सीतोत्तरं वर्णयितुमाह–रावणेनेति । आत्मानं परिव्राजकरूपेण जिहीर्षुणा रावणेन पृष्टा वैदेही आत्मना स्वयमेवात्मानं शशंस ॥ ३।४७।१ ॥
तत्र हेतुं वदन्नाह–ब्राह्मण इति । एष रावणः ब्राह्मणो ब्राह्मणवेषो ऽतिथिश्चातो मयानुक्तश्चेत् मां शपेतेति । मुहूर्तं ध्यात्वा सीता अब्रवीत् ॥ ३।४७।२ ॥
तद्वचनाकारमाह–दुहितेत्यादिभिः । महात्मनो जनकस्य दुहिता कन्या रामस्य प्रिया महिषी नाम्ना सीताहमस्मि ॥ ३।४७।३ ॥
उषित्वेति । इक्ष्वाकूणां निवेशने गृहे द्वादश समाः वर्षाणि उषित्वा मानुषान् प्राकृतविलक्षणमनुष्यसंबन्धिनो भोगान् भुञ्जानाहं सर्वकामसमृद्धिनी आसमिति शेषः, निष्ठान्तात् “अत इति ठनौ” इतीन् व्रीह्यादित्वादिनिरिति भट्टोक्तिस्तु चिन्त्या ॥ ३।४७।४ ॥
तत्रेति । तत्र राघवनिवेशने राजमन्त्रिभिः मन्त्रिराजैः मन्त्रिश्रेष्ठैरित्यर्थः, समेतो राजा राममभिषेचयितुं त्रयोदशे वर्षे अमन्त्रयत ॥ ३।४७।५ ॥
तस्मिन्निति । तस्मिन् राघवस्या ऽभिषेचने संभ्रियमाणे सति कैकेयी नाम ममार्या पूजनीया श्वश्रूरित्यर्थः, वरं याचते अयाचत ॥ ३।४७।६ ॥
तद्वचनाकारमाह–परीति । सुकृतेन अतिशोभनकर्मणा उपलक्षितं सत्यसन्धं भर्तारं मे श्वशुरं परिगृह्य स्ववशीकृत्य कैकेयी मम भर्तुः प्रव्राजनं भरतस्या ऽभिषेचनं राज्यपालनं द्वौ वरौ अयाचत । सार्द्धश्लोक एकान्वयी ॥ ३।४७।७ ॥
याचनप्रकारमाह–नेति । यत् यदि रामो ऽभिषिच्यते तदा न भोक्ष्ये अत एव अद्य अस्मिन् काले एष रामाभिषेकः मे जीवितस्यान्तः इति ब्रुवाणां कैकेयीं मानदः अतिसत्कारप्रदः मे श्वशुरः स दशरथः अन्वर्थैः सप्रयोजनकैः अर्थैः सुवर्णरत्नालङ्कारादिभिः अयाचत भरतराज्यप्रतिनिधित्वेन रत्नादीन् गृहाणेत्यकथयदित्यर्थः सा कैकेयी तु याच्ञा राजोक्तिं न चकार स्वीचक्रे स्वप्स्ये यास्ये इत्यत्र संज्ञापूर्वकविधेरनित्यत्वादात्मनेपदम् । अर्धचतुष्टयमेकान्वयि ॥ ३।४७।८९ ॥
ममेति । सत्यवान् मृषासंसर्गशून्यः सर्वभूतहिते रतः राम इति लोके प्रथितः महातेजा मम भर्ता वयसा पञ्चविंशकः पञ्चविंशेन युक्ताः काः त्रयो यस्य स अष्टाविंशतिवार्षिक इत्यर्थः अयोध्यातो निर्गमनसमये इति शेषः । अत एव ऊनषोडशवर्षो मे रामो राजीवलोचन इति विश्वामित्रं प्रति दशरथोक्त्या उषित्वा द्वादश समा इक्ष्वाकूणां निवेशने इति रावणं प्रति सीतोक्त्या च सिद्धस्य वनप्रवेशनसमये अष्टाविंशतिवार्षिकत्वस्य नापलापः निरूपितं चैतत् विस्तरतः ऊनषोडशवर्षो मे इत्यत्र व्याख्याने मम जन्मनि प्रादुर्भावे सति तु अष्टादशवर्षाणि गण्यते गण्यन्ते अयोध्यातो निर्गमनसमये अष्टादश वर्षाणि मे व्यतीतानीत्यर्थः । श्लोकद्वयमेकान्वयि ॥ ३।४७।१०११ ॥
