मारीचवधानन्तरकालिकं रामवृत्तान्तमुक्त्वा सीतावृत्तान्तमाह–आर्तेत्यादिभिः । भर्तुर्भर्तृस्वरस्य सदृशं तमार्तस्वरं विज्ञाय त्वं गच्छ राघवं जानीहि क्वास्तीति बुध्यस्व इति सीता लक्ष्मणमुवाच । भर्तुः सदृशमित्युक्त्या नेदं रामवचः इति सीतया ज्ञातमिति सूचितम्, जानीहीत्युक्त्या केन कथमेवं शब्दः कृत इति तद्विषयिणी जिज्ञासा सूचिता ॥ ३।४५।१ ॥
सीतावचनान्तराण्याह–न हीति । क्रोशतः मां त्वां च आह्वयतः परमार्तस्य कस्यचिच्छब्दो मया भृशं श्रुतः अतः मे जीवितं प्राणाः हृदयं मनश्च स्थाने स्वस्वदेशे नैवावतिष्ठते एतेन सीतायाः दयालुतातिशयः सूचितः ॥ ३।४५।२ ॥
आक्रन्दमानमिति । शरणैषिणं स्वरक्षाकामं सिंहानां गोवृषमिव रक्षसां वशमापन्नम् अत एव आक्रन्दमानं तं जनं भ्रातरं च क्षिप्तं त्वं त्रातुमर्हसि अतः भ्रातरम् अभिधाव भ्रातरमभिधावेत्युक्त्या तदनुमत्यैवं आक्रन्दमानजनस्य रक्षा कर्तव्येति सूचितम् रक्षसां वशमापन्नमित्यनेन रावणप्रेरणयैव मारीचो ऽत्रागत इति सूचितम् तेन तस्यात्रागमने स्वातन्त्र्याभावो व्यञ्जितः, रामं त्रातुमर्हसीत्युक्त्या दूरगमनेन तद्विषयः संशय उत्पन्न इति व्यञ्जितं तेन तत्र स्नेहातिशयो ध्वनितः सार्धश्लोक एकान्वयि ॥ ३।४५।३ ॥
नेति । भ्रातुः शासनमाज्ञाय तथोक्तो लक्ष्मणस्तु न जगाम ॥ ३।४५।४ ॥
तमिति । ततः लक्ष्मणगमनाभावाद्धेतोः क्षुभिता जनकात्मजा तं लक्ष्मणमुवाच लक्ष्मणप्रेषणहेतुकतद्भयोत्पादकवचनमुच्चारयामास । अर्धं पृथक् । तद्वचनाकारमाह– हे सौमित्रे यत् यस्मात् हेतोः अस्यां सहायरहितायाम् अवस्थायां भ्रातरं त्वं नाभिपत्स्यसे अतः मित्ररूपेण भ्रातुः शत्रुवदसि । अर्धद्वयमेकान्वयि । यद्वा इदमप्यर्धं पृथक्–तथाहि भ्रातुः मित्ररूपेण हेतुना त्वमपि शत्रुवद्रामशत्रुत्वापन्नराक्षसशत्रुतुल्यो ऽसि शत्रुभिन्ने ऽपि शत्रुत्वबुद्धेर्लोके प्रसिद्धत्वादिति तात्पर्यम्, एतेन यदि रामसमीपे त्वं न गमिष्यसि तर्हि एकाकिनं त्वामवलोक्य तच्छत्रव इहाप्यापतिष्यन्तीति व्यञ्जितं तेन एकत्रैव द्वाभ्यां स्थातव्यमिति ध्वनितम् ॥ ३।४५।५ ॥
यदिति । यत् यस्मात् हेतोः विनशी रिपुसूदनः त्वम् अस्यां सहायरहितायामवस्थायां भ्रातरं रामं नाभिपत्स्यसे तस्मात् हेतोः हे लक्ष्मण मत्कृते मद्रक्षार्थम् अन्तं स्वविनाशमिच्छसीत्यनुमीयते इति शेषः, एतेन अस्मिन् समये रामसमीपगमनमन्तरा ते महत्यपकीर्तिर्भवितेति व्यञ्जितम् ॥ ३।४५।६ ॥
