जटायुनिपातानन्तरकालिकं सीतावृत्तान्तरमाह–सेत्यादिभिः । ताराधिपमुखी चन्द्रवदना सा सीता रावणेन निहितं गृध्रराजं तं जटायुषं निरीक्ष्य सुदुःखिता सती विललाप ॥ ३।५२।१ ॥
विलापाकारमाह–निमित्तमित्यादिभिः । नराणां सुखदुःखेषु प्राप्स्यमाणेष्विति शेषः निमित्तं सुखदुःखसूचकदक्षिणवामनेत्रस्फुरणादिलक्षणम् आदर्शादौ स्वशिरसो ऽदर्शनं स्वप्नम् कृष्णदन्तादिविशिष्टकृष्णपुरुषदर्शनादि शकुनिदर्शनं पक्ष्यादीनां वामदक्षिणमार्गेण गमनविशेषानुभवः स्वरदर्शनं तेषां शब्दानुभवः परिदृश्यते भवति एतेन निमित्तादयो ऽवश्यं भवद्भिर्दृष्टा भवेयुरिति सूचितम् ऽलक्षणज्ञानम्ऽ इति पाठान्तरम् ॥ ३।५२।२ ॥
नेति । हे राम हे काकुत्स्थ मदर्थं मद्व्यसनसूचनार्थं मृगपक्षिणो धावन्ति अतो ऽपि आत्मनः स्वस्य प्राप्तं महद्व्यसनं न जानासि निमित्तदर्शनादिना निश्चिनोषि नूनं किं कारणमत्र ।
एकं नूनमित्यतो ऽपीत्यर्थे ऽकाकुत्स्थम्ऽ इति भूषणपाठः ॥ ३।५२।३ ॥
ननु त्वद्रक्षणार्थं जटायुर्नियोजितः इति कथं त्वां व्यसनं प्राप्तमित्यत आह–अयमिति । मां त्रातुं पापाचारेण रावणेन सह सङ्गतः युद्धार्थं प्राप्तः अयं विहङ्गमः ममाभाग्यात् विनिहतः सन् भूमौ शेते ॥ ३।५२।४ ॥
त्राहीति । सुसंत्रस्ता वराङ्गना सीता अन्तिके समीपे देवादीनां श्रृण्वतां सतां हे काकुत्स्थ अद्य मां यथा यथावत् त्राहि इति समाक्रन्दत् ॥ ३।५२।५ ॥
तामिति । क्लिष्टानि विबाधितानि माल्याभरणानि यस्याः सा ताम् अत एव अनाथवत् विलपन्तीं वैदेहीं रावणो ऽभ्यधावत ॥ ३।५२।६ ॥
तामिति । महाद्रुमान् आलिङ्गन्तीम् अत एव लतामिव वेष्टन्तीं तां सीतां मुञ्चमुञ्चेति वदन्निति शेषः राक्षसाधिपः प्राप सीतासमीपमगच्छत् ॥ ३।५२।७ ॥
क्रोशन्तीमिति । रामेण रहिताम् अत एव रामरामेति क्रोशन्तीं सीताम् अन्तकसन्निभो रावणः जीवितान्ताय स्वजीवनविध्वंसाय केशेषु जग्राह ॥ ३।५२।८ ॥
प्रधर्षितायामिति । वैदेह्यां प्रधर्षितायाम् रावणेन पराभूतायामिव सचराचरं सर्वं जगत् अन्धेन गाढेन तमसा अन्धकारेण संवृतम् आच्छादितम् एतेन सूर्यचन्द्रमसास्तारागणादीनां च तेजोरहितत्वं सूचितम् तेन सर्वेषां शोकातिशयः सूचितः तेन रावणविध्वंसो न भविष्यतीति शोके हेतुर्व्यञ्जितः तेन रावणस्य बलातिशयो व्यक्तः अत एव अमर्यादम् अत्याश्चर्यदर्शनेन स्वस्वस्वभावरहितं बभूव प्रधर्षिताशब्दः आचारक्विबन्तप्रकृतिककर्तृक्विबन्तः ॥ ३।५२।९ ॥
