदाकारमाह–भाव इत्यादिभिः । भ्रातरि रामे विनष्टे अमर्षाददृश्यत्वं प्राप्ते सति मां त्वं नावाप्स्यसे ऽहमप्यदृश्या भविष्यामीति तात्पर्यम्, मयि अत्यर्थं निवेशितस्तव भावः परप्रेम पापस्तद्धेतुरेव भविष्यतीति शेषः, विपत्तौ स्वामिनाहूतो ऽप्ययं न गत इति महान् पाप्ययमिति लोका वदिष्यन्तीति तात्पर्यम् ॥ ३।५९।१७ ॥
संकेतादिति । संकेतात् संकेतं प्राप्य अत्यर्थं क्रोशन्तं रामं त्वं यथा यथावत् न समनुगच्छसि तर्हि भरते भरतसमीपे ऽपि त्वं नाभ्यवपद्यसे स्थास्यसि भरतो निस्सारयिष्यतीति तात्पर्यम् ॥ ३।५९।१८ ॥
रिपुरिति । राघवस्यान्तरमभिप्रायं प्रेप्सुस्त्वं यदि मदर्थं मद्रक्षणार्थम् एनं राघवं नाभिपद्यसे तर्हि प्रच्छन्नचारी रिपुस्त्वम् अनुगच्छसि भविष्यसि । किंच प्रच्छन्नचारित्वं यद्रिपुत्वं तदनुगच्छसि प्राप्स्यसि भावप्रधानो निर्देशः समुदायस्य कर्मत्वेनान्वयान्न द्वितीया “वर्तमानसामीप्ये–” इति भविष्यति लट् ॥ ३।५९।१९ ॥
एवमिति । वैदेह्या एवमुक्तः अत एव संरब्धः जातकोपः अत एव संरक्तलोचनः अत एव प्रस्फुरमाणोष्ठो ऽहं क्रोधात् हेतोः आश्रमात् अभिनिर्गतः ॥ ३।५९।२० ॥
एवमिति । संतापमोहितो रामः एवं ब्रुवाणं सौमित्रिमब्रवीत् । तद्वचनाकारमाह–तां सीतां विना यत्त्वमिहागतः तत् दुष्कृतं न कर्तव्यमित्यर्थः ॥ ३।५९।२१ ॥
जानन्निति । मां रक्षसामपवारणे समर्थं जानन्नपि यो भवान् मैथिल्या अनेन क्रोधवाक्येन निर्गतः तस्मै ते न परितुष्यामि यत् यस्मात् हेतोः मैथिलीं त्यक्त्वा त्वमसि एतेन त्वत्प्रेषणे सीताया आग्रहमवलोक्य तया सहैव त्वया ऽ ऽगन्तव्यमिति सूचितम् । सार्धश्लोक एकान्वयी ॥ ३।५९।२२ ॥
क्रुद्धाया इति । क्रुद्धायः स्त्रियाः परुषं वाक्यं श्रुत्वा अत एव क्रोधस्य वशम् आगम्य प्राप्य मम शासनं त्वं नाकरोः अत एव सीतया प्रतिचोदितः सन् इहागतः यत् तत् त्वया सर्वथा अपनीतं नीतिविरुद्धं कृतमित्यर्थः ॥ ३।५९।२३२४ ॥
स्वसदृशस्वरोच्चारणकर्तारं बोधयन् स्ववृत्तान्तमाह–असाविति । येन मृगरूपेण आश्रमादहमपवाहितः सो ऽसौ राक्षसः शरेणाभिहतः सन् शेते ॥ ३।५९।२५ ॥
विकृष्येति । चापं विकृष्य सायकं बाणं परिधाय संधाय सलीलबाणेन लीलापूर्वकप्रक्षिप्तशरेण मया ताडितः स मृगरूपः मार्गीं मृगसंबन्धिनीं तनुं त्यज्य त्यक्त्वा केयूरधरः अङ्गदविशिष्टो राक्षसो बभूव ऽकेयूरमङ्गदं तुल्येऽ इत्यमरः ॥ ३।५९।२६ ॥
शरेति । शराहतेन राक्षसेन मम स्वरम् आलम्ब्य अनुकृत्य सुदूरसुश्रवं सुदूरे अतिदूरे ऽपि सुश्रवः स्पष्टश्रवणं यस्य तत् सुदारुणं वचनं वाक्यम् आर्तया गिरा उदाहृतम्, येन वचनेन मैथिलीं विहाय त्वमिहागतः ॥ ३।५९।२७ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे एकोनषष्टितमः सर्गः ॥ ३।५९ ॥