सीतावृत्तान्तमाह–खमित्यादिभिः । खरकाशमुत्पतन्तं भीमाक्षं राक्षसाधिपं तं रावणं दृष्ट्वा महति वर्तिनी अत एव दुःखिता प्राप्तखेदा अत एव परमोद्विग्ना अत्युद्विग्नचित्ता अत एव रोषरोदनताम्राक्षी रोषरोदनेन रावणविषयककोपहेतुकाश्रुविमोकेन ताम्रे अरुणे अक्षिणी यस्य सा ह्रियमाणा सीता करुणं रुदती सती तं रावणमब्रवीत् । श्लोकद्वयमेकान्वयि ॥ ३।५३१२ ॥
तद्वचनाकारमाहनेत्यादिभिः । हे नीच विरहितां वरामलक्ष्मणाभ्यो विहीनां मां चोरयित्वा यस्त्वं पलायसे स त्वम् अनेन अपहरणरूपेण कर्मणा न व्यपत्रपसे जिहेषि ॥ ३।५३।३ ॥
त्वयेति । हे दुष्टात्मन् भीरुणा त्वयैव मम भर्ता मृगरूपेण राक्षसविशेषेण अपवाहितः ॥ ३।५३।४ ॥
य इति । मम श्वशुरस्य पुराणो वृद्धः सखा यो मां त्रातुम् उद्यतो गृध्रराजः सो ऽप्ययं विनिपातितः । एतेन स्वरक्षकाभावयुक्तः सीतायाः पश्चात्तापः सूचितः । पुराणो हत इत्यनेनाहं बलवानिति गर्वस्त्वया न कार्य इति ध्वनितम् ॥ ३।५३।५ ॥
परममिति । हे राक्षसाधम नामधेयं विश्राव्य श्रावयित्वा युद्धे रामलक्ष्मणसंग्रामे त्वया न जिता ऽस्मि अतस्ते वीर्यं पराक्रमः परमं दृश्यते, एतेन त्वं चोर एव न पराक्रमवान् इति सूचितम् ॥ ३।५३।६ ॥
ईदृशामिति । रहिते पत्यादिशून्यदेशे परस्य स्त्रियाः आहरणम् ईदृशम् इदं गर्हितं कर्म कृत्वा कथं न लज्जसे ॥ ३।५३।७ ॥
कथयिष्यन्तीति । सुनृशंसम् अतिक्रूरम् अधर्मिष्ठम् अत्यधर्मं शौण्डीर्यमानिनः अहं शूर इति गर्ववतस्तव कर्म पुरुषाः कुत्सितं कथयिष्यन्ति अतः कुलाक्रोशकरं पुलस्त्यवंशनिन्दासंपादकम् ईदृशं ते चारित्रम् आचरितं धिक् अत एव तदा अपहरणात् पूर्वकाले त्वया कथितं यत् शौर्यं स्वशूरता सत्त्वं स्वबलं च तत् धिक् । श्लोकद्वयमेकान्वयि ॥ ३।५२।८९ ॥
ननु क्वा ऽस्ति राम इत्यत आह–किमियत् यस्माद्धेतोः जवेन वेगेनैव त्वं धावसि अतः मया किं कर्तुं शक्यं दूरस्थं रामं कथं प्रदर्शयेयमित्यर्थः । ननु किं तद्दर्शनेनेत्यत आह–त्वं मुहूर्तमपि तिष्ठ मुहूर्तमात्रेणा ऽ ऽगमिष्यतीत्यर्थः, ततः जीवँस्त्वं न प्रतियास्यसि ॥ ३।५३।१० ॥
तदेव भङ्ग्यन्तरेणाह–नहीति । तयोः रामलक्ष्मणयोः चक्षुष्पथं प्राप्य ससैन्यस्त्वं मुहूर्तमपि जीवितुं न समर्थः ॥ ३।५३।११ ॥
नेति । तयोः रामलक्ष्मणयोः शरस्पर्शं सोढुं वने प्रज्वलितस्याग्नेः स्पर्शं विहङ्गम इव कथञ्चनापि न शक्तः समर्थो ऽसीति शेषः ॥ ३।५३।१२ ॥
साध्विति । हे रावण यदि त्वं मां न मुञ्चसि तर्हि मत्प्रधर्षणसंक्रुद्धः मदपहरणहेतुकसंप्राप्तकोपो मम पतिः भ्रात्रा सह विनाशाय त्वद्विध्वंसाय विधास्यति उपायमिति शेषः । अतः आत्मनः पथ्यं हितं साधु कृत्वा संचिन्त्येत्यर्थः, साधु यथा स्यात्तथा मां मुञ्च । सार्धश्लोक एकान्वयी ॥ ३।५३।१३ ॥
