रावणवचनश्रवणानन्तरकालिकं वैदेहीवृत्तान्तमाह–सेत्यादिभिः । तथा उक्ता रावणेन कथिता वैदेही अन्तरतः मध्ये तृणं कृत्त्वा रावणं प्रत्यभाषत, तृणं कृत्वेत्यनेन रामविरोधित्वात् रावणस्य साक्षात्प्रति भाषणानर्हत्वं ध्वनितम् ॥ ३।५६।१ ॥
तत्प्रतिभाषणाकारमाह–राजेत्यादिभिः । यस्य पुत्रो राघवः स रामः स अचलो धर्मसेतुरिव वेदमर्यादापालक इत्यर्थः, अत एव सत्यसंधः सत्यप्रतिज्ञः अत एव परिज्ञातः सर्वत्र प्रसिद्धः दशरथो नाम राजा साकेते ऽस्तीति शेषः, एतेन ततो ऽपि त्वया भेतव्यमिति सूचितम् ॥ ३।५६।२ ॥
राम इति । यो लक्ष्मणेन भ्रात्रा सह ते प्राणान् वधिष्यति स दैवतं सर्वेषां देवता इक्ष्वाकूणां कुले जातो रामः मम पतिः । श्लोकद्वयमेकान्वयि ॥ ३।५६।३४ ॥
तव पलायनादेव एतावत्कालं प्राणाः सन्तीति बोधयन्ती आहप्रत्यक्षमिति । तस्य रामस्य प्रत्यक्षं बलात् यदि त्वया ऽहं प्रधर्षिता धृष्टतया हृता स्यामिति शेषः, तदा संख्ये संग्रामे खर इव जनस्थाने हतः सन् त्वं शयिता स्याः ॥ ३।५६।५ ॥
य इति । घोररूपा य एते राक्षसाः प्रोक्ताः गमनाय प्रेरितास्ते सर्वे राघवे रामसंन्निधौ सुपर्णे पन्नगा इव निर्विषा भविष्यन्तीति शेषः ॥ ३।५६।६ ॥
तस्येति । तस्य रामस्य ज्याविप्रमुक्ताः काञ्चनभूषणास्ते शराः गङ्गाकूलमूर्मयः इव शरीरं राक्षसदेहान् विधिष्यन्ति विध्मास्यन्ति विदारयिष्यन्ति ॥ ३।५६।७ ॥
असुरैरिति । यद्यपि असुरैः सुरभिन्नैः सुरैश्च त्वमवध्यो ऽसि तथापि तस्य रामस्य सुमहत् वैरमुत्पाद्य जीवन् सन् न मोक्ष्यसे तच्छरेभ्य इति शेषः ॥ ३।५६।८ ॥
स इति । ते जीवितशेषस्य उर्वरितजीवनस्य अन्तकरो विध्वंसको बली स रामो ऽस्ति यूपगतस्य पशोरिव तव जीवितं दुर्लभम् ॥ ३।५६।९ ॥
यदीति । स मद्भर्ता रामः यदि रोषदीप्तेन चक्षुषा त्वां पश्येत् तदा रुद्रेण मन्मथ इव त्वमद्यैव निर्दग्धो भवेः इति शेषः ॥ ३।५६।१० ॥
य इति । यो रामः चन्द्रं तदुपलक्षितसकलोर्ध्ववासिनः भूमौ पातयेत् नाशयेत वा यदीच्छेदिति शेषः, सागरं तदुपलक्षितसकलभुवनानि च शोषयेत् नाशयेत् स रामः इह प्राप्तामिति शेषः सीतां मोचयेत् मोचयिष्यत्येवेत्यर्थः ॥ ३।५६।११ ॥
गतासुरिति । त्वत्कृतेन त्वया संपादितेन अपहरणरूपकर्मणा गतासुत्वादिविशिष्टस्त्वमसीति शेषः, अत एव लङ्का वैधव्यसंयुक्ता त्वद्रूपधवरहिता भविष्यति ॥ ३।५६।१२ ॥
तेनेति । तेन रामस्यातिसामर्थ्यविशिष्टेन हेतुना इदमपहरणरूपं पापं कर्म दुःखोदर्कं दुःखवर्धकं भविष्यति ऽन तेऽ इतिपाठे काकुर्बोध्या अत एव या ऽहं पतिपार्श्वात् विनाभावं पतिसेवाराहित्यं बलात् हठात् नीता प्रापिता तां मां रामो नेष्यतीति शेषः ॥ ३।५६।१३ ॥