कामार्त इति । कामार्तः कामेन किंचिद्विषयकेच्छया आर्तो युक्तः महाराजो दशरथः कैकेय्याः प्रियकामार्थं प्रियः प्रीतिविषयीभूतः अत एव कामः इच्छाविषयीभूतो यो ऽर्थः तमुद्दिश्य रामं नाभ्यषेचयत् ॥ ३।४७।१२ ॥
अभिषेकायेति । पितुः समीपमागतं मम भर्तारं कैकेयी द्रुतमितीदमुवाच ॥ ३।४७।१३ ॥
तद्वचनाकारमाह–तवेति । हे राघव तव पित्रा ममाग्रे इदं समाज्ञप्तं श्रृणु ॥ ३।४७।१४ ॥
तत्समाज्ञापनमेवाह–भरतायेति । इदं राज्यं भरताय प्रदातव्यं त्वया तु वने वस्तव्यम् अतः हे काकुत्स्थ त्वं प्रव्रज अनृतात् पितरं मोचय ॥ ३।४७।१५ ॥
तथेति । दृढव्रतः अकुतोभ्यः मम भर्ता रामः तद्वचः श्रुत्वा तथेत्युवाच चकार च ॥ ३।४७।१६ ॥
ननु समर्थो रामः किमर्थमेवं चकार इत्यतो रामगुणानाह–दद्यादिति । हे ब्राह्मण दद्यात् प्रतिगृह्णीयात् न सत्यं ब्रूयात् वदेत् अनृतं न ब्रूयात् एतत् अनुत्तमं सर्वोत्कृष्टं व्रतं रामस्य रामे धृतं संस्थापितम् ॥ ३।४७।१७ ॥
तस्येति । लक्ष्मणो नाम तस्य वैमात्रः विमातुः तज्जनकपितृपाणिगृहीतीभिन्नपितृपाणिगृहीत्या अयमत एव भ्राता रामस्य सहायः ॥ ३।४७।१८ ॥
स इति । दृढव्रतो लक्ष्मणो नाम स भ्राता धनुष्पाणिः सन् प्रव्रजन्तं रामं मया सह अन्वगच्छत् ॥ ३।४७।१९ ॥
जटीति । धर्मनित्यो दृढव्रतः सहानुजो लक्ष्मणसहितो रामः तापसरूपेण मया सह दण्डकारण्यं प्रविष्टः ॥ ३।४७।२० ॥
ते इति । हे द्विजश्रेष्ठ कैकेय्याः कृते कैकेयीप्रयत्ने सति राज्यात्प्रच्युताः कोशलायाः आगताः ते त्रयो वयं गम्भीरं वनमोजसा स्ववीर्येण विचराम विचरामः यतत्स्वया इह वस्तुं शक्यमतः मुहूर्तं समाश्वस तिष्ठ ॥ ३।४७।२१२२ ॥
तत्प्रयोजनमाह–आगमिष्यतीति रुरुप्रभृतीन् हत्वा संताड्य पुष्कलं संपूर्णं बह्वधिकम् आमिषं भोग्यवस्त्वादाय गृहीत्वा आगमिष्यति एतेन तदागमनसमये ते महान् सत्कारो भवितेति ध्वनितम् ॥ ३।४७।२३ ॥
स इति । सः प्रसिद्धाचरणस्त्वन्नामादि तत्त्वतः आचक्ष्व कथय । प्रश्नान्तरमाह–दण्डकारण्ये एकस्त्वं किमर्थं चरसि ॥ ३।४७।२४ ॥
एवमिति । सीतायामेवं ब्रुवन्त्यां सत्यां रावणः तीव्रमुत्तरं प्रत्युवाच ॥ ३।४७।२५ ॥
येनेति । येन लोकाः वित्रासिताः सः रक्षोगणेश्वरः रावणो नामाहम् ॥ ३।४७।२६ ॥