लोभादिति । मत्कृते मद्रक्षार्थं यो लोभः मयि गते इमां को रक्षिष्यतीति वैचित्यं तस्मात् हेतोः राघवं नानुगच्छसि चेत् तर्हि ते अप्रियं व्यसनमपवादरूपदुःखं, भ्रातरि ते स्नेहो नास्तीति चाहं मन्ये ॥ ३।४५।७ ॥
ननु त्वद्रक्षणार्थं स्थितवति मयि भ्रातृस्नेहाभावविषया बुद्धिः कथमित्यत आह–तेनेति । तेन मद्रक्षणीयात्वेन हेतुना महाद्युतिं राममपश्यन् विस्रब्धं यथा भवति तथा त्वं तिष्ठसि तेन रक्षणीयात्वेनोपलक्षितया इह तिष्ठन्त्या मया यत्प्रधानः यो राम एव प्रधानो यस्य स त्वमागतः तस्मिन् रामे संशयमापन्ने सति किं कर्तव्यं भवेत् न किमपीत्यर्थः । सार्धश्लोक एकान्वयी ॥ ३।४५।८ ॥
एवमिति । मृगवधूमिव त्रस्तामत एव बाष्पशोकसमन्वितामेवं ब्रुवाणां वैदेहीं लक्ष्मणो ऽब्रवीत् । अर्धद्वयमेकान्वयी ॥ ३।४५।९ ॥
तद्वचनाकारमाह–पन्नगेति । हे वैदेहि तव भर्ता पन्नगादिभिर्जेतुमशक्यः न संशयः अत्र संदेहो न ॥ ३।४५।१० ॥
तदेव भङ्ग्यन्तरेणाह–देवीति । हे देवि वासवोपमं रामं समरे यः प्रतियुध्येत सः देवादिषु न विद्येत अतः रामः समरे अवध्यः अतः एवं वक्तुं त्वं नार्हसि । अर्धपञ्चकमेकान्वयि ॥ ३।४५।१११३ ॥
ननु तस्यातिबलवत्वे ऽपि तत्साहाय्यार्थं त्वया गन्तव्यमित्यत आह–नेति । राघवं विना अस्मिन् वने हातुं त्यक्तुं त्वां नोत्सहे । अर्धं पृथक् । ननु तत्साहाय्यसिद्धिः कथं भविष्यतीत्यत आह–अनिवार्यमिति । बलवतां सैन्यसंयुक्तानां बलैः सैन्यैः समुद्युक्तैः एकीभूय कृतोद्योगैः सामरैः अमरसहितैः सेश्वरैर्ब्रह्मादित्रितयसहितैः त्रिभिर्लोकैश्च तस्य रामस्य बलम् अनिवार्यम् अतस्ते हृदयं निर्वृतं सानन्दमस्तु अतस्तव त्वया संतापस्त्यज्यताम् ॥ ३।४५।१४१५ ॥
आगमिष्यतीति । ते भर्ता शीघ्रमागमिष्यति तस्योच्चारयितुः स्वरः सः शरणार्थी न कश्चित् दैवतः रामं विजिगीषुरपि न व्यक्तं स्पष्टमेतदस्मासु ॥ ३।४५।१६ ॥
ननु किमेतदित्यत आह–गन्धर्वेति । तस्य मृगाकृतेः रक्षसः गन्धर्वनगरप्रख्या मिथ्यात्वेन गन्धर्वनगरसदृशी माया एतेन मद्गमने न प्रयोजनमिति ध्वनितम् । अर्धं पृथक् । मम गमनयोग्यतापि नास्तीत्याह–न्यासेति । यतस्त्वं महात्मना रामेण मयि न्यस्ता मत्समीपे मद्रक्षात्वेन संस्थापिता ऽतस्त्वं न्यासभूता ऽसि अवश्यं रक्षणीया ऽसीत्यर्थः, अतः इह अस्मिन् समये त्वां त्यक्तुमहं नोत्सहे ॥ ३।४५।१७ ॥
