सीताहरणप्रसङ्गं समाप्य मारीचवधोद्देश्यकगमनकर्तृरामवृत्तान्तमाह–राक्षसमित्यादिभिः । कामरूपिणम् अत एव मृगरूपेण चरन्तं मारीचं पथि निहत्य रामः तूर्णं निवर्तत न्यवर्तत ॥ ३।५७।१ ॥
तस्येति । मैथिलीं द्रष्टुकामस्य अत एव संत्वरमाणस्य तस्य प्रसिद्धस्य अस्य रामस्य पृष्ठतः पश्चाद्देशे क्रूरस्वनो गोमायुः शृगालः विननाद ॥ ३।५७।२ ॥
स इति । तस्य गोमायोः रोमहर्षणं स्वरं दारुणकर्मसूचकम् आज्ञाय निश्चित्य स्वरेण स्वशब्दानुकारकमारीचस्वनेन परिशङ्कितः स रामश्चिन्तयामास ॥ ३।५७।३ ॥
चिन्ताकारमाह–अशुभमिति । यतः गोमायुर्वाशते शब्दायति अतः राक्षसैर्भक्षणं विना राक्षसकर्तृकभक्षणातिरिक्तम् अशुभं यथा यथावत् मन्ये वैदेह्या वैदेह्यै अपि खस्ति स्यात्
एतदशुभानन्तरं शुभं भवेत् । संभावनार्थको ऽपि ॥ ३।५७।४ ॥
ननु लक्ष्मणस्य तत्र सत्त्वात् कथं सीताया अशुभशङ्केत्यत आह–मारीचेनेति । मृगरूपेण मारीचेन आलक्ष्य सीताया अशुभसंपादकं यत्नं चिन्तयित्वा विज्ञाय निश्चित्य च यदि मामकं मत्स्वरसदृशं स्वरं विक्रुष्टम् उच्चारितं तर्हि लक्ष्मणः शृणुयात् ॥ ३।५७।५ ॥
ननु किं श्रवणेनेत्यत आह–स इति । सौमित्रिः स लक्ष्मणः स्वरं मत्स्वरसदृशस्वनं श्रुत्वा तया मैथिल्या प्रहितः प्रेरितः अत एव तां रक्षणीयां मैथिलीं हित्वा क्षिप्रं शीघ्रम् इहास्मिन् समये मत्सकाशं मत्समीपमेष्यति ॥ ३।५७।६ ॥
ननु किं तदागमनेनेत्यत आह–राक्षसैरिति । सहितैः संघीभूतैः राक्षसैः सीताया वधः ईप्सितः नूनं निश्चितमेतत् अत एव राक्षसो मारीचः काञ्चनो मृगो भूत्वा आश्रमात् मां व्यपनीय प्रस्थाप्य दूरं नीत्वा शराहतः मद्ब्राणताडितो ऽभूत् अथ अनन्तरं हा लक्ष्मण हा सीतेति यद्वाक्यं व्याजाहर तेन वाक्येन मया रहिताभ्यां द्वाभ्यां सीतालक्ष्मणाभ्यां स्वस्ति भवेत् काक्वा नेत्यर्थः, हि यतः जनस्थाननिमित्तं जनस्थानस्थहतराक्षसार्थं राक्षसैः अशिष्टरक्षोगणैः कृतः वैरो ऽहमस्मि अत एव अद्य बहूनि घोराणि उग्राणि निमित्तानि भविष्यदशुभसूचकघोरस्वनादीनि दूश्यन्ते अनुभूयन्ते । सार्धश्लोकत्रयमेकान्वयि ॥ ३।५७।७९ ॥
इतीति । एवं गोमायुनिःस्वनं श्रुत्वा इति स्वनं चिन्तयन् रामः त्वरितः त्वरया विशिष्टः निवर्तमानश्च सन् आश्रमं जगाम । अर्धद्वयमेकान्वयि ॥ ३।५७।१० ॥
आत्मन इति । मृगरूपेण रक्षसा यस्मात् जनस्थानात् आत्मनो ऽपनयनं दूरमपकर्षणं तज्जनस्थानं परिशङ्कितो राघवः आजगाम ॥ ३।५७।११ ॥
