लक्ष्मणवृत्तान्तमाह–तयेत्यादिभिः । तया सीतया परुषमुक्तः अत एव कुपितः राघवानुजः स लक्ष्मणः रामं रामदर्शनं भृशमत्यन्तं विकाङ्क्षन् इच्छन्सन् न चिरादिव शीघ्रमेव प्रतस्थे ॥ ३।४६।१ ॥
तदेति । तदा लक्ष्मणगमनानन्तरकाले अन्तरं स्वगमनयोग्यावकाशमासाद्य प्राप्य आस्थितः सीतापहरणविषयक आग्रहवान् अत एव परिव्राजकरूपधृक् दशग्रीवो रावणः वैदेहीमभिचक्राम ॥ ३।४६।२ ॥
परिव्राजकचिह्नानि वर्णयन्नाह–श्लक्ष्णेति । श्लक्ष्णकाषायसंवीतः श्लक्ष्णः स्वच्छः काषायः कषायरक्तः पटः तेन संवीतः आछादितो रावणः शिखादिमान् स्थलद्वये ऽपि व्रीह्यादित्वादिनिः छत्रीत्यत्र संहिताया अविवक्षया यणभावः शुभे स्वच्छे यष्टिकमण्डलू वामें ऽसे अवसज्य संधार्य परिव्राजकरूपेण त्रिदण्डिसंन्यासरूपेण वैदेहीम् अन्ववर्तत तदपहरणविषयकविचारमकरोत् अत्र यष्टिशब्दने त्रिदण्डग्रहणं तस्यैव शिख्युचितत्वात् । सार्धश्लोक एकान्वयी ॥ ३।४६।३ ॥
तामिति । अतिबलो रावणः भ्रातृभ्यां रामलक्ष्मणाभ्यां रहितां तां सीतां चन्द्रसूर्याभ्यां रहितां संध्यां महत्तम इव आससाद तदपहरणविषयकनिश्चयं चकार ॥ ३।४६।४ ॥
तामिति । ततः वैदेहीसमीपगमनान्तरं बालां राजपुत्रीं जनकराजतनयां यशस्विनीं सीतां भृशदारुणो रावणः शशिना हीनां रोहिणीं ग्रहवत् केतुवत् अपश्यत् ॥ ३।४६।५ ॥
तमिति । उग्रं क्रूरं तत्र हेतुः पापकर्माणं क्रूरकर्मणां कारकं तं रावणं संदृश्य जनस्थानगताः द्रुमाः न प्रकम्पन्ते तद्भिया न चलन्तीत्यर्थः, मारुतश्च न प्रवाति ॥ ३।४६।६ ॥
शीघ्रेति । शीघ्रस्रोताः झटिति प्रवाहविशिष्टा गोदावरीनदी वीक्षन्तं स्वामवलोकयन्तं तं रावणं दृष्ट्वा तद्भयात् स्तिमितं मन्दं यथा स्यात्तथा गन्तुमारेभे ॥ ३।४६।७ ॥
रामस्येति । रामस्य अन्तरं विच्छेदं प्रेप्सुः अन्वेषणशीलः दशग्रीवो रावणः तदन्तरे रामविच्छेदकाले भिक्षुरूपेण वैदेहीम् उपतस्थे तदाश्रमसमीपं जगाम ॥ ३।४६।८ ॥
अभव्य इति । अभव्यः नित्यममङ्गलरूपः रावणः भर्तारमनुशोचतीमनुशोचन्तीं वैदेहीं भव्यरूपेण शनैश्चरः चित्रामिव अभ्यवर्तत तत्समीपं प्राप ॥ ३।४६।९ ॥
सहसेति । तृणैः आवृतः आच्छन्नः कूप इव भव्यरूपेणोपलक्षितो रावणः रामपत्नीं वैदेहीं प्रेक्ष्य अतिष्ठत् तत्संनिधावुपाविशत् ॥ ३।४६।१०११ ॥
शुभामिति । शुभां सकलमङ्गलहेतुं रुचिरदन्तोष्ठीं स्वच्छदन्तोष्ठसहितां पर्णशालायामासीनां बाष्पशोकाभिपीडितां बाष्पहेतुभूतशोकयुक्तां पद्मपलाशाक्षीं पद्मपत्रनेत्रां पीतकौशेयवासिनीं वैदेहीं हृष्टचेताः निशाचरो रावणः अभ्यगच्छत कथमेवं लोकविलक्षणं रूपमनया लब्धमित्येविचारयत् ॥ ३।४६।१२१३ ॥