तदेव स्पष्टयन्नाह–नेति । तत्र तस्मिन्समये मारुतो वायुर्न वाति दिवाकरः सूर्यः निष्प्रभो ऽभूत् । अर्धं पृथक्–दृष्ट्वेति । देवो देवदेवः पितामहो ब्रह्मा दिव्येन चक्षुषा सीतां परामृष्टां शत्र्वपहृतां दृष्ट्वा कार्यं राक्षसध्वंसरूपदेवकृत्यं कृतं रामेण सम्पादितमिति व्याजहार कथयामास ॥ ३।५२।१० ॥
प्रहृष्टा इति । दण्डकारण्यवासिनः सर्वे ते परमर्षयः सीतां परामृष्टां शत्र्वपहृतां दृष्ट्वा रावणस्य विनाशं बुद्धा निश्चित्य प्रहृष्टाः अतिहर्षं प्राप्ताः व्यथिताः सीताक्लेशदर्शनेन प्राप्तदुःखाश्चासन् ॥ ३।५२।१११२ ॥
स इति । स रावणस्तु राम रामेति लक्ष्मणेति च रुदन्तीं तां सीताम् आदाय आकाशं जगाम ॥ ३।५२।१३ ॥
तप्तेति । तप्ताभरणवर्णाङ्गी तप्तं प्रतप्तं यदाभरणम् जाम्बूनदभूषणं तस्य वर्णसदृशवर्णविशिष्टमङ्गं यस्याः सा पीतकौशेयवासिनी राजपुत्री सीता सौदामिनी सुदामापर्वतविशेषोद्भवा विद्युदिव रराज शुशुभे एतेन रावणे दुष्टभावाभावः सूचितः ॥ ३।५२।१४ ॥
उद्धूतेनेति । उद्धूतेन वातप्रचलितेन पातेन तस्याः सीतायाः वस्त्रेण अग्निना दीप्तो गिरिरिव रावणो ऽधिकं परिबभ्राज ॥ ३।५२।१५ ॥
तस्या इति । परमकल्याण्यास्तस्याः सीतायाः सुरभीणि शोभनगन्धविशिष्टानि ताम्राणि अरुणानि पद्मपत्राणि रावणमभ्यकीर्यन्त ॥ ३।५२।१६ ॥
तस्या इति । आकाशे उद्धूतं कनकप्रभं तस्याः कौशेयम् आतपे ईषत्तपे संध्याकाले इत्यर्थः, आदित्यरागेण ताम्रमरुणमभ्रमिव बभौ ॥ ३।५२।१७ ॥
तस्या इति । रावणाङ्कगं विमलं तस्याः वक्रं रामं विना विनालं नालरहितं पङ्कजमिव न रराज ॥ ३।५२।१८ ॥
बभूवेति । सुललाटं शोभनलाटविशिष्टं पद्मगर्भाभं पद्मगर्भसदृशम् अव्रणं विस्फोटकादिहेतुकव्रणरहितं शुक्लैः श्वेतैः सुविमलैः स्वच्छैः प्रभावद्भिः प्रभाविशिष्टैः दन्तैरलङ्कृतं सुनयनं शोभननेत्रविशिष्टं रावणाङ्कगं सुकेशान्तं शोभनकेशपर्यन्तं तस्याः वक्रं मुखं नीलं जलदं मेघं भित्त्वोदितः चन्द्र इव बभूव । श्लोकद्वयमेकान्वयि ॥ ३।५२।१९२० ॥
रुदितमिति । रुदितं रोदनसूचकाकृतिविशिष्टं किं च रुदो रोदनं जातमस्येति तत् अत एव व्यपमृष्टास्रं प्रमृष्टाश्रु चन्द्रवत्प्रियदर्शनं सुनासं शोभननासाविशिष्टं चारु रमणीयं ताम्रोष्ठम् अरुणौष्ठविशिष्टं हाटकप्रभं सुवर्णप्रभासदृशप्रभाविशिष्टं राक्षसेन्द्रसमाधूतं राक्षसेन्द्रात् हेतुभूतात् प्राप्तकम्पं तस्याः सीतायास्तत् शुभं वदनं दिवा उदितः चन्द्र इव रामं विना न शुशुभे । श्लोकद्वयमेकान्वयि ॥ ३।५२।२१२२ ॥