ननु न्यासभूतात्वे ऽपि भयाभावात् त्वद्गमने का क्षतिरित्यत आह–कृतेति । हे कल्याणि । खरस्य निधने रामकर्तृकवधे सति एतैर्निशाचरैः जनस्थानवधं जनस्थानस्थोर्वरितराक्षसध्वंसं प्रति वयं कृतवैराः किंच जनस्थानवधं प्रति जनस्थानध्वंससमये खरस्य निधने सति निशाचरैः वयं कृतवैराः अत एव महावने हिंसाविहाराः राक्षसाः विविधा वाचो व्याहरन्ति अतश्चिन्तयितुं त्वत्त्यक्तमदवलोकनेन रामे चिन्तामुत्पादयितुं नार्हति । अर्धचतुष्टयमेकान्वयि ॥ ३।४५।१८१९ ॥
लक्ष्मणेनेति । एवं गमनाभावबोधकवाक्येन उक्ता अत एव क्रुद्धा स्वीकृतकोपा अत एव संरक्तलोचना सीता सत्यवादिनं लक्ष्मणं परुषं लक्ष्मणप्रेषणार्थं रूक्षं वाक्यमब्रवीत् ॥ ३।४५।२० ॥
तद्वचनाकारमाह–अनार्येति । अनार्यकरुणारम्भ अनार्येषु क्षुद्रराक्षसेषु करुणाया आरम्भो यस्य तत्सदृशः तत्संबाधनम् अत एव नृशंसकुलपां राक्षससमूहापालकानां स नो रचयितेव तत्संबोधनम् । स न रामस्य महत् व्यसनं तव प्रियं त्वत्प्रीतिविषयीभूतं मन्ये तेन हेतुना रामस्य व्यसनं सहायाभावप्रयुक्तदुःखाभासं दृष्ट्वा ज्ञात्वा एतानि गमनाभावबोधकवचनानि प्रभाषसे आचारक्विपा सदृशलाभः ॥ ३।४५।२१२२ ॥
नन्वतिप्रतापवतो रामस्य कथं व्यसनसम्भावनेत्यत आह–नेति । त्वद्विधेषु अस्मद्धारणाभिन्नविविधधारणावत्सु अत एव नृशंसेषु क्रूरेषु अत एव नित्यं प्रच्छन्नचारिषु अदुर्ज्ञेयाचरणविशिष्टेषु सपत्नेषु यत् पापं पापकर्म भवेत् तत् नैव चित्रम् एतेन राक्षसानां विश्वासो न कार्य इति ध्वनितम् । त्वच्छब्दो ऽन्यपर्यायः ॥ ३।४५।२३ ॥
सुदुष्ट इति । सुदुष्टः शोभनाः दुष्टाः यस्मात् स दुष्टध्वंसक इत्यर्थः । अत एव एकं
राममेक एवानुगच्छसि अत एव हेतोः रामगमनकारणीभूतस्य मृगस्य भरतेन शोभानिरीक्षणरतिमता प्रयुक्तः अत्र संस्थापितस्त्वं यदि प्रतिच्छन्नः राक्षसभिया निलीनः न गच्छसीत्यर्थः, तर्हि हे सौमित्रे मम तव च भरतस्य मृगशोभानिरीक्षणरतस्य रामस्य च तत् इहागमनप्रयोजनं न सिध्यति रामस्य प्रयोजनं मुनिरिपुध्वंसः आवयोः प्रयोजनं तत्सेवा तयोः सिद्धिर्न स्यादित्यर्थः । एतेन रामादर्शनासहिष्णुत्वं सीतायाः व्यञ्जितम् को वा यद्यर्थे, अपरो हेतौ । सार्धश्लोक एकान्वयी ॥ ३।४५।२४ ॥