दृष्ट्वेति । कामशराविद्धः नानेच्छारूपबाणव्याप्तः राक्षसाधिपो रावणः रहिते रामलक्ष्मणाभ्यां शून्ये समये दृष्ट्वा वैदेहीमिति शेषः, ब्रह्मघोषं वेदशब्दमुदीरयन् पठन् प्रश्रितं वाक्यमब्रवीत् प्रशंसितुमैच्छत् अत एव वक्ष्यमाणेन न पौनरुक्त्यम् ॥ ३।४६।१४ ॥
तामिति । त्रिलोकानां मध्ये उत्तमां सर्वश्रेष्ठां वपुषा पद्महीनां श्रियमिव विभ्राजमानां तां सीतां रावणः प्रशशंस ॥ ३।४६।१५ ॥
तत्प्रशंसाकारमाह–रौप्येत्यादिभिः । रौप्यकाञ्चनवर्णस्य अत्युत्तमसुवर्णवर्णस्याभा इव आभा यस्यास्तत्संबोधनम् पीतकौशेयं वस्ते तच्छीला तत्संबोधनम्, मालां बिभ्रति संबोधनम् ॥ ३।४६।१६ ॥
ह्रीरिति । स्वैरचारिणी त्वं ह्रीरसि श्रीर्वासि श्रीः शोभासंपत्तिः लक्ष्मीरैश्वर्यसंपत्तिरिति न पौनरुक्त्यम् ॥ ३।४६।१७ ॥
समा इति । समाः निम्नोन्नतरहिताः शिखरिणः कुन्दकुड्मलसदृशशोभनाग्रवतस्तव दशनाः दन्ताः सन्ति रक्तान्ते अरुणप्रान्तभागे कृष्णतारके कृष्णतारकाविशिष्टे नेत्रे स्त इति शेषः ॥ ३।४६।१८ ॥
विशालमिति । जघनं विशालं पीनं च उपचितौ उन्नतौ वृत्तौ वर्तुलौ संहतौ परस्परं सुश्लिष्टौ संप्रगल्भितौ किंचित्कम्पयन्ताविव ॥ ३।४६।१९ ॥
पीने उन्नते मुखे ययोः ॥ ३।४६।२० ॥
चार्विति । चारु स्मितं यस्याः तत्संबोधनम् नदी उम्भसा कूलमिव शोभनावयवैर्मे मनो हरसि ॥ ३।४६।२१ ॥
करान्तेति । करान्तेन अङ्गुष्ठप्रदेशिनीचक्रमानेन मितं परमितं मध्यं यस्याः सा ऽसि एवं रूपं यस्याः सा नारी देव्यादिर्मया दृष्टपूर्वा न ॥ ३।४६।२२ ॥
रूपमिति । अग्र्यम् अत्युत्तमं ते रूपादिकम् इह राक्षससेविते कान्तारे वने वासश्च मे चित्तमुन्मादयन्ति परस्परं विरुद्धधर्मयोरत्युत्तमरूपादिराक्षससेवितवनवासयोः कथमेकत्र समावेश इत्यत्र हेतोरज्ञानेन मे चित्तं भ्रमतीत्यर्थः ॥ ३।४६।२३ ॥
सेति । यतः घोराणां राक्षसानामयं वनाधिकरणको वासः त्वया तु रम्याणि प्रासादाग्राणि संपन्नानि फलपुष्पादिसमन्वितानि नगरोपवनानि च वरं माल्यादि च आचरितुमुपभोक्तुं युक्तानि अतः सा अत्युत्तमरूपादिविशिष्टा त्वं प्रतिक्राम इतो गच्छ इह वस्तुं त्वं नार्हसि । सार्धश्लोकद्वयमेकान्वयि ॥ ३।४६।२४२६ ॥
भर्तारमिति । त्वद्युक्तं त्वत्संबन्धवन्तं भर्तारमहं वरं श्रेष्ठं मन्ये अतस्त्वं का भवसि तद्वदेत्यर्थः । ननु त्वमेव बुद्ध्या जानीहीत्यत आह–रुद्राणां मरुतां वा वसूनां वा देवता त्वं मे प्रतिभासि ॥ ३।४६।२७ ॥