सेति । हेमवर्णा मैथिली राक्षसाधिपमाश्रिता सा सीता काञ्चनी स्वर्णमयी नीलं गजमाश्रिता काञ्ची मेखलेव शुशुभे ऽमणिं नीलमिवऽ इति भूषणपाठः ॥ ३।५२।२३ ॥
सेति । पद्मपीता पद्मकेशरवद्गौरदेहा अत एव हेमाभा प्रतप्तस्वर्णसदृशी तप्तभूषणा प्रतप्तचामीकरमयभूषणविशिष्टा जनकात्मजा सा सीता विद्युद्धनमिव रावणमाविश्य तदुपरि स्थित्वा शुशुभे ऽपद्मगारीऽ इति तीर्थपाठः ॥ ३।५२।२४ ॥
तस्या इति । वैदेह्याः तस्याः सीतायाः भूषणघोषेण राक्षसेश्वरो रावणः विमलः स्वच्छः नीलः नीलवर्णः सघोषो घोषसहितः तोयदो मेघ इव बभूव ॥ ३।५२।२५ ॥
उत्तमाङ्गेति । ह्रियमाणायाः तस्याः वैदेह्याः उत्तमाङ्गच्युता शिरसो विभक्ता पुष्पवृष्टिः समन्ततो धरणीतले पपात ॥ ३।५२।२६ ॥
सा त्विति । सा सीतोत्तमाङ्गच्युता पुष्पवृष्टिस्तु रावणवेगेन समन्ततः समाधूता सती पुनर्दशग्रीवं रावणमेव अभ्यवर्तत तद्देहसंलग्ना ऽभवत् ॥ ३।५२।२७ ॥
तदेव भङ्ग्यन्तरेणाह–अभ्यवर्ततेति । पुष्पाणां सीतोत्तमाङ्गच्युतसुमनसां धारा वैश्रवणानुजं रावणं विमला नक्षत्रमाला नगोत्तमं मेरुमिव अभ्यवर्तत ॥ ३।५२।२८ ॥
चरणादिति । रत्नभूषितम् अनेकविधरत्नसंयुक्तम् अत एव विद्युन्मण्डलसंकाशं वैदेह्याश्चरणाद्भ्रष्टं स्रस्तं नूपुरं धरणीतले पपात । भ्रष्टमित्यनेन नूपुरस्य चैतन्यं ध्वनितं तेन कश्चिन्मां संगृह्य राघवाय दर्शयेत् अत एव राघवो ऽपहरणदिशं विजानीयादिति हेतुः सूचितः ॥ ३।५२।२९ ॥
तर्विति । तरुप्रवालरक्ता तरुविशेषनवोद्भूतपल्लवारुण्यसदृशारुण्यविशिष्टा वैदेही सा सीता नीलाङ्गं राक्षसेश्वरं रावणं काञ्चनी स्वर्णमयी कक्ष्या गजाच्छादनी गजमिव प्राशोभयत ॥ ३।५२।३० ॥
तामिति । आकाशे महोल्कामिव स्वतेजसा दीप्यमानां सीतां वैश्रवणानुजो रावणः आकाशमाविश्य जहार ॥ ३।५२।३१ ॥
तस्या इति । अग्निवर्णानि सघोषाणि घोषविशिष्टानि तस्याः सीताया तानि प्रसिद्धानि
भूषणानि अम्बरात् क्षीणास्तारा इव अवकीर्यन्त ॥ ३।५२।३२ ॥
तस्या इति । वैदेह्याः तस्याः सीतायाः स्तनान्तरात् भ्रष्टः स्खलितः ताराधिपद्युतिः चन्द्रद्युतिसदृशद्युतिमान् हारः भूमौ निपतन्सन् गगनच्युता गङ्गेव भाति अभात् ॥ ३।५२।३३ ॥
उत्पातेति । उत्पातवाताभिहता उत्पातवातैः प्रचलिताः अत एव धूताग्रा नानाद्विजगणायुताः अनेकविधपक्षिभिः सेविताः पादपास्त्वं मा भैषीरिति व्याजह्रुः सीतां प्रत्यूचुरिव ॥ ३।५२।३४ ॥
