रावणवृत्तान्तमाह–संदिश्येत्यादिभिः । रावणः महाबलान् अष्टौ राक्षसान् संदिश्य बुद्धिवैक्लव्यात् बुद्धेर्नाशात् हेतोः आत्मानं कृतकृत्यम् अमन्यत ॥ ३।५५।१ ॥
स इति । कामबाणैः नानामनोरथरूपशरैः प्रपीडितः वैदेहीं चिन्तयानः स रावणः सीतां द्रष्टुमभित्वरन् सन् रम्यं गृहं प्रविवेश ॥ ३।५५।२ ॥
स इति । स प्रसिद्धो रावणः तत्सीताधिष्ठितं वेश्म प्रविश्य दुःखपरायणां रामवियोगजनितदुःखाक्रान्तां सीतां राक्षसीमध्ये अपश्यत् ॥ ३।५५।३ ॥
सीतामेव विशेषयन्नाह–अश्र्विति । शोकभारावपीडिताम् अतिशोकाक्रान्तामित्यर्थः, अत एव अश्रुपूर्णमुखीम् अत एव वायुवेगैराक्रान्ताम् अर्णवे मजन्तीं नावमिव मृगयूथपरिभ्रष्टां श्वभिः कुक्कुरैः आवृतां मृगीमिव दीनाम् अधोगतमुखीं तां सीताम् अभ्येत्य तत्समीपं प्राप्य अतिष्ठदिति शेषः । श्लोकद्वयमेकान्वयि ॥ ३।५५।४५ ॥
तामिति । शोकवशाम् अत एव दीनाम् अवशां गृहदर्शनमनिच्छन्तीं तां सीतां देवगृहोपमगृहं स रावणो बलाद्दर्शयामास ॥ ३।५५।६ ॥
तद्गृहमेव वर्णयन्नाह–हर्म्येति । हर्म्यप्रासादसंबाधं हर्म्यैः साधारणगृहैः प्रासादैः राजगृहैश्च संबाधं निबिडं दान्तकैः हस्तिदन्तनिर्मितैः तापनीयैः तपनीयं सुवर्णं तन्निर्मितैः वज्रवैदूर्यचित्रैः अत एव दृष्टिमनोरमैः स्तम्भैः संयुक्तमिति शेषः, दिव्यदुन्दुभिनिर्घोषं दिव्यदुन्दुभीनां निर्घोषः शब्दो यस्मिँस्तत्व तप्तकाञ्चनतोरणं तप्तकाञ्चनमयानि तोरणानि यस्मिन् तद्गृहं दर्शयितुमिति शेषः, काञ्चनं स्वर्णमयं चित्रं तया सह आरुरोह । श्लोकत्रयमेकान्वयि ॥ ३।५५।७९ ॥
दान्तका इति । तत्र तस्मिन् गृहे दान्तकादयो गवाक्षा आसन् हेमजालावृताः पक्ष्यागमननिवारणाय हेममयैर्जालैः संयुक्ताः अत एव प्रियदर्शनाः प्रासादपङ्क्तयश्चासन् तत्र स्वभवने सर्वशः भूमिभागानि भूमिभागाः सुधामणिविचित्राणि सुधाभिर्मणिभिश्च विचित्राव्यासन् तानि दशग्रीवः मैथिलीं प्रादर्शयत । श्लोकद्वयमेकान्वयि ॥ ३।५५।१०११ ॥
दीर्घिका इति । दीर्घिकाः वापीः नानापुष्पसमावृताः पुष्करिण्यः पुष्करं जलमस्ति यासु ताः सरस्य आर्षत्वाद्द्वितीयार्थे प्रथमा शोकपरायणां सीतां रावणो दर्शयामास ॥ ३।५५।१२ ॥
स इति । सीतां लोभितुं भवनविषयकलोभमुत्पादयितुं कृत्स्नं सकलं तत् प्रसिद्धं भवनोत्तमं दर्शयित्वा पापात्मा रामखेदोत्पादनरूपपापविषयकप्रयत्नवान् रावणः उवाच ॥ ३।५५।१३ ॥
तद्वचनाकारमाह–दशेति । दश अपराः द्वाविंशतिश्च राक्षसकोट्यः सन्तीति शेषः, भीमकर्मणां तेषामहं प्रभुः । तेषामित्यनेन विशेषणीभूतस्य परामर्शः अथशब्दानुशासनम् केषां शब्दानामित्यादौ तथा दर्शनात् ॥ ३।५५।१४ ॥