त्वामिति । काञ्चनवर्णाभां सुवर्णवर्णभासदृशाभाविशिष्टां कौशेयवासिनीं त्वां दृष्ट्वा स्वकेषु दारेषु तदुपलक्षितपुत्रमित्रादिषु रतिं प्रीतिं नाधिगच्छामि त्वामेव निरन्तरं स्मरामीत्यर्थः, एतेन तद्रूपस्य सर्वलौकिकसुखविस्मारकत्वं सूचितम् ॥ ३।४७।२७ ॥
बह्वीनामिति । इतस्ततः मम आहृतानां बह्वीनां सर्वासामुत्तमस्त्रीणाम् अग्रा उत्कृष्टा महिषी पूज्या भव ॥ ३।४७।२८ ॥
लङ्केति । सागरेण समुद्रेण परिक्षिप्ता परितः आवृता गिरिमूर्धनि निविष्टा संस्थापिता समुद्रस्य मध्ये लङ्का नाम या महापुरी तत्र तस्यां पुर्यां वनेषु तदारामेषु मया अर्धं संवृद्धं सेवितमित्यर्थः, यथा भवति तथा विचरिष्यसि अत एव सा मत्सेविता त्वमस्य वनवासस्य न स्पृहयिष्यसि वाञ्छिष्यसि । श्लोकद्वयमेकान्वयि ॥ ३।४७।२९३० ॥
पञ्चेति । यदि त्वं भवसि लङ्कायां तिष्ठसि तर्हि हे सीते सर्वाभरणभूषिताः पञ्च सहस्राणि मे मम भार्यास्ते दास्यः सत्यः परिचरिष्यन्ति ॥ ३।४७।३१ ॥
रावणेनेति । एवं रामवियोगसूचनप्रकारेण रावणेनोक्ता अनवद्याङ्गी जनकात्मजा तं राक्षसं रावणमनादृत्य प्रत्युवाच ॥ ३।४७।३२ ॥
तत्प्रतिवचनाकारमाह–महेत्यादिभिः । महागिरिं सुमेरुमिवाकम्प्यमचलस्थितिं महेन्द्रः सदृशो यस्य महोदधिं समुद्रमिवाक्षोभ्यं रामं पतिमहमनुव्रता ॥ ३।४७।३३ ॥
सर्वेति । सर्वलक्षणसंपन्नं सर्वसल्लक्षणैर्युक्तं न्यग्रोधपरिमण्डलं न्यग्रोधस्य महावटस्येव परिमण्डलं यस्य स्वाश्रितसन्तापध्वंसकमित्यर्थः, सत्यसन्धं सत्या सन्धा प्रतिज्ञा यस्य तं महाभागं राममहमनुव्रता ॥ ३।४७।३४ ॥
महेति । सिंहविक्रान्तगामिनं सिंहस्य विक्रान्तं गमनमिव गच्छति तच्छीलं नृसिहं पुरुषश्रेष्ठं सिहसंकाशं सिंहमिव दुराधर्षं राममहमनुव्रता ॥ ३।४७।३५ ॥
पूर्णेति । राजवत्सं राजश्रेष्ठं राजपुत्रं वा पृथुकीर्तिं महाकीर्तिमन्तं राममहमनुव्रता बहुवारमनुव्रतत्वोक्त्या रामवियोगस्यात्यन्तायोग्यत्वं व्यञ्जितम् ॥ ३।४७।३६ ॥
इदानीं त्वं ममानयनार्हो नासीति बोधयन्त्याह–त्वमिति । जम्बुकः श्रृगालस्त्वं दुर्लभां सिंहीं मामिच्छसि अत आदित्यस्य प्रभेव त्वया स्प्रष्टुं रामात्पृथक्कृत्य नेतुं नाहं शक्या एतेन स्वस्या रामतेजोरूपवह्निना आवृतात्वं सूचितमत एव लक्ष्मणप्रेषणसमये अग्निं वा प्रवेक्ष्यामि अन्यं पुरुषं न स्प्रक्ष्यामीति तत्कृतप्रतिज्ञाया न हानिः ॥ ३।४७।३७ ॥
ममानयने त्वद्धंसो ऽवश्यं भवितेति बोधयन्नाह–पादपानिति । यस्त्वं राघवस्य प्रियां भार्यामिच्छसि नेतुमिति शेषः, स मन्दभाक् मध्यमसेवकस्त्वं पादपान्वृक्षान्काञ्चनान्स्वर्णमयान् पश्यसि नूनं निश्चितमेतत् पादपानां काञ्चनमयत्वेन दर्शनं विनाशसूचकमिति पुराणादौ प्रसिद्धम् ॥ ३।४७।३८ ॥