नलिन्य इति । ध्वस्तानि कमलानियासां ताः स्त्रस्ता भीताः मीनाः जलेचराः तदितरजलौकसश्च यासु ताः नलिन्यः गतोत्साहां मैथिली सखीमिव शोचन्ति स्मेव ऽगतोच्छ्वासांऽ इति तीर्थपाठः, मूर्च्छितामिति तद्व्याख्या ऽगतोच्छ्वासाऽ इतिपाठे रावणत्रासात् शुष्कजलतया गतप्राणा इत्यर्थः इति भट्टाः ॥ ३।५२।३५ ॥
समन्तादिति । तदा सीताया हरणसमये रोषात् रावणविषयककोपात् सिंहादयः अभिसंपत्य संप्राप्य सीताच्छायानुगामिनः सन्तः अन्वधावन् ॥ ३।५२।३६ ॥
जलेति । सीतायां ह्रियमाणायां सत्यां जलप्रवाहास्रमुखाः जलप्रवाहो ऽस्रमश्रु इव तद्युक्तं मुखं येषां ते पर्वताः श्रृङ्गै श्रृङ्गरूपैः उच्छ्रितबाहुभिः विक्रोशन्तीव ॥ ३।५२।३७ ॥
ह्रियमाणामिति । वैदेहीं ह्रियमाणां दृष्ट्वा श्रीमान् दिवाकरः दीनः अत एव प्रविध्वस्तप्रभः अत एव पाण्डुरमण्डल आसीत् ॥ ३।५२।३८ ॥
नन्वेवमधर्मो रावणेन कथं कृत इत्यत आह–नास्तीति । यत्र यस्मिन् रक्षसशरीरे स्थितो रावणः सीतां हरति तस्मिन् राक्षसशरीरे धर्मो नास्ति सत्यं कुतः आर्तवन्नम्रता नास्ति कुतो ऽनृशंसता ॥ ३।५२।३९ ॥
इतीति । इति उक्तप्रकारेण सर्वाणि भूतानि वनदेवतादयः पर्यदेवयन् अत एव वित्रस्ताः रावणान्याय्यकरणाद्भीता अत एव दीनमुखाः मृगपोतका मृगबालाः रुरुदुः ॥ ३।५२।४० ॥
उद्वीक्ष्येति । विक्रोशन्तीं राममाह्वयन्तीं तथा तेन प्रकारेण दुःखं गतां प्राप्तां वैदेहीं दृष्ट्वा अत एव नयनैः उद्वीक्ष्योद्वीक्ष्य भयादिव रावणभीतेरेव सुप्रवेपितगात्राः वनदेवता बभूवुः । सार्धश्लोक एकान्वयी ॥ ३।५२।४१ ॥
तामिति । लक्ष्मण रामेति विक्रोशन्तीं मधुरस्वरां स्वाभाविकमधुरस्वरविशिष्टां धरणीतलं बहुशो वारंवारम् अवेक्षमाणाम् आकुलो व्याकुलः केशान्तो यस्यास्तां विप्रमृष्टविशेषकां विप्रमृष्टः विलुलितो विशेषकस्तिलको यस्यास्तां ताममृतस्वरूपां मनस्विनीं वैदेहीं तां सीताम् आत्मविनाशाय दशग्रीवो जहार । अर्धचतुष्टयमेकान्वयि ॥ ३।५२।४२४३ ॥
तत इति । चारुदती शोभनदन्तविशिष्टा शुचिस्मिता मैथिली ततो ऽपहरणात् हेतोः बन्धुजनेन रामलक्ष्मणाभ्यां विना रहिता कृता अत एव रामलक्ष्मणौ अपश्यती अपश्यन्ती सती भयभारपीडिता अत एव विवर्णवक्रा अभवदिति शेषः ॥ ३।५२।४४ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे द्विपञ्चाशः सर्गः ॥ ३।५२ ॥