मृगावलोकनानन्तरकालिकं सीतावृत्तान्तमाह–सेत्यादिभिः । कुसुमानि विचिन्वती सुश्रोणी मृष्टहाटकवर्णिनी प्रतप्तसुवर्णसदृशवर्णविशिष्टा अनव़द्याङ्गी दोषसंसर्गरहिताङ्गविशिष्टा सा सीता हेमराजतवर्णाभ्यां सुवर्णरजतसदृशवर्णविशिष्टाभ्यां पार्श्वाभ्याम् उपशोभितं मृगं संप्रेक्ष्य प्रहृष्टा सती भर्तारं लक्ष्मणं च चक्रन्द आजुहाव । श्लोकद्वयमेकान्वयि ॥ ३।४३।१२ ॥
आहूयेति । आगच्छागच्छेत्याहूय तं मृगं पुनरभिवीक्षते ॥ ३।४३।३ ॥
ताविति । वैदेह्या आहूतौ तं सीताधिष्ठितदेशं वीक्षमाणौ रामलक्ष्मणौ मृगं ददृशतुः ॥ ३।४३।४ ॥
शङ्कमान इति । तं मृगं दृष्ट्वा शङ्कमानो लक्ष्मणः वाक्यमब्रवीत् । तद्वचनाकारमाह– एनं मृगं तं प्रसिद्धं मारीचं राक्षसमेवाहं मन्ये ॥ ३।४३।५ ॥
चरन्त इति । हे राम पापेन पापकर्मनिरतेन कामरूपिणा अनेन राक्षसेन कर्त्रा उपाधिना कपटरूपेण मृगयां चरन्तः राजानः निहताः ॥ ३।४३।६ ॥
अस्येति । हे पुरुषव्याघ्र भानुमत् प्रकाशविशिष्टं कृतं निष्पादितं गन्धर्वपुरसंनिभम् इदं मृगरूपं मायाविदः मायानां वेदितुः अस्य मारीचस्य मायैव ॥ ३।४३।७ ॥
ननु कथं त्वं वेत्सीत्यत आह–मृग इति । हे जगतीनाथ एवंविधो रत्नविचित्रः मृगो जगत्यां नास्ति अतः एषा मायैव संशयो न ॥ ३।४३।८ ॥
एवमिति । छद्मना तत्कपटरूपेण आहृता प्रापिता चेतना बुद्ध्यन्तरं यया सा संहृष्टा शुचिस्मिता सीता एवं ब्रुवाणं लक्ष्मणं प्रतिवार्य काकुत्स्थं राममुवाच, अनेन सीतायाः लीलाप्रियात्वं मर्यादापालकत्वं वा सूचितम् ॥ ३।४३।९ ॥
तद्वचनाकारमाह–आर्येति । हे आर्यपुत्र असौ अभिरामो मृगः मे मनो हरति अतः एनम्
आनय । तत्प्रयोजनमाह–नो ऽस्माकं क्रीडार्थं भविष्यति ॥ ३।४३।१० ॥
ननु बहूनां मृगाणामिह सत्त्वात्कुतो ऽस्मिन्नेव स्पृहेत्यत आह–इहेति । अस्माकम् इह आश्रमपदे यद्यपि पुण्यदर्शनाः सहिताः संघीभूताः मृगाश्चरन्ति रूपश्रेष्ठाः महाबलाः चमरादयश्च विहरन्ति तथापि तेजआदिना उपलक्षितो यथा अयं मृगसत्तमः पूर्वः प्रथमो मया दृष्टः तादृशः अन्यो मृगो न दृष्टः एतेन सर्वोत्तमत्वादस्मिन् स्पृहेति सूचितम् । श्लोकत्रमेकान्वयि ॥ ३।४३।१११३ ॥
नानेति । नानावर्णैर्विचित्राण्यङ्गानि यस्य सः रत्नबिन्दुभिः समन्वितो व्याप्तः शशिसंनिभो ऽयं मृगः वनं द्योतयन् सन् अव्यग्रं यथा स्यात् तथा द्योतते प्रकाशते ॥ ३।४३।१४ ॥
अहो इति । अस्य रूपं लक्ष्मीश्च अहो आश्चर्यम् शोभना स्वरसंपच्च अहो अतो मृगभूतः मृगत्वं प्राप्तः विचित्रः असौ मे हृदयं हरतीव ॥ ३।४३।१५ ॥
यदीति । जीवन्नेव मृगः यदि तव ग्रहणम् अभ्येति तदा आश्चर्यभूतं भवति अत एव विस्मयं सर्वेषामाश्चर्यं जनयिष्यति ॥ ३।४३।१६ ॥
