सीतावचनश्रवणानन्तरकालिकं रावणस्य दुर्वृत्तमाह–सीताया इत्यादिभिः । दशग्रीवो रावणः सीताया वचनं श्रुत्वा हस्ते हस्तं समाहत्य संयोज्य कोपचिह्नमेतत् वपुः स्वशरीरं सुमहत् अतिप्रवृद्धं चकार ॥ ३।४९।१ ॥
स इति । वाक्यकोविदो रावणः मैथिलीं पुनर्बभाषे । तद्वचनाकारमाह–उन्मत्तया त्वया मम वीर्यपराक्रमौ न श्रुतौ इत्यहं मन्ये ॥ ३।४९।२ ॥
उदिति । अम्बरे आकाशे स्थितो ऽहं भुजाभ्यां भेदिनीं पृथ्वीमुद्वहेयं समुद्रं च पिबेयम् अ इत्यव्ययम् तदत्र त्वर्थे एवं च रणे स्थितो ऽहं तु मृत्युं हन्याम् ॥ ३।४९।३ ॥
अर्कमिति । तीक्ष्णैः शरैरर्कं सूर्यं तुद्यां महीतलं विभिन्द्याम् । ननु यत्किंचिन्महीतलदेशस्य विभेदः सर्वशक्यः सर्वमहीतलभेदस्तु एकदेशवृत्तित्वेन तवाप्यशक्य इति सर्वसाधारणत्वं त्वयीत्येतत्कथनमनर्थकमित्यत आह–कामरूपेण स्वेच्छाचारेण उपलक्षिते अत एव हे उन्मत्ते कामरूपिणं स्वेच्छारूपधारिणं मां पश्य एतेन पृथिवीपरिमितरूपस्यापि धारणसामर्थ्यं मय्यस्तीति सूचितम् ॥ ३।४९।४ ॥
एवमिति । एवमुक्तवतस्तस्य रावणस्य हरिपर्यन्ते श्यामप्रान्तदेशे रक्ते अरुणवर्णविशिष्टे नेत्रे शिखिप्रभे मयूरपुच्छसदृशे सदसद्दर्शनरहिते इत्यर्थः बभूवतुः ॥ ३।४९।५ ॥
सद्य इति । वैश्रवणानुजः स रावणः सौम्यं भिक्षुरूपं सद्यः परित्यज्य कालरूपाभं स्वरूपं भेजे प्राप ॥ ३।४९।६ ॥
तद्रूपं वर्णयँस्तदेवाह–संरक्तेति । संरक्तनयनः संरक्ते नयने यस्य सः नीलजीमूतसंनिभः नीलजीमूतो मेघः तत्सदृशः दशास्यः दशमुखविशिष्टः विंशतिर्भुजाः यस्य सः क्षणदाचरः राक्षसः स रावणः तत् गृहीतं परिव्राजकछद्म विहाय महाकायो बभूव । श्लोकद्वयमेकान्वयि ॥ ३।४९।७८ ॥
प्रतीति । रक्ताम्बरधरो रावणः स्वकं रूपं प्रतिपद्य स्त्रीरत्नं सर्वनारीश्रेष्ठं मैथिलीं प्रेक्ष्य तस्थौ ॥ ३।४९।९ ॥
स इति । असितकेशामतिकृष्णकेशविशिष्टामित्यर्थः, भास्करस्य प्रभामिव तां मैथिलीं स रावणो ऽब्रवीत् ॥ ३।४९।१० ॥
तद्वचनाकारमाह–त्रिष्विति । त्रिषु लोकेषु सर्वभुवनेषु विख्यातं भर्तारं रामं यदि इच्छसि द्रष्टुमिति शेषः तर्हि मामाश्रय मया सह गच्छेत्यर्थः, एतेन मदुक्ताकरणे त्वां हनिष्यामीति सूचितम् । ननु रामभार्याहमन्येन राक्षसेन साकं कथं गमिष्यामीत्यत आह–सदृशः स्वसमानस्य राक्षसगणस्य पतिरहं तवैव सेवक इति शैषः, एतेन सीतादर्शनवशादहमपि साकेतस्थ इति क्षणिकज्ञानं जातमिति सूचितम् ॥ ३।४९।११ ॥
मामिति । श्लाघ्यः सर्वप्रसंशनीयः पतिः राक्षसाधिपो ऽहं यतस्तवैव सेवकः अतो मां चिराय बहुकालं भजस्व सेवयस्व अत एव हे भद्रे क्वचित् कदाचिदपि तव विप्रियम् अनीप्सितं न करिष्ये ॥ ३।४९।१२ ॥