तमिति । दीनमानसम् अनुमितसीतादुःखेन खिन्नान्तःकरणाम् अत एव दीनं कृशशरीरत्वेन प्रतीयमानं महात्मानं तं रामं सव्यं कृत्वा मृगपक्षिणः आसेदुः प्रापुः घोरान् स्वरांश्च ससृजुः चक्रुः ॥ ३।५७।१२ ॥
तानीति । राघवः तानि निमित्तानि दृष्ट्वा विगतप्रभमायान्तं ततः तं लक्ष्मणं ददर्श, द्वितीयान्तात्तसिः ॥ ३।५७।१३ ॥
तत इति । ततो दर्शनानन्तरम् अविदूरे समीपे दुःखितः अत एव विषण्णः उदासीनचित्तः लक्ष्मणः सुविषण्णेन रामेण समीयाय संप्राप । अथ अनन्तरं भ्राता रामः विजने स्वजनरहिते वने सीतां विहायागतं लक्ष्मणं संजगर्हे । अर्धचतुष्टयमेकान्वयि ॥ ३।५७।१४१५ ॥
गर्हणप्रकारमाह–गृहीत्वेति । रघुनन्दनो रामः सव्यं वामं करं हस्तं गृहीत्वा मधुरोदकं माधुर्यवर्धकं परुषमिदं वचनमार्तवद्दुःखी इव लक्ष्मणमुवाच ॥ ३।५७।१६ ॥
तद्वचनाकारमाह–अहो इति । हे लक्ष्मण तां रक्षणीयां सीतां विहाय त्वमिहागतः तत्ते कृतं गर्ह्यं श्रोतृभिर्निन्द्यम् । तत्र हेतुः–हे सौम्य इह त्वया रहितसमये स्वस्ति सीताकल्याणं कच्चिद्भवेन्नेत्यर्थः ॥ ३।५७।१७ ॥
नेति । राक्षसैर्जनकात्मजा विनष्टा अदर्शनं प्रापिता अपहृतेत्यर्थः, भक्षिता वा संशयः अन्यतरत्र संदेहो न । तत्र हेतुः–हे वीर भूयिष्ठमधिकं यथा भवति तथा मे मदर्थमशुभानि प्रादुर्भवन्ति ॥ ३।५७।१८१९ ॥
अपीति । हे पुरुषव्याघ्र जीवन्त्याः जनकस्य सुतायाः सीतायाः सामग्र्यम् अविच्छिन्नावयवत्वं प्राप्नुयामहे अपि । अपिः संभावनार्थकः ॥ ३।५७।२० ॥
तदेव भङ्ग्यन्तरेणाह–यथेति । मृगसंघाः गोमायुश्च शकुनाः पक्षिणश्च काकादय इत्यर्थः, प्रदीप्तां सूर्याक्रान्तत्वेन प्रकाशितां दिशं सूर्याभिमुखमित्यर्थः, अभितः चतुर्दिक्षुभैरवं वाशन्ते अतः तस्याः सीतायाः स्वस्त्यपि भवेत् ॥ ३।५७।२१ ॥
इदमिति । मृगसन्निकाशं मृगाकृति कथंचित् मां प्रलोभ्य दूरमनुप्रयातम् अत एव महता श्रमेण उपलक्षितम् इदं रक्षः हतं म्रियमाणः स राक्षस एव अभूत् सर्वनाम्नामुद्देश्यविधेयान्यतरलिङ्गतेति न लिङ्गविरोधः ॥ ३।५७।२२ ॥
सीतापहरणे कारणान्तरमाह–मन इति । हे लक्ष्मण इह अस्मिन्समये मे सव्यं वामचक्षुः विकारं स्फुरणं कुरुते अत एव मे मनो दीनम् अत एव अप्रहृष्टं प्रहर्षाभाववत् अत एव सीता नास्ति अभावप्रतियोगिनी । ननु नित्यायाः कथमभावप्रतियोगिनीत्वमित्यत आह–अमृता नित्यापि सीता असंशयं यथा भवति तथा हृता सती पथ्येव वर्तते । एको वाशब्दो ऽप्यर्थे द्वितीय एवार्थे ॥ ३।५७।२३ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे सप्तपञ्चाशत्तमः सर्गः ॥ ३।५७ ॥