ननु रक्षकरहितां त्वां विहाय गन्तुमशक्यतया मत्कर्तृकगमनस्यावश्यकतया च युगपत् द्वयोर्विरोधेन त्वामयोध्यां शीघ्रं प्रापय्य रामसन्निधावहं गमिष्यामीत्यत आह–कथमिति । इन्दीवरश्यामम् इन्दीवरश्यामतासदृशश्यामताविशिष्टं पद्मनिभेक्षणं पद्मनिभे ईक्षणे यस्य तं जनं साक्षात् ब्रह्मादिद्वारा च सर्वेषां जनयितारं भर्तारं रामम् उपसंश्रित्य वने सहागत्य पृथक् तं विना कां सुखस्वरूपामप्ययोध्यां कथमयेयं रामं विहाय गन्तुं न समर्थेत्यर्थः, अतः हे सौमित्रे तव समक्षं प्राणांस्त्यक्ष्यामि असंशयम् अत्र संशयो न । तत्र हेतुः–रामं विना भूतले क्वचिदपि स्थले क्षणमपि नैव जीवामि । अर्धचतुष्टयमेकान्वयि ॥ ३।४५।२५२६ ॥
इतीति । रोमहर्षणं परुषं वाक्यं सीतया इत्यनेन प्रकारेण उक्तः प्राञ्जलिर्जितेन्द्रियः सः लक्ष्मणः अब्रवीत् । तद्वचनाकारमाह–यतो भवती मम दैवतं देवता अतः उत्तरं भवद्वाक्यसदृशरूक्षवाक्यं वक्तुं नोत्सहे ॥ ३।४५।२७२८ ॥
वाक्यमिति । हे मैथिली एषु प्राकृतेषु लोकेषु विद्यमानानां नारीणामेषः रूक्षवदनवान् स्वभावो दृश्यते अत एव स्त्रियः प्राकृतनार्यः विमुक्तधर्माः विमुक्तः त्यक्तो धर्मः पारतन्त्र्यं याभिस्ताः अत एव चपलाः अत एव तीक्ष्ण उग्रो यो भेदः तस्य कराः संपादिका भवन्तीति शेषः, अत एव स्त्रीषु प्राकृतनारीषु अप्रतिरूपम् असदृशं वाक्यं चित्रं न, एतेन प्राकृतविलक्षणायां भवत्यां भ्रातरि प्रीतिस्ते नास्तीत्यादिवाक्यमयुक्तमिति व्यञ्जितम् । अत एव हे वैदेहि हे जनकात्मजे उभयोः श्रोत्रयोः तप्तनाराचसंनिभम् ईदृशं भवदुक्तसदृशं वाक्यम् अन्योच्चारितवचनं न सहे भवत्या उक्तं तु सर्वं सहे इति तात्पर्यम् अत एव उत्तरं नोत्सहे वक्तुं दैवतं भवती ममेत्यनेन न विरोधः । सार्धश्लोकद्वयमेकान्वयि ॥ ३।४५।२९३० ॥
उपेति । न्यायवादी त्वद्रक्षायां रामेण नियुक्तः त्वां विहाय न गमिष्यामीत्याद्युचितवक्ताहं यथा येन प्राकरेण परुषं भ्रातरि तव स्नेहो नास्तीत्यादिरूक्षं त्वयोक्तः तथा साक्षिणः सन्तः सर्वे वनेचराः वनदेवाः उपशृण्वन्तु, एतेन रामसंनिधौ मदुक्तित्वदुक्त्योरुत्तमाधमत्वनिर्णयो भवितेति ध्वनितम् । एतेन लक्ष्मणस्य रामवचनविस्मृतिरिति ध्वनितम् ॥ ३।४५।३१ ॥