ननु रामवियुक्ताहं कथमन्यत्र स्थास्यामीत्यत आह–त्यज्यतामिति । मानुषः मनुष्यरामसंबन्धी भावः नित्यमहं सेविकेति स्वभावः त्यज्यतां मयि भावः मन्निरूपितस्वसेव्यत्वरूपस्वभावः प्रणीयतां प्राप्यताम्, स्वतन्त्रा भवेत्यर्थः, अर्धं पृथक् । रामविषयकप्रीतिनिरासार्थमाह–राज्याच्च्युतमिहागतमत एव असिद्धार्थं न सिद्धः अर्थः राज्याभिषेकी यस्य तं रामं कैर्गुणैरनुरक्तासि एतेन तत्रानुरागो न कार्य इति सूचितम् ॥ ३।४९।१३ ॥
य इति । यः स्त्रियो वचनात् ससुहृज्जनं राज्यं विहाय व्यालानुचरिते सर्पादिभिः सेविते ऽस्मिन्वने वसति स दुर्मतिस्त्यज्यतामिति शेषः ॥ ३।४९।१४ ॥
इतीति । प्रियार्हां प्रियवचनयोग्यां प्रियवादिनीं मैथिलीम् इत्यप्रियं वचः उक्त्वा दुष्टात्मा काममोहितः कामेन अपहरणविषयकोत्कटेच्छया मोहितः कर्तव्यविषयकविवेकरहितः रावणः अभिगम्य समीपं प्राप्य खे आकाशे रोहिणीं बुध इव जग्राह । अनेनोपमालङ्कारेण रावणस्य सीतायां मातृबुद्धिः जातेति सूचितम् ॥ ३।४९।१५१६ ॥
वामेनेति । स रावणः वामेन करेण मूर्धजेषु कबरीपतितदेशेषु गलपश्चाद्भागे इत्यर्थः, मूर्धजनशब्दो ऽर्शआद्यजन्तः दक्षिणेन पाणिना तु ऊर्वोः सीतां जग्राह तेन तदानीं वियोगसंभावनया मूर्च्छा जातेति ध्वनितम् ॥ ३।४९।१७ ॥
तमिति । गिरिश्रृङ्गाभं गिरिश्रृङ्गसदृशं मृत्युसंकाशं मृत्युवत्प्रतीयमानं तं सीतामपहरन्तं रावणं दृष्ट्वा भयार्ता वनदेवताः प्राद्रवन् ॥ ३।४९।१८ ॥
स इति । खरयुक्तः गर्दभैः संनद्धः अत एव खरस्वनः गर्दभस्वनविशिष्टः किं च अत्युग्रस्वनविशिष्टः मायामयः अत एव दिव्यः आकाशस्थः रावणस्य महारथः प्रत्यदृश्यत ॥ ३।४९।१९ ॥
तत इति । महास्वनः रावणः ततो ग्रहणानन्तरं परुषैर्वाक्यैर्वैदेहीमभितर्ज्य आदाय च अङ्केन शीघ्रगत्योपलक्षितं रथमारोपयत् ॥ ३।४९।२० ॥
सेति । रावणेन गृहीता अत एव अतिदुःखार्ता रामवियोगजनितदुःखाक्रान्ता यशस्विनी सीता दूरगतं रामं रामेति चुक्रोश ॥ ३।४९।२१ ॥
तामिति । अकामां रामरहितगमनविषयकेच्छारहितामत एव विचेष्टमानां तां सीतां कामार्तः सीतानयनविषयकोत्कटेच्छावान् रावणः पन्नगेन्द्रवधूमिवादाय उत्पपात ॥ ३।४९।२२ ॥
तत इति । ततः रामरहितत्वात् हेतोः राक्षसेन्द्रेण विहायसा ह्रियमाणा अत एव मत्ता प्राप्तदैन्या अत एव यथा यथावदातुरा शोकसंकुला सा सीता भ्रान्तचित्ता इव भृशं चुक्रोश ॥ ३।४९।२३ ॥
क्रोशाकारमाह–हेति । गुरुचित्तप्रसादक रामचित्तप्रसादनतत्पर हे लक्ष्मण रक्षसा ह्रियमाणां मां न पश्यसि किं न जानासि ॥ ३।४९।२४ ॥
जीवितमिति । हे राघव धर्महेतोः जीवितादिकं परित्यजँस्त्वमधर्मेण ह्रियमाणां मां न पश्यसि किं न जानासि ॥ ३।४९।२५ ॥
नन्विति । हे परंतप अविनीतानाम् उत्पथगामिनां विनेता सुमार्गप्रापकस्त्वमसि अतः एवंविधं पापं पापिनं रावणं कथं न शाधि ॥ ३।४९।२६ ॥
