लक्ष्मणसमीपे रामसंभावनामुक्त्वा रामकर्तृकं प्रश्नमाह–स इत्यादिभिः । स रामः वैदेहीं विना आगतम् अत एव दीनमत एव शून्यं चित्तप्रसादरहितं लक्ष्मणं दृष्ट्वा पर्यपृच्छत ॥ ३।५८।१ ॥
तत्प्रश्नाकारमाह–प्रस्थितमित्यादिभिः । दण्डकारण्यं प्रस्थितं मां या अनुजगाम यां च हित्वा त्वमिहागतः सा वैदेहीं क्वास्ति ॥ ३।५८।२ ॥
तदेव भङ्ग्यन्तरेणाह–राज्येति । राज्यभ्रष्टस्य मे दुःखसहाया दुःखे सहायः साहाय्यं यस्याः सा सा प्रिया वैदेही क्व ॥ ३।५८।३ ॥
यामिति । हे वीर यां विना मुहूर्तमपि जीवितुं नोत्सहे सा सुरसुतोपमा इन्द्रकन्यासादृश्यप्रतियोगिनी सीता क्व ॥ ३।५८।४ ॥
पतित्वमिति । तपनीयाभां प्रतप्तसुवर्णनिभां पृथिव्याः प्रादुर्भूतां तां सीतां विना अमराणां न मरः कदाचिन्मरणं येषां ते ब्रह्मविष्णुमहेश्वराः तेषां पतित्वं नेच्छेयम् इच्छामि ऽतपनीयं शातकुम्भम्ऽ इत्यमरः ॥ ३।५८।५ ॥
कच्चिदिति । मम प्राणैः प्रियतरा वैदेही कच्चिज्जीवति मे प्रव्राजनं प्रव्राजनसंबन्धि व्रतं नगरप्रवेशाभावादिमिथ्या असत्यं कच्चिन्न भविष्यति एतेन यदि नगरमध्ये एव सीतापहृत्य संस्थापिता तर्हि तदानयनं नगरप्रवेशमन्तरा कथं संभवेदिति रामविचारः सूचितः तेन अपहृतापि नगराद्बहिः संस्थापिता चेच्छोभनमिति तदभिप्रायो व्यञ्जितः ॥ ३।५८।६ ॥
सीतेति । हे सौमित्रे सीतानिमित्तं मयि त्वयि च मृते राक्षसमृतत्वे गते प्रापिते सति सकामा राक्षसवधविषयकेच्छावती कैकेयी सुखिता कच्चिद्भविष्यति ॥ ३।५८।७ ॥
सेति । सपुत्रराज्यां मद्विषयकातिप्रीतिपुत्रशोभासहितां सिद्धार्थां सिद्धो ऽर्थो राक्षसवधरूपं प्रयोजनं यस्याः तां केकयीं मृतः राक्षसघातकः पुत्रो यस्याः सा कौसल्या कच्चिदुपस्थास्यति प्रशंसिष्यति ॥ ३।५८।८ ॥
यदीति । सुवृत्ता वैदेही यदि जीवति मया लोकान् पालयिष्यति यथापूर्वं तत्रैव स्थिता भविष्यतीत्यर्थः, तदा आश्रमं गमिष्यामि यदि च वृत्तासा वृत्तः प्रवृत्तः आसः केनचिन्निमित्तेन अपुनरागमनाय गमनं यस्याः सा तदा प्राणान् पालनं त्यक्ष्यामि अहमपि तत्रैव गमिष्यामीत्यर्थः ॥ ३।५८।९ ॥
यदीति । आश्रमगतं मां प्रहसिता वैदेही यदि पुनर्नाभिभाषते अभिभाषिष्यते राक्षसकृतपीडाजनितमूर्च्छादिना यदि किंचिन्न वक्ष्यतीत्यर्थः, तर्हि विनशिष्यामि राक्षसान् विनाशयिष्यामि ॥ ३।५८।१० ॥