नेति । यतो राक्षसानामयमेतद्वनाधिकरणको वासः अतः गन्धर्वादय इह न गच्छन्ति त्वं कथमिहागता ॥ ३।४६।२८ ॥
अत्र निवासे भीत्यन्तरमप्यस्तीत्याह–इहेति । इह शाखामृगादयः सन्ति तेभ्यः कथं न बिभ्यसे बिभेषि तत्र शाखामृगा वानरादयः द्वीपिव्यार्घयोरिहावान्तरजातिपरत्वान्न पौनरुक्त्यम् तरक्षवो मृगादनाः महाव्याघ्राः ॥ ३।४६।२९ ॥
मदान्वितानामिति । महारण्ये मदान्वितानामत एव घोराणां तरस्विनामतिवेगवतां कुञ्जराणाम् एका त्वं कथं न बिभेषि संबन्धसामान्यविवक्षया षष्ठी ॥ ३।४६।३० ॥
का ऽसीति । का किंनामासि कस्य संबन्धिन्यसि कुतो देशात् किंनिमित्तं च घोरान् राक्षससेवितान् दण्डकान् एका त्वं चरसि ॥ ३।४६।३१ ॥
इतीति । महात्मना अतिप्रयत्नशीलेन रावणेन प्रशस्ता कृतप्रशंसा वैदेही विदेहकुले प्रादुर्भूता मैथिली मिथिलोद्भवा सीता द्विजातिवेषेणागतं तं रावणं दृष्ट्वा सर्वैः अतिथिसत्कारैः पूजयामास । सार्धश्लोक एकान्वयी ॥ ३।४६।३२३३ ॥
सत्कारप्रकारमाह–उपेति । तदा रावणप्रश्नोत्तरकाले एव पूर्वमासनमुपानीय दत्त्वा पाद्येन अभिनिमन्त्र्य सत्कृत्य च सौम्यदर्शनं तं रावणं सिद्धं पाकनिष्पन्नं भक्ष्यमिति शेषः, इत्यब्रवीत् ॥ ३।४६।३४ ॥
ननु संन्यासिविलक्षणवचनोच्चारणात् संन्यासित्वाभावनिश्चयात् कथमेवं सत्कारः कृत इत्यत आह–द्विजातीति । द्विजातिवेषेण उपवीतधारित्वादिना समागतं पात्रकुसुम्भधारिणमत एव उद्द्वेष्टुमनादर्तुमशक्यं रावणम् उपायदर्शनात् मदुद्देश्यकोपकार एतद्विनाशहेतुरित्युपायज्ञानात् येन प्रकारेण आगतं प्राप्तं सामग्रीजातं तथा तेन प्रकारेण न्यमन्त्रयत् ॥ ३।४६।३५ ॥
तत्प्रकारमाह–इयमिति । हे ब्राह्मण इयं वृषी ऋषियोग्यासनं कामं यथेच्छमास्यताम् इदं पाद्यं च प्रतिगृह्यताम् उत्तममिदं वनजातं वनोद्भवं फलादि सिद्धं पाकादिना संपन्नम् अतो ऽव्यग्रमिहोपभुज्यताम् ॥ ३।४६।३६ ॥
निमन्त्र्यमाण इति । निमन्त्र्यमाणो रावणः प्रतिपूर्णभाषिणीम् अतिथियोग्यकृत्स्नवचनोच्चारणकर्त्रीं नरेन्द्रपत्नीं मैथिलीं प्रसमीक्ष्य आत्मवधाय स्वविध्वंसाय प्रसह्य हठात् तस्याः मैथिल्याः हरणे मनः दृढं यथा भवति तथा समर्पयामास ॥ ३।४६।३७ ॥
तत इति । ततः रावणाभिप्रायज्ञानानन्तरं सुवेषं नित्यं मनोहरवेषेण विशिष्टं मृगयागतं पतिं प्रतीक्षमाणा तदागमनमिच्छन्ती अत एव निरीक्षमाणा इतस्ततो ऽवलोकयन्ती सीता हरितवनमेव ददर्श रामलक्ष्मणौ तु नैव ददर्श ॥ ३।४६।३८ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे षट्चत्वारिंशः सर्गः ॥ ३।४६ ॥