वर्जयित्वेति । वृद्धान् बालांश्च रजनीचरान् जनान् वर्जयित्वा विद्यमानम् एकस्य मम एकं सहस्रं कार्यपुरस्सरं परिचारको ऽस्तीति शेषः ॥ ३।५५।१५ ॥
यदिति । हे विशालाक्षि यतस्त्वं मे प्राणैः प्राणेभ्यो ऽपि गरीयसी असि अतः मे यदिदं राजतन्त्रं जीवितं च तत्सर्वं त्वयि प्रतिष्ठितं तुभ्यं समर्पितं त्वदधीनीकृतमित्यर्थः ॥ ३।५५।१६ ॥
बह्वीनामिति । हे सीते भार्या अतिशोभावती त्वं बह्वीनां तासां प्रसिद्धानां ममोत्तमस्त्रीणां मम चेश्वरी पूज्या भव । एतेनात्रैव भवत्या स्थातव्यमिति व्यञ्जितं तेन रामचिन्तां त्यजेति । ध्वनितम् ॥ ३।५५।१७ ॥
ननु रामं विना ऽहं न स्थास्यामीत्यत आह–साध्विति । साधु स्वहितं मम वचो रोचयस्व अन्यथा रामविषयिण्या बुद्ध्या ते किं न किमपीत्यर्थः, अत एव स्वमा मम नित्यमाता त्वं भज सेवां कारय अतितप्तस्य भ्रात्रादिवधेन पीडितस्य मम प्रसादं प्रसन्नतां कर्तुं त्वमर्हसि ॥ ३।५५।१८ ॥
ननु रामो मां बलान्नेष्यत्येवेत्यत आह–परीति । यतः शतयोजनेयं लङ्का समुद्रेण परिक्षिप्ता परिवृता अतः सेन्द्रैः स्वस्वस्वामिसहितः सुरासुरैः प्रधर्षयितुं न शक्या ॥ ३।५५।१९ ॥
लङ्कायाः धर्षणाशक्यत्वं संवर्ण्य स्वस्यापि धर्षणाशक्यत्वमाह–नेति । यो मे वीर्यसमो भवेत् तं देवादिष्वहं न पश्यामि ॥ ३।५५।२० ॥
रामविषयकविरक्तिमुत्पादयन्नाह–राज्येति । राज्यभ्रष्टेन अत एव अल्पतेजसा रामेण किं करिष्यसि एतेन रामर्तृकराज्यप्राप्त्यनन्तरं तत्संगमः कर्तव्य इति व्यञ्जितम् ॥ ३।५५।२१ ॥
भजस्वेति । हे सीते तव भर्ता रामः हमिदानीं सदृशः तव पालनयोग्यः अतः इह अस्मिन् समये मां लङ्कासंपत्तिमेव भजस्व तु अनन्तरं रामराज्यप्राप्तावित्यर्थः, मया माम् अयोध्यासंपत्तिम् अयति प्राप्नोति ते न रामेण सह रमस्व रंस्यसे इत्यर्थः । तत्र हेतुः–यौवनं तव ध्रुवं नित्यम् एतेनेदानीं रामसमीपगमनयोग्यता तव नास्तीति सूचितम् हमित्यव्ययम् अध्रुवमित्यत्रत्योकारः निषेधार्थको ऽव्ययपठितः स च सदृशान्वयी ॥ ३।५५।२२ ॥
ददर्श इति । इह अस्मिन्समये राघवस्य दर्शने बुद्धिं मा कृथाः । ननु स आगत्य मां नेष्यतीत्यत आह–अस्य रामस्य इहागन्तुं मनोरथैः मनोव्यापारैरपि का शक्तिः न शक्तिरित्यर्थः ॥ ३।५५।२३ ॥
नेति यथा ऽ ऽकाशे महाजवो वायुः पाशैः रज्जुभिर्बद्धुं त्रयाणामपि लोकानां न शक्यः दीप्यमानस्य अग्नेः विमलाः शिखाश्च ग्रहीतुं न शक्याः बन्धकं ग्रहीतारं च न पश्यामीत्यर्थः, तथा मद्बाहुपरिपालितां विक्रमेण यस्त्वां नयेत् तं त्रयाणामपि लोकानां मध्ये न पश्यामि । श्लोककद्वयमेकान्वयि ॥ ३।५५।२४२५ ॥