ब्रूहीति । हे लक्ष्मण त्वयि प्रमत्ते सति रक्षोभिर्भक्षिता सती वैदेही न जीवति वा जीवति वा इति त्वं ब्रूहि एको वाशब्द इत्यर्थकः ॥ ३।५८।११ ॥
सुकुमारीति । नित्यमदुःखदर्शिनी दुःखं पश्यति तच्छीला नित्यं तद्भिन्ना वैदेही मद्वियोगेन दुर्मनाः सती शोचति व्यक्तं स्फुटमेतत् ॥ ३।५८।१२ ॥
लक्ष्मणागमने स्वकृतनिश्चयमाह–सर्वथेति । जिह्येन कपटेन सुदुरात्मना दुर्ज्ञेयप्रयत्नवता अत एव लक्ष्मणेत्युच्चैर्वदता ते मारीचेन तवापि भयं मत्कर्मकराक्षसबाधाहेतुकभीतिर्जनितमुत्पादितम् ॥ ३।५८।१३ ॥
श्रुत इति । मम सदृशः मत्स्वरसमानः सः मारीचोच्चारितः स्वरः वैदेह्या श्रुतः अत एव त्रस्तया वैदेह्या प्रेषितस्त्वं मां द्रष्टुं शीघ्रमागतः इत्यहं मन्ये ॥ ३।५८।१४ ॥
सर्वथेति । वने सीतामुत्सृजता त्यजता त्वया सर्वथा कष्टं दुःखं कृतं संपादितम् । दुःखाकारमाह–नृशंसानां क्रृराणां रक्षसां प्रतिकर्तुं स्वजनवधप्रतिक्रियां संपादयितुमन्तरमवकाशो दत्तम् ॥ ३।५८।१५ ॥
नन्ववकाशदानेन किमित्यत आहदुःखिता इति । खरघातेन ये राक्षसा दुःखितास्तैः राक्षसैः सीता निहता दुर्वचनादिना ताडिता भविष्यति संशयः अत्र संदेहो न ॥ ३।५८।१६ ॥
अहो इति । ईदृशं प्राप्तव्यं व्यसनमहं शङ्के संभावयामि अत इदानीमहं किं करिष्यामि न किंचित्कर्तव्यं प्रतिभातीत्यर्थः । अतः व्यसने दुःखे ऽहं सर्वथा मग्नो ऽस्मि अहो सर्वेषां स्वजनानां दुःखमिदम् । ओदिति प्रकृतिभावाभावस्त्वार्षत्वात् ॥ ३।५७।१७ ॥
इतीति । वरारोहामिति चिन्ताहेतुसौन्दर्यातिशयोक्तिः ॥ ३।५८।१८ ॥
विगर्हमाण इति । आर्तरूपं सीतोक्त्या रामोक्त्या च प्राप्तातिदुःखवत्तया दुःखस्वरूपम् अनुजं लक्ष्मणं विगर्हमाणः क्षुदादिना शुष्कमुखः तत्त्वेन प्रतीयमानः विनिःश्वसन् रामः प्रतिश्रयम् आश्रमसमीपदेशं प्राप्य शून्यं सीतारहितं समीक्ष्य अत एव स्वमाश्रमं प्रविगाह्य अन्वीक्ष्य तत्रापि सीतामदृष्ट्वेत्यर्थः, कांश्चित्स्वैकज्ञातान् विहारदेशान् सीताविहारस्थलानि अनुसृत्य तानपि शून्यान् समीक्ष्य तत् सीताविहारस्थलम् एतदेवेत्युक्त्वेति शेषः, निवासभूमौ स्वनिवासस्थले प्रहृष्टरोमा उद्गतरोमावलिः सन् व्यथितो बभूव । श्लोकद्वयमेकान्वयि ॥ ३।५८।१९२० ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे ऽष्टपञ्चाशः सर्गः ॥ ३।५८ ॥