तदेव भङ्ग्यन्तरेणाह–स इति । देवरसंयुक्तो लक्ष्मणसहितः सः प्रसिद्धः निर्भयः यो मम भर्ता वीर्यम् अतिपराक्रममाश्रित्य संप्राप्य शून्ये मया रहिते दण्डके वसति सः रामः ते वीर्यं प्रभावं बलं पराक्रमं च दर्पं तयोर्मदं च तथाविधमुत्सेकम् अमर्यादाचरणं च शरवर्षेण गात्रेभ्यः स्थूलसूक्ष्मकारणशरीरेभ्यो ऽवयवेभ्यो वा व्यपनेष्यति दूरीकरिष्यति । ऽदैवतसंयुक्तःऽ इति पाठे दैवानुकूल्यवानित्यर्थ इति भट्टाः । श्लोकद्वयमेकान्वयि ॥ ३।५६।१४१५ ॥
तव विनाशो ऽवश्यं भवितेति बोधयन्ती आह–यदेति । कालवशं गताः नराः जन्तवः यदा कार्ये कर्तव्ये प्रमाद्यन्ति विवेकरहिताः भवन्ति तदा कालचोदितः भूतानां जन्तूनां विनाशः दृश्यते ॥ ३।५६।१६ ॥
मामिति । हे राक्षसाधम मां प्रधृष्य स्थितस्य ते तव आत्मनः पुत्रादेः राक्षसानां च अन्तःपुरस्य च वधाय विध्वंसाय सः प्रसिद्धो ऽयं कालः प्राप्तः अन्तःपुरविध्वंसस्तु तत्सधवात्वरूपविशेषणाभावप्रयुक्तः ॥ ३।५६।१७ ॥
ममानयनं त्वया ऽतीवानुचितं कृतमिति बोधयन्ती आह–नेति । स्रुग्भाण्डमण्डिता स्रुगादियागोपकरणैः शोभिता यज्ञमष्यस्था यागशालामध्यगता द्विजातिमन्त्रसंपूता ब्राह्मणोच्चारितमन्त्रैः संस्कृता वेदिः चण्डालेनावमर्दितुं संस्प्रष्टुं यथा न शक्या तथा धर्मनित्यस्य धर्मो धर्माचरणं नित्यं यस्य तस्य रामस्य दृढव्रता धर्मपत्नी अहं पापिना त्वया स्प्रष्टुं शक्या नास्मि । श्लोकद्वयमेकान्वयि ॥ ३।५६।१८१९ ॥
अनुचितत्वमेव रूपकालंकारेणाह–क्रीडन्तीति । पद्मखण्डेषु कमलवनेषु राजहंसेन सह नित्यशः क्रीडन्ती या हंसी राजहंसपत्नी सा तृणमध्यस्थं तृणेषु स्थितं मद्गुकं जलवायसं कथं द्रक्ष्येत पश्येत् । ऽनित्यदाऽ इति भूषणपाठः आर्षो दाप्रत्यय इति तद्व्याख्या ॥ ३।५६।२० ॥
ननु तव शरणमागतस्य मे रक्षा त्वयैव विधेयेत्यतो मद्विनाशो न भविष्यतीत्यत आह–इदमिति । निःसंज्ञं विवेकरहितम् इदं स्वकीयं शरीरं राक्षसदेहं बन्ध बधान घातयस्व वा । तत्र हेतुः–इदं तव शरीरं जीवितम् एतच्छरीरावच्छेदेन जीवनं च मे न रक्ष्यम् ॥ ३।५६।२१ ॥
ननु शरणागतरक्षणस्य महात्मनामावश्यकत्वात्कथं तन्निषिध्यते इत्यत आह–नेति । आत्मनः स्वस्य अपक्रोशं रामविरोधिनं सीता रक्षतीति निन्दां पृथिव्यां दातुं प्रख्यापयितुं नैव शक्ष्यामि । अर्द्धं पृथक्एवमिति । सुपरुषम् अतिरूक्षम् एवं वचः क्रोधात् रामविरोध्ययमिति रावणविषयककोपात् वैदेही जानकी उक्त्वा तत्र तस्मिन्समये पुनः किंचन नोवाच । अर्धद्वयमेकान्वयि ॥ ३।५६।२२ ॥
