लक्ष्मणाज्ञापनानन्तरकालिकं रामवृत्तान्तमाह–तथेत्यादिभिः । तथा उक्तप्रकारेण भ्रतारं लक्ष्मणं समादिश्य आज्ञाप्य रघुनन्दनो रामः जाम्बूनदमयः त्सरुः मुष्टिर्यस्मिंस्तमसिं खड्गं दधार ॥ ३।४४।१ ॥
तत इति । ततः खड्गधारणानन्तरं त्रिविनतं त्रिषु स्थलेषु विनतम् अवनतं किंच त्रयो ब्रह्मविष्णुमहेश्वराः विनताः नम्रीभूताः कृतप्रणामा इत्यर्थः यस्मै तम् आत्मविभूषणं चापमादाय द्वौ कलापौ तूणीरे आबध्य उदग्रविक्रमः महापराक्रमवान् रामो जगाम ऽकलापो भूषणे बर्हे तूणीरे संहते ऽपि चऽ इत्यमरः ॥ ३।४४।२ ॥
तमिति । आपतन्तं राजेन्द्र राजराजं तं रामं वन्यराजः वन्येषु मृगेषु राजते शोभते स मारीचः निरीक्ष्य त्रासात् रामभयात् अन्तर्हितो बभूव पुनः त्रासात् रावणभयात् संदर्शने अभवत् ॥ ३४।३ ॥
बद्धेति । बद्धासिर्गृहीतखड्गो रामः धनुरादाय यतः यत्र मृगस्तं देशं प्रदुद्राव अत एव रूपेण स्वस्वरूपकान्त्या अग्रतो द्योतयन्तमिव तं मृगं पश्यति स्म ॥ ३।४४।४ ॥
अवेक्ष्येति । इषो बाणस्य पातात् पातशङ्कातः अतिवृत्तं भीतमित्यर्थः, अत एव धावन्तं कदाचन रावणवचनस्मरणकाले लोभयानं हस्तग्रहणयोग्यतया दृश्यमानं मृगम् अवेक्ष्यावेक्ष्यास्तीति शेषः ॥ ३।४४।५ ॥
शङ्कितमिति । शङ्कितं रामबाणपातसम्भावनया प्राप्तशङ्कम् अत एव समुद्भ्रान्तं भीतम् अत एव अम्बरमाकाशमुत्पतन्तमुलङ्घयन्तमिव केषुचित् वनोद्देशेषु दृश्यमानं केषुचिददृश्यं च अत एव छिन्नाभ्रैः अभ्रखण्डैः संवीतमाच्छन्नं चन्द्रमण्डलमिव मुहूर्तादेव निकटे मुहुर्ददृशे मुहूर्ताद्दूरात्प्रकाशते ॥ ३।४४।६७ ॥
दर्शनेति । मृगतां मृगत्वं गतः प्राप्तः स मारीचः दर्शनादर्शनेनैव अस्य रामसंबन्धिनः आश्रमस्य सदूरं दूरत्वविशिष्टं यथा भवति तथा राघवं राममपाकर्षत ॥ ३।४४।८ ॥
आसीदिति । अविवशः क्रोधादिवशभिन्नः तेन मोहितः शब्दोच्चारणमात्रेणैव हितकारी काकुत्स्थो रामः तेन क्रुद्धः क्रुद्धत्वेन प्रतीयमान आसीत् । अथ अतः सुश्रान्तः दूरदेशमागमनेन सुश्रान्तत्वेन प्रतीयमानो रामः शाद्वले घासविशिष्टदेशे छायाम् आश्रित्य अवतस्थे ॥ ३।४४।९ ॥
स इति । अन्यैः मृगैः परिवृतः मृगरूपः स निशाचरः अदूरात् प्रत्यदृश्यत अत एव तं राममुन्मादयामास भ्रान्त्यनुकूलव्यापारं चकार ॥ ३।४४।१० ॥
ग्रहीतुमिति । ग्रहीतुकामं तं रामं दृष्ट्वा अभ्यधावत संत्रासात् ग्रहणभयात् क्षणादेव पुनरन्तर्हितो ऽभवत् ॥ ३।४४।११ ॥