ननु प्रकृतलोकोक्तिवदाशङ्कामात्रमूलिकेयं ममोक्तिर्न तात्त्विकीति रामसमीपनिर्णयानर्हेत्यत आह–धिगिति । यत् यतः प्राकृतस्त्र्युक्तिहेतोः यत् प्राकृतस्त्र्युक्तिमाश्रित्येत्यर्थः मामेवं विशङ्कसे तां विनश्यन्तीं प्रतिक्षणं विध्वंसं प्राप्नुवतीं त्वां प्रकृतविलक्षणभिन्ना नारीं धिक् तदनुसारेण भवतीभिर्न वर्तितव्यमित्यर्थः ॥ ३।४५।३२ ॥
स्त्रीत्वादिति । गुरुवाक्यं रामनियोगे व्यवस्थितम् अत एव दुष्टस्वभावेन व्यवस्थितं मां स्त्रीत्वात् प्राकृतस्त्रीत्वमनुसृत्य यदुक्तं तदनुचितमिति शेषः । अर्धं पृथक् । विविधोक्त्या प्रार्थिताया अपि गमननिवृत्तिबोधकवाक्यानुक्त्यागमनाभिप्रायमालक्ष्याह–गच्छामीति । यत्र काकुत्स्थो रामस्तत्र गच्छामि ते स्वस्त्यस्तु ॥ ३।४५।३३ ॥
रक्षन्त्विति । घोराणि अनीक्षितसाधकत्वेन क्रूराणि यानि निमित्तानि दुःशकुनानि मे प्रादुर्भवन्ति तेभ्यः समग्रा वनदेवताः त्वां रक्षन्तु अत एव रामेण सहागतो ऽहं त्वां पुनः पश्येयम् । सार्धश्लोक एकान्वयी ॥ ३।४५।३४ ॥
लक्ष्मणेनेति । रुदन्ती रामदर्शनाभावहेतुकरोदनं कुर्वती अत एव तीव्रबाष्पपरिप्लुता लक्ष्मणेनैवमुक्ता जनकात्मजा वाक्यं प्रत्युवाच ॥ ३।४५।३५ ॥
तद्वचनाकारमाह–गोदावरीमिति । हे लक्ष्मण रामेण हीनाहं गोदावरीं प्रवेक्ष्यामि तद्द्वारा साकेतं गमिष्यामीत्यर्थः, आत्मनो देहमाबन्धिष्ये अथवा विषमे त्यक्ष्ये ॥ ३।४५।३६ ॥
पिबामीति । हुताशनं वह्निमपुरुषपुरुषाभासं न स्पृशे एतेन देहपीडादिसत्त्वे रामदर्शनाभावजनितदुःखस्याल्पत्वं स्यादिति हेतुर्व्यक्तः ॥ ३।४५।३७ ॥
इतीति । शोकसमन्विता सीता उदरं प्रजघान ॥ ३।४५।३८ ॥
तामिति । रुदन्तीं तां सीतां लक्ष्मणः आश्वासयामास सीता तु भर्तुर्भ्रातरं लक्ष्मणं किंचिन्नैवोवाच ॥ ३।४५।३९ ॥
तत इति । ततः आश्वासनानन्तरम् अभिवाद्य अभिवादनोचितशब्दमुच्चार्य अभिप्रणम्य प्रणामायाङ्गानि संनमय्य बहुशो बहुवारं मैथिलीं किंचिदवेक्ष्यमाणः कृताञ्जलिरात्मवान् लक्ष्मणः रामस्य समीपमाजगाम ॥ ३।४५।४० ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे पञ्चचत्वारिंशः सर्गः ॥ ३।४५ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे पञ्चचत्वारिंशः सर्गः ॥ ३।४५ ॥