समाप्तेति । समाप्तः वनवासः वनवासावधिर्येषां तेषामत एव राज्यस्थानां नो ऽस्माकमन्तःपुरे ऽपि भूषार्थ एष मृगो भविष्यति ॥ ३।४३।१७ ॥
भरतस्येति । दिव्यं दिव्यत्वेन प्रतीयमानम् इदं मृगरूपम् आर्यपुत्रस्य भरतस्य श्वश्रूणां मम च विस्मयं जनयिष्यति ॥ ३।४३।१८ ॥
जीवन्निति । मृगसत्तमः जीवन् सन् ते ग्रहणं न अभ्येति तर्हि रुचिरमजिनं चर्म तु किं भविष्यति ॥ ३।४३।१९ ॥
निहतस्येति । निहतस्य क्रूरतावशात् त्यक्तप्राणस्य अस्य मृगरूपस्य सत्त्वस्य जाम्बूनदमयत्वचि सत्यां शष्यवृष्यां कोमलतृणरचिततापसोचितासने विनीतायां प्रसारितायां जाम्बूनदमयत्वचि सुवर्णमयसदृशचर्मणि उपासितुं त्वया सह स्थातुमिच्छामि मृगमयत्वचेत्यावर्तते अत एव न सत्यसंकल्पात्वहानिः ॥ ३।४३।२० ॥
कामेति । कामवृत्तं स्वेच्छाविषयीभूतम् इदं मत्प्रेरितं रौद्रं कर्म यद्यपि स्त्रीणामसदृशमनुचितं मतं तथापि अस्य सत्त्वस्य वपुषा आश्चर्यमयरूपविशिष्टशरीरेण मम विस्मयो जनितः एतेन विस्मयनिवृत्तेः मत्कर्तृकप्रेरणमन्तरा सिद्ध्यभावेन इदं प्रेरणं प्रवृत्तमिति सूचितम् ॥ ३।४३।२१ ॥
तेनेति । काञ्चनरोम्णा स्वर्णमयरोमविशिष्टेन मणिप्रवरश्रृङ्गिणा इन्द्रनीलमणिसदृशश्रृङ्गविशिष्टेन तरुणादित्यवर्णेन तरुणादित्यवर्णवत् वर्णो वर्णनयोग्यता यस्मिन् अतिप्रकाशमानेनेत्यर्थः, नक्षत्रपथवर्चसा नक्षत्रपथवद्वर्चः बहुबिन्दुजनितविचित्रतेजो यस्य तेन मृगेण राघवस्यापि मनः विस्मयमहो एतद्धार्ष्ट्यमित्याश्चर्यमागतम् । सार्धश्लोक एकान्वयी ॥ ३।४३।२२ ॥
इतीति । सीतावचः श्रुत्वा अद्भुतं मृगं दृष्ट्वा च सीतया प्रचोदितस्तेन मृगनिष्ठेन रूपेण लोभितः यशः प्रख्यातिरूपलोभं प्रापितः हृष्टो राघवो रामः भ्रातरं लक्ष्मणमुवाच ॥ ३।४३।२३२४ ॥
तद्वचनाकारमाह–पश्येत्यादिभिः । हे लक्ष्मण उल्लसितां प्रकाशं प्राप्तां वैदेह्याः स्पृहां पश्य । ननु कथमेवमस्मिन्नेव मृगे स्पृहा जातेत्यत आह–रूपश्रेष्ठतया यः कश्चिन्मृगः अस्य समो भवेत् स एष बुद्धिस्थो मृगः नन्दनादौ न भविष्यति पृथिव्यां कुतः एतेनापूर्वदर्शनमेव स्पृहामुदपादयदिति व्यञ्जितम् । श्लोकद्वयमेकान्वयि ॥ ३।४३।२५२६ ॥
रूपश्रेष्ठत्वमाह–प्रतीति । प्रतिलोमाः तिर्यग्गामिन्यः अनुलोमाः ऋजुगामिन्यः रुचिराः कनकबिन्दुभिश्चित्राः रोमराजयः मृगमाश्रित्य शोभन्ते ॥ ३।४३।२७ ॥
पश्येति । दीप्तां दीप्तिविशिष्टमत एव अग्निशिखोपमां मेघात् शतह्रदां विद्युतमिव जृम्भमाणस्यास्य मृगस्य मुखान्निस्सरन्तीं जिह्वां पश्य ॥ ३।४३।२८ ॥
मसारेति । मसारगल्लर्कमुखः मसारः इन्द्रनीलः तस्य गल्लर्कः पानपात्रं तद्वन्मुखं यस्य शङ्खमुक्तानिभः शङ्खमुक्ताभ्यां सदृशमुदरं यस्य सः अनिरूप्यः कथमिदं रूपं प्राप्तमिति निरूपयितुमशक्यः असौ मृगः नाम प्रसिद्धं कस्य मनो न लोभयेत् ॥ ३।४३।२९ ॥
तदेव भङ्ग्यन्तरेणाह–कस्येति । जाम्बूनदमयप्रभं सुवर्णमयी प्रभा यस्य नानारत्नमयं दिव्यं क्रीडायोग्यम् इदं रूपं दृष्ट्वा कस्य मनो विस्मयं न व्रजेत् व्रजेदेवेत्यर्थः, एतेनैतत्प्राप्त्यनुकूलव्यापारः कर्तव्य इति सूचितम् ॥ ३।४३।३० ॥
ननु मायामये किमर्थमेवं विचार इत्यत आह–मांसेति । मांसहेतोः राजभोग्यवस्तुप्राप्त्यर्थं च धन्विनो राजानः मृगयायां महावने मृगान् घ्नन्ति एतेनैतत्प्रयत्ने द्वयोर्लाभो भवितेति ध्वनितम् ॥ ३।४३।३१ ॥
ननु महावने राजभोग्यवस्त्वभावात्कथं तदर्थं मृगहननमित्यत आह–धनानीति । महावने यतः मणिरत्नसुवर्णिनः अनेकविधमणिरत्नसुवर्णयुक्ताः विविधा धातवः सन्ति इति शेषः, अतः व्यवसायेन मृगादिनिवर्तनेन धनानि विचीयन्ते राजभिरिति शेषः, एतेन धनसंचयो ऽवश्यं कर्तव्य इति सूचितम् ॥ ३।४३।३२ ॥
तत्र हेतुमाह–तदिति । निचयवर्धनं कोशवृद्धिकारकं धनं नृ़णां सारं बलं तत्तस्माद्धनाद्धेतोः मनसा चिन्तितं सर्वं शुक्रस्य दैत्याचार्यस्येव त्यक्तप्राकृतबन्धस्य पुरुषस्येव वा भवतीति शेषः, । शुक्रशब्दस्य मुक्तपरत्वम् “सपर्यगाच्छुक्रमकायमव्रणम्” इत्यादिश्रुतिषु प्रसिद्धम् ॥ ३।४३।३३ ॥
ननु को ऽयमिति निश्चित्य गन्तव्यमित्यत आह–अर्थीति । येनार्थकृत्येन अर्थसाधककर्मणा अविचारयन् अल्पविचारं कुर्वन् अर्थी जनः संव्रजति तमर्थशास्त्रज्ञाः नीतिनिपुणाः अत एव अर्थ्याः अर्थसाधनचतुराः अर्थमर्थसाधकं प्राहुः ॥ ३।४३।३४ ॥
एतस्येति । एतस्य मृगरत्नस्य मृगश्रेष्ठस्य परार्धे अत्युत्तमे काञ्चनत्वचि सत्यां वैदेही उपवेक्ष्यति उपवेष्टुमिच्छति ॥ ३।४३।३५ ॥
तत्र हेमुमाह–नेति । स्पर्शने स्पर्शे एतस्य मृगत्वचः सदृशी कादली मृगविशेषत्वक् न प्रियकी च न प्रवेणी च न प्रियक्यादयो ऽपि मृगविशेषत्वक्पराः । तथा च वैजयन्ती– “कदली तु बिले शेते मृगी रूक्षोच्चकर्बुरैः । नीलाग्रैर्लोमभिर्युक्ता सा विंशत्यङ्गुलायता । प्रियकी रोमभिर्युक्ता मृदूच्चमसृणैर्घनैः” इति एतस्येति सामान्ये नपुंसकम् एतच्छब्देन मृगस्यैव परामर्शे कादल्यादिशब्दैर्मृगीविशेषाणामेव ग्रहणे च एतच्छब्दस्य पुल्लिङ्गत्वमिति दिक् ॥ ३।४३।३६ ॥
एष इति । श्रीमानेषः मृगः यश्च नभश्चरो दिव्यः उभौ एतौ तारामृगमहीमृगौ दिव्यौ क्रीडायोग्यौ एतेन तयोर्द्वयोरेव परस्परमुपमानोपमेयभावः सूचितः ॥ ३।४३।३७ ॥
नन्वयं कपटमृगो न वास्तव इत्यत आह–यदीति । एषा राक्षसस्य माया इति मां यत्त्वं वदसि अतः यदि अयं तथा राक्षसो भवेत् तर्हि अस्य वधो मया कर्तव्यः ॥ ३।४३।३८ ॥
तत्र हेतुमाह–एतेनेति । यतः एतेन मारीचेन पूर्वं मुनिपुङ्गवा हिंसिताः अनेन मृगयायां परमेष्वासाः बहवो जनाधिपाश्च निहतास्तस्मादयं मृगो वध्यः । श्लोकद्वयमेकान्वयि ॥ ३।४३।३९४० ॥
मायाविनोस्या ऽवश्यं विघातो भवितेति बोधयन् इतिहासमाह–पुरस्तादिति । पुरस्तात्पूर्वम् इह अस्मिन् वने वातापिः तपस्विनो द्विजान् परिमूय अनादृत्य उदरस्थः पूर्ववर्णितकपटेनोदरनिवासी सन् तपस्विनो द्विजान् हन्ति अहन् तत्र दृष्टान्तः स्वगर्भः अश्वतरीं गर्दभादश्वायामुत्पन्नामिव प्रसिद्धश्चाश्वतरीणां गर्भस्य मात्रुदरविदारणपूर्वकोत्पादः ॥ ३।४३।४१ ॥
स इति । स वातापिः महामुनिमगस्त्यमाससाद प्राप तस्य मुनेः स राक्ष्सः भक्ष्यो बभूव ॥ ३।४३।४२ ॥
समुत्थान इति । समुत्थाने श्राद्धावसाने तद्रूपं राक्षसरूपं कर्तुकामं राक्षसरूपत्वेनोदरं विदार्य निस्सरणकाममित्यर्थः समीक्ष्य ज्ञात्वा उत्स्मयित्वा उत्स्मित्य भगवानगस्त्यो वातापिमिदमब्रवीत् ॥ ३।४३।४३ ॥
तद्वचनाकारमाह–त्वयेति । हे वातापे अविगण्य अविगणय्य अनादृत्य द्विजश्रेष्ठाः परिभूताः विनाशिता इत्यर्थः, तस्माद्धेतोः जरां जीर्णतां गतः प्राप्तो ऽसि ॥ ३।४३।४४ ॥
तदिति । हे लक्ष्मण मद्विघं मत्सदृशं यो ऽतिमन्येत अतिक्रमेत् सः तद्रक्षो वातापिरिव न भवेत् म्रियेतेत्यर्थः ॥ ३।४३।४५ ॥
भवेदिति । यतो ऽगस्त्येन वातापिरिव मां गतः अयं राक्षसो हतो भवेत् अतः इह त्वं सन्नद्धो भव यन्त्रितो नियोजितस्त्वं मैथिलीं रक्ष च ॥ ३।४३।४६ ॥
अस्यामिति । अस्माकं यत् कृत्यं तत् अस्यां मैथिल्यामायत्तम् एतदधीनमित्यर्थः, अतः एनं मृगं ग्रहीष्यामि वधिष्यामि वा ॥ ३।४३।४७ ॥
यावदिति । मृगमानयितुम् आनेतुं यावद्गच्छामि तावत् मृगत्वचि गतस्पृहां वैदेहीं पश्य रक्षेत्यर्थः ॥ ३।४३।४८ ॥
त्वचेति । प्रधानया मायामय्या त्वचोपलक्षित एष मृगो ऽद्य न भविष्यति विनङ्क्ष्यतीत्यर्थः, अतो यावत्पृषतं हन्मि तावत् सीतया सीतारक्षणहेतुना अप्रमत्तेन त्वया भाव्यम् । सार्धश्लोक एकान्वयी ॥ ३।४३।४९ ॥
हत्वेति । हत्वा मृगं निहत्य चर्म तद्विषयक स्पृहामादाय छित्त्वा निवर्त्येत्यर्थः । अवखण्डनार्थकदोरूपम् शीघ्रमेष्यामि ॥ ३।४३।५० ॥
प्रदक्षिणेनेति । प्रदक्षिणेन सानुकूलेन जटायुषा सह मैथिलीं परिगृह्य प्रतिक्षणं शङ्कितः सन् अप्रमत्तो भव ॥ ३।४३।५१ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे त्रिचत्वारिंशः सर्गः ॥ ३।४३ ॥