पुनरिति । ततः तस्मात् स्थानात् दूरात् दूरे विद्यमानात् वृक्षखण्डात्पुनर्विनिःसृतं मृगं दृष्ट्वा हन्तुं कृतनिश्चयो राघवो रामः सूर्यरश्मिप्रतीकाशं ज्वलन्तं पन्नगमिव ज्वलन्तं ब्रह्मविनिर्मितं ब्रह्मणा सृष्टमस्त्रं शरमुद्धृत्य दृढे चापे संधाय विकृष्य च ज्वलितं तमेव मृगमुद्दिश्य मुमोच, अत एव शरोत्तमः दीप्तं मृगरूपस्य मारीचस्य शरीरं विनिर्भिद्य हृदयं बिभेद । सार्धश्लोकचतुष्टयमेकान्वयि ॥ ३।४४।१२१५ ॥
तालेति । अथ बाणकर्तृकभेदानन्तरं तालमात्रमुत्प्लुत्य न्यपतत् ॥ ३।४४।१६ ॥
व्यनददिति । अल्पजीवितः अत एव म्रियमाणो मारीचः भैरवं नादं धरण्यां व्यनदत् कृत्रिमां तनुं जहौ च ॥ ३।४४।१७ ॥
स्मृत्वेति । रक्षो मारीचः तत् रावणोक्तं वचनं स्मृत्वा केन कीदृशानुकृतशब्देन सीता लक्ष्मणमिह प्रस्थापयेत् तां सीतां शून्ये रावणो हरेत् इति दध्यौ चिन्तनपूर्वकनिश्चयं चकार ॥ ३।४४।१८ ॥
स इति । स मारीचः प्राप्तकालमाज्ञाय ज्ञात्वा हा सीते हा लक्ष्मणेति च राघवस्य सदृशमेव स्वनं चकार ॥ ३।४४।१९ ॥
तेनेति । अनुपमेन शरेण तेन रामेण मर्मणि निर्विद्धमत एव मृगरूपं त्यक्त्वा राक्षसं रूपमास्थिते मारीचः जीवितं त्यजन् सन् सुमहाकायं चक्रे । सार्धश्लोक एकान्वयी ॥ ३।४४।२० ॥
तमिति । भूमौ पतितं रुधिरसिक्ताङ्गं महीतले चेष्टमानं तं राक्षसं दृष्ट्वा लक्ष्मणस्य वचः स्मरन् सन् रामो मनसा सीतां जगाम । सार्धश्लोक एकान्वयी ॥ ३।४४।२१२२ ॥
लक्ष्मणवच एवाह–मारीचस्येति । एषा मारीचस्य माया या लक्ष्मणेन पूर्वोक्ता तत्तथैव अभवत् अत एव मया मारीचो हतः तदिति सामान्ये नपुंसकम् ॥ ३।४४।२३ ॥
हेति । हा सीते इत्यादिमहास्वनमाक्रुश्य सो ऽयं राक्षसो ममार । श्रुत्वा मारीचोक्तमिति शेषः, सीता महाबाहुर्लक्ष्मणश्च कथं भवेत् तिष्ठेत् कामवस्थां च गमिष्यति इति संचिन्त्य धर्मात्मा रामः हृष्टतनूरुहः स्नेहात्पुलकितगात्रो ऽभवदिति शेषः । श्लोकद्वयमेकान्वयि ॥ ३।४४।२४२५ ॥
तत्रेति । मृगरूपं राक्षसं हत्वा तत्स्वनं च श्रुत्वा विद्यमानं रामं विषादजं सीतावियोगजनितं तीव्रं भयमाविवेश ॥ ३।४४।२६ ॥
निहत्येति । अन्यं लोकविलक्षणं मृगं मारीचं हत्वा मांसं तापसोपभोग्यफलादिकमादाय त्वरमाणः सन् अभिमुखं जनस्थानं ससार जगाम ॥ ३।४४।२७ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे चतुश्चत्वारिंशः सर्गः ॥ ३।४४ ॥