नेति । अविनीतस्य पुरुषस्य कर्मणः फलं सद्यो न दृश्यते अतः अत्र सद्यः फलाभावाय सस्यानां पक्तये पाकायेव कालो ऽप्यङ्गीभवति कारणाङ्गतवं प्राप्नोति ॥ ३।४९।२७ ॥
रावणमुद्दिश्याह–त्वमिति । कालोपहचेतनस्वं यतः एतदपहरणरूपं कर्म कृतवान् अतः जीवितान्तकरं जीवनध्वंसकं घोरं व्यसनं दुःखं रामात् प्राप्नुहि ॥ ३।४९।२८ ॥
हन्तेति । यतो यशस्विनो रामस्य धर्मपत्नी अहं ह्रियेयमतः कैकेयी केकयीदासी मन्थरा बान्धवैः सह सकामा अस्मद्दुःखश्रवणेन संप्राप्तमनोरथा भवत्विति शेषः ॥ ३।४९।२९ ॥
आमन्त्रये इति । जनस्थाने विद्यमानान् पुष्पितान् कर्णिकारान् अहमामन्त्रये प्रार्थयामि । तत्स्वरूपमाह–सीतां रावणो हरति इति क्षिप्रं रामाय शंसध्वं कथयत ॥ ३।४९।३० ॥
माल्यवन्तमिति । शिखरिणं प्रशस्तशिखरविशिष्टं माल्यवन्तं प्रशस्तपुष्पविशिष्टं प्रश्रवणं गिरिं वन्दे । तत्प्रयोजनमाह–क्षिप्रं रामाय शंसध्वम् । अत्र वन्द्यमानयोरुद्भूतावयवत्वविवक्षया बहुवचनम् एवमुत्तरत्रापि ॥ ३।४९।३१ ॥
हंसेति । हंससारससंघुष्टां हंसादिभिः सेवितां गोदावरीं वन्दे ॥ ३।४९।३२ ॥
दैवतानीति । विविधपादपे अनेकविधवृक्षविशिष्टे अस्मिन् वने यानि दैवतानि तेभ्यो नमस्करोमि । तत्प्रयोजनमाह–हृतां मां भर्तुः अग्रे इति शेषः शंसत कथयत ॥ ३।४९।३३ ॥
यानीति । अत्र अस्मिन् वने यानि सर्वाणि सत्त्वानि तानि सर्वाणि मृगपक्षिगणश्च यामि स्वप्रयोजनबोधिकात्वेन प्राप्नोमि । तदेवाह–भर्तुः प्राणेभ्यो ऽपि गरीयसीं प्रियां भार्यां मां जानीतेति शेषः, अत एव रावणेन ते सीता हृता इति शरणं सर्वरक्षकं रामं शंसत । श्लोकद्वयं संमिलितान्वयि ॥ ३।४९।३४३५ ॥
कथनप्रयोजनमाहविदित्वेति । अमुत्र लोकान्तरे गतामिति शेषः, वैवस्वतहृतामपि मां विदित्वैव आनेष्यति ॥ ३।४९।३६ ॥
सेति । तदा तस्मिन्काले करुणाः वाचो विलपन्ती सुदुःखिता सा सीता वनस्पतिगतं वृक्षे स्थितं गृध्रं ददर्श ॥ ३।४९।३७ ॥
सेति । रावणस्य वशं गता अत एव भयपरा सा सीता तं जटायुषं समुद्वीक्ष्य दुःखोपहतया गिरा समाक्रन्दत् आह्वयत् ॥ ३।४९।३८ ॥
तदाकारमाह–जटायो इति । हे जटायो पापकर्मणा अनेन राक्षसेन्द्रेण अकरुणं यथा भवति तथा अनाथवत् ह्रियमाणां मां पश्य ॥ ३।४९।३९ ॥
नेति । सत्त्ववान् अतिबली जितकाशी जितेन बहुकर्मकजयेन काशते प्रकाशते तच्छीलः सायुधः अनेकविधायुधविशिष्टः दुर्मतिः कूटयोद्धा अत एव क्रुरः एष निशाचरः त्वया वारयितुं न शक्यः एतेन एतन्निवारणे त्वया न यतितव्यमिति सूचितं तेन सीतायाः दयालुत्वं व्यक्तम् ॥ ३।४९।४० ॥
ननु मोचनप्रयत्नाभावे किमर्थं ममाह्वानमित्यत आह–रामायेति । हे जटायो रामाय लक्ष्मणाय च यथातत्त्वं याथार्थ्यमनतिक्रम्य सर्वं सावयवमपहरणम् अशेषतः आख्यातव्यं वक्तव्यम् ॥ ३।४९।४१ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे एकोनपञ्चाशत्तमः सर्गः ॥ ३।४९ ॥