क्षुधितस्येति । यस्त्वं राघवस्य भार्यामधिगन्तुं नेतुमिच्छसि स त्वं तरस्विनः अतिवेगवतः क्षुधितस्य मृगशत्रोः सिंहस्य आशीविषस्य अतिविषवन्कृष्णसर्पविशेषस्य च दंष्ट्रामादातुमिच्छसि अत रामस्य सिंहसर्पैक्यारोपात् दंष्ट्रायां च सीतयैक्यारोपात् निदर्शनालङ्कारः एवमुत्तरत्रापि यथासन्भवमूह्यम् । पर्वतश्रेष्ठं मन्दरं पाणिना हर्तुमिच्छसि कालकूटं विषं पीत्वा स्वस्तिमान् कल्याणवान् सन् गन्तुमिच्छसि सूच्या अक्षि स्वनयनं प्रमृजसि जिह्वया क्षुरं क्षुरधारां लेढि । श्लोकत्रयमेकान्वयि ॥ ३।४७।३९४१ ॥
अवेति । यस्त्वं रामस्य प्रियां भार्यां प्रधर्षयितुं प्रागल्भ्यान्नेतुमिच्छसि स त्वं कण्ठे शिलामवसज्य बद्धा समुद्रं तर्तुमिच्छसि उभौ सूर्याचन्द्रमसौ पाणिभ्यां हर्तुमिच्छसि । सार्धश्लोक एकान्वयी ॥ ३।४७।४२ ॥
अग्निमिति । रामस्य भार्यामधिगतुं नेतुं यस्त्वमिच्छसि स त्वं प्रज्वलितमग्निं दृष्ट्वा वस्त्रेणाहर्तुमिच्छसि अयोमुखानां लोहमयतीक्ष्णाग्रभागानां शूलानां मध्ये चरितुं गन्तुमिच्छसि ॥ ३।४७।४३४४ ॥
ननु ममापि रामसदृशत्वात् कथं मद्विनाशं ब्रूषे इत्यत आह–यदित्यादिभिः । सिंहश्रृगालयोर्यदन्तरं तत्तन्निरूपितोत्तमाधमत्वयोरन्तरालमित्यर्थः, स्पन्दनिका क्षुद्रनदी सुरा अग्र्या पूर्वमुत्पन्ना यस्मात् अमृतमित्यर्थः, सौवीरमारनालं काञ्जिकमित्यर्थः ॥ ३।४७।४५ ॥
यदिति । काञ्चनं सुवर्णं शीस एव लोहः लोहशब्दस्य धातुसामान्यपरत्वात्सामान्यविशेषयोरभेदः ॥ ३।४७।४६ ॥
यदिति । वायसः काकः, वैनतेयो गरुडः, मद्गुर्जलकाकः ॥ ३।४७।४७ ॥
यदिति । हंसको राजहंसः । अर्धं पृथक्– तस्मिन्निति । तस्मिन्महान्तरालवति सहस्राक्षसमप्रभावे कार्मुकबाणपाणौ रामे स्थिते सति ते हृताप्यहं मक्षिकया ऽवगीर्णं भक्षितमाज्यमिव जरां जीर्णत्वं न गमिष्ये शीघ्रमेव रामो मामानेतेत्यर्थः ॥ ३।४७।४८ ॥
इतीवेति । इतीव एवंरूपं वाक्यं सुदुष्टं रजनीचरं तं रावणमुक्त्वा अदुष्टभावा सा सीता गात्रप्रकम्पाद्धेतोः वातोद्धता कदली इव व्यथिता बभूव कदल्युपमया तस्य न वास्तवं दुःखमिति ध्वनितम् ॥ ३।४७।४९ ॥
तामिति । मृत्युसमप्रभावः स रावणः वेपमानां तां सीतामुपलभ्य भयकारणार्थं सीतायां स्वापादानकभीत्युत्पत्त्यर्थम् आत्मनः कुलादि समाचचक्षे ॥ ३।४७।५० ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे सप्तचत्वारिंशः सर्गः ॥ ३।४७ ॥