येनेति । येन रामो मद्वशं प्राप्स्यतीत्येतद्विषयकेन व्यवसायेन मां हर्तुं त्वमिच्छसि स ते व्यवसायः निरर्थकः निष्प्रयोजनो भविष्यति हि यतः भर्तारमपश्यन्ती शत्रुवशगा ऽहं प्राणान् ते जीवनं चिरं धारयितुं नोत्सहे एतेन तूर्णमेव रामस्त्वां हनिष्यतीति सूचितम् । अर्धचतुष्टयमेकान्वयि ॥ ३।५३।१४१५ ॥
नेति । आत्मनः श्रेयः कल्याणसाधकं पथ्यं परिणामतः सुखप्रदं मम वचः त्वं न समवेक्षसे शृणोषि एतेन परमात्मेच्छायाः प्राबल्यं सूचितम् । अर्धं पृथक् ॥ ३।५३।१६ ॥
मृत्युकाल इति । मृत्युकाले मरणसमये सन्निहिते सति सर्वेषां मुमूर्षूणां यत्पथ्यं तन्न रोचते अत एव मर्त्यो विपरीतानि यथा यथावत् सेवते एतेन तव मृत्युः समीपं प्राप्त इति ध्वनितम् ॥ ५३।१७ ॥
पश्यामीति । कण्ठे कालपाशवपाशितं कालपाशबद्धं त्वामिह अस्मिन् समये पश्यामि अत एव भयस्थाने भीतिभवने अस्मिन् अपहरणे त्वं न बिभेषि ॥ ३।५३।१८ ॥
व्यक्तमिति । त्वं महीरुहान् हिरण्मयान् पश्यसि रुधिरौघविवाहिनीमत एव घोरां वैतरणीं च पश्यसि व्यक्तं तव मरणसूचकाचरणेन स्फुटम् अत एव खड्गपत्रवनं पश्यसि तप्तकाञ्चनपुष्पां तप्तचामीकरपुष्पविशिष्टां वैदूर्यप्रवराः परिच्छदाः पत्राणि यस्याः ताम् आयसैः लोहमयैः कण्टकैः चितां व्याप्ताम् अत एव तीक्ष्णां शाल्मलीं वृक्षविशेषं च द्रक्ष्यसे एतेन मृत्युस्ते समागत इति सूचितम् । सार्धश्लोकद्वयमेकान्वयि ॥ ३।५३।१९२० ॥
तत्र हेतुमाह–नहीति । महात्मनस्तस्य रामस्य ईदृशमलीकमपराधं कृत्वा विषं पीत्वेव धरितुं धर्तुं प्राणानिति शेषः, नैव शक्ष्यसि ॥ ३।५३।२१ ॥
बद्ध इति । महात्मनो मम भर्तुरपराधं कृत्वेति शेषः क्व गतः सन् शर्म कल्याणं लप्स्यसे प्राप्स्यसि न क्वापीत्यर्थः अत दुर्निवारेण कालपाशेन त्वं बद्धो ऽसि ॥ ३।५३।२२ ॥
तदेव द्रढयन्नाह–निमेषेति । भ्रातरं विना एकाकिनेत्यर्थः, येनाहवे संग्रामे चतुर्दश सहस्राणि राक्षसाः निमेषान्तरमात्रेण निहताः स वीरो राघवः इष्टभार्यापहारिणं त्वां तीक्ष्णैः शरैः कथं न हन्यात् हन्यादेवेत्यर्थः । अर्धचतुष्टयमेकान्वयि ॥ ३।५३।२३२४ ॥
एतदिति । रावणाङ्कगा रावणस्याङ्कगतिं सामर्थ्यमित्यर्थः, गच्छति जानाति सा वैदेही एतदन्यच्च परुषमुक्त्वा भयशोकसमाविष्टा सती करुणं विललाप ॥ ३।५३।२५ ॥
तदेति । भृशार्तामतिदुःखिताम् अत एव विलापपूर्वं करुणं यथा भवति तथा बहुभाषिणीम् अत एव विचेष्टतीम् अनेकविधचेष्टावतीम् अत एव आगतरौद्रवेपथुं भामिनीं तरुणीं नृपात्मजां पापो रावणो जहार ॥ ३।५३।२६ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे त्रिपञ्चाशत्तमः सर्गः ॥ ३।५३ ॥