सीताया इति । परुषं सीतायाः वचनं श्रुत्वा ततः राक्षसत्वात् हेतोः भयसंदर्शनं वचः सीतां प्रत्युवाच रावण इति शेषः ॥ ३।५६।२३ ॥
तद्वचनाकारमाह–श्रृण्विति । हे मैथिलि द्वादशमासान् त्वां संप्रार्थ्येति शेषः, अनेन द्वादशमासात्मकेन कालेन मां लङ्कासंपत्तिं यदि नाभ्येषि प्राप्नोषि शोकं त्यक्त्वा लङ्काराज्यं न पालयसीत्यर्थः, तदा ततः मत्प्रार्थनाया अस्वीकारात् हेतोः सूदाः पाककर्तारः त्वां लेशशः छेत्स्यन्ति, एतेन सूदानां स्वविषयकातिभक्तिमत्वं व्यञ्जितम् । सार्धश्लोक एकान्वयी ॥ ३।५६।२४२५ ॥
इतीति । शत्रुरावणो रावण इति पुरुषं वाक्यमुक्त्वा ततः राक्षसत्वात् हेतोः क्रुद्धः सन् राक्षसीरिदमब्रवीत् ॥ ३।५६।२६ ॥
तद्वचनाकारमाह–शीघ्रमिति । हे मांसशोणितभोजना राक्षस्यः अस्याः सीताया दर्पं रामो ऽतीव बलवानित्यादिगर्वम् अपनेष्यन्तु अपनयन्तु मत्प्रभाववर्णनेन दूरीकुर्वन्तु । नमुने इत्यत्र नकारयोगविभागेन सपादसप्ताध्यायीं प्रति त्रिपादी क्वचिन्नासिद्धेतिकल्पनया यलोपस्यासिद्धत्वाभावेन दीर्घः, अस्येति सामान्ये नपुंसकं वा ॥ ३।५६।२७ ॥
वचनादिति । तस्य रावणस्य वचनाद्धेतोः घोरदर्शनास्ता राक्षस्यः कृतप्राञ्जलयो भूत्वा मैथिलीं पर्यवारयन् परितः बोधयितुम् अतिष्ठन् ॥ ३।५६।२८ ॥
स इति । सो ऽसौ रावणो राजा चरणोत्कर्षैः पादप्रक्षेपैर्मेदिनीं पृथ्वीं दारयन्निव प्रचल्य अशोकवनिकामध्ये मैथिली नीयतां तत्र गूढं यथा भवति तथा युष्माभिः परिवारिता इयं सीता रक्ष्यतां तत्र एनां मैथिलीं तर्जनादिभिः वन्यां गजवधूमिव विवशं स्वाधीनत्वमानयघ्वमिति घोरदर्शना राक्षसीः प्रोवाच । श्लोकत्रयमेकान्वयि ॥ ३।५६।२९३१ ॥
इतीति । रावणेन इति प्रतिसमादिष्टा राक्षस्यः मैथिलीं प्रतिगृह्य नानापुष्पफलैः अनेकविधैः पुष्पैः फलैश्च युक्तैः सर्वकामफलैः सर्वान् कामान् फलन्ति तैर्वृक्षैः कल्पतरुभिः सर्वकालमदैः सर्वकालमदविशिष्टैः द्विजैः पक्षिभिश्च समुपसेविताम् अशोकवनिकां जग्मुः । श्लोकद्वयमेकान्वयि ॥ ३।५६।३२३३ ॥
सेति । शोकपरीताङ्गीं सा मैथिली व्याघ्राणां वशं हरिणीव राक्षसीवशमापन्ना प्राप्ता ॥ ३।५६।३४ ॥
शोकेनेति । महता शोकेन ग्रस्ता भीरुर्जनकात्मजा पाशबद्धा मृगीव शर्म सुखं न लभते लेभे ॥ ३।५६।३५ ॥
तदेव भङ्ग्यन्तरेणाह–नेति । विरूपनेत्राभिर्विकृतानि रूपाणि नेत्राणि च यासां ताभिः राक्षसीभिः अतीव तर्ज्जिता भयशोकपीडिता मैथिली दयितं पतिं देवरं च स्मरन्ती सती विचेतना ऽभूत् अत एव तत्र अशोकवाटिकायां शर्म सुखं न विन्दते अविन्दत ॥ ३।५६।३६ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे षट्पञ्चाशत्तमः संर्गः ॥ ३।५६ ॥