लङ्कायामिति । लङ्कायां स्थिता त्वम् इदं मदीयं सुमहद्राज्यमनुपालय, एतेन त्वत्सेवको ऽहं भविष्यामीति सूचितम् । अत एव मद्विधाः ये राक्षसाः देवाश्च चराचरं सर्वं जगच्च त्वत्प्रेष्याः त्वद्भृत्याः भविष्यन्तीति शेषः ॥ ३।५५।२६ ॥
अभिषेकेति । अभिषेकजलक्लिन्ना अभिषेकजलैः स्नानोदकैः क्लिन्ना स्नाता तुष्टा लङ्का राज्यप्राप्त्या प्राप्तसंतोषा च त्वं मां लङ्कासंपत्तिं रमयस्व यथेच्छं पालयस्व इत्यर्थः, एतेनापहरणसमयादारभ्य तावत्कालपर्यन्तं स्नानं तया न कृतमिति सूचितम् । अर्धं पृथक् दुष्कृतमिति । पुरा पौर्वकालिकं यत् दुष्कृतं ते कर्म तद्वनवासेन गतं यच्च ते सुकृतं कर्म तस्य फलम् इह इदानीम् आप्नुहि ॥ ३।५५।२७ ॥
इहेति । मया राज्यसंपत्त्या सह सर्वाणि अनेकविधानि यानि माल्यादीनि तानि सेव सेवस्व ॥ ३।५५। २८ ॥
पुष्पकमिति । सूर्यसंकाशं पुष्पकं नाम मे भ्रातुः वैश्रवणस्य विमानं तरसा अतिबलेन मया निर्जितं तद्विमानं विशालं मनोजवं चास्तीति शेषः ॥ ३।५५।२९३० ॥
तत्रेति । मया राज्यसंपत्त्या सार्धं विद्यमाने तत्र तस्मिन् विमाने यथासुखं विहरस्व । अर्धं पृथक्वदनमिति । शोकार्तं ते वदनं न भ्राजति प्रकाशते एतेन शोकं त्यजेति व्यञ्जितम् ॥ ३।५५।३१ ॥
एवमिति । तस्मिन् रावणे एवं वदति सति वस्त्रान्तेन इन्दुनिभं मुखं पिधाय विद्यमाना सीता अश्रूणि अवर्तयत् ॥ ३।५५।३२ ॥
ध्यायन्तीमिति । ध्यायन्तीं राममिति शेषः, चिन्ताहतप्रभामिव चिन्ताकर्तृकहतप्रभासदृशीम् अस्वस्थां सीतां रावणो वचनमुवाच ॥ ३।५५।३३ ॥
तद्वचनाकारमाह–अलमिति । हे देवि आर्षः ऋषिभिः प्रोक्तः निष्यन्दः अचलः यो ऽयं व्रीडः पत्यादिसंनिधाने लज्जा त्वामभिभविष्यति अभिभवति तेन धर्मलोपकृतेन मातृत्वरूपधर्मविध्वंसकेन व्रीडेन लज्जया अलं न कार्य इत्यर्थः ॥ ३।५५।३४ ॥
सीताविषये आत्मभावं बोधयन्नाहएताविति । यतस्ते दासः अत एव वश्यो ऽहमस्मि अतः स्निग्धौ एतौ भवत्याः पादौ मया शिरोभिः परिपीडितौः अतः मे मदुपरि प्रसादं प्रसन्नतां कुरु ॥
४।५५।३५ ॥
इमा इति । शुष्यमाणेन भ्रातृशोकपरिपीडितेन मया शून्याः मत्प्रार्थितानङ्गीकारेण फलरहिता इमा वाचो भाषिताः ॥ ३।५५।३६ ॥
सीतायां मे भातृत्वबुद्धिर्दृढेत्यत्र हेतुं वदन्नाह–नेति । काञ्चित् साधारणां मातृभिन्नामित्यर्थः, स्त्रीं रावणो न प्रणमेत ह प्रसिद्धमेतत् । अर्धं पृथक्एवमिति । कृतान्तवशं रामविरोधसंपादनज्ञाप्यकालवशम् आपन्नः प्राप्तो दशग्रीवः मैथिलीमेवमुक्त्वा ममेयं वशेति शेषः इति मन्यते ॥ ३।५५।३७ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे पञ्चपञ्चाशत्तमः सर्गः ॥ ३।५५ ॥