रावणपरुषवचनश्रवणानन्तरकालिकं मारीचवृत्तान्तमाह–आज्ञप्त इत्यादिभिः । इत्यनेन प्रकारेण रावणेन प्रतिकूलमाज्ञप्तो निश्शङ्को रावणात् शङ्कारहितो मारीचो राजवत् परुषं वाक्यं राक्षसाधिपमब्रवीत् ॥ ३।४१।१ ॥
तद्वचनाकारमाह–केनेति । हे निशाचर पुत्रादिसहितस्य तव अयं सीतापहारो विनाशः विध्वंसोपायः केन पापकर्मणा उपदिष्टः ॥ ३।४१।२ ॥
क इति । सुखिना त्वया करणेन कः पापकृत् नाभिनन्दति अत एव हेतोः उपायतो मृत्युद्वारं केनोपदिष्टम् ॥ ३।४१।३ ॥
शत्रव इति । हे निशाचर हीनवीर्याः तव शत्रवः बलीयसा अतिबलवता शत्रुणोपरुद्धम् अत एव विनश्यन्तं त्वामिच्छन्ति ॥ ३।४१।४ ॥
तदेव भङ्ग्यन्तरेणाह–केनेति । स्वकृतेन क्षुद्रेण कर्मणा विनश्यन्तं त्वां य इच्छति तेनाहितबुद्धिना केनेदमुपदिष्टम् ॥ ३।४१।५ ॥
उचितवधोपेक्षा ते न युक्तेति बोधयन्नाह–वध्या इति । उत्पथमारूढं त्वां ये न निगृह्णन्ति ते वध्याः सर्वशः सचिवा न वध्यन्ते खलु अनुचितमेतदित्यर्थः ॥ ३।४१।६ ॥
अमात्यैरिति । कामवृत्तः अत एव कापथमाश्रितो राजा सद्भिरमात्यैः निग्राह्यः स कापथमाश्रितः अत एव निग्राह्यस्त्वं न गृह्यसे ग्राह्यत्वेन न स्वीक्रियसे ॥ ३।४१।७ ॥
कापथमाश्रितो राजा ऽवश्यं निग्राह्य इत्यत्र हेतुमाह–धर्ममिति । हे निशाचर सचिवाः स्वामिप्रसादात् धर्मादीन् प्राप्नुवन्ति विपर्यये स्वामिप्रसादाभावे तु तत्सर्वं धर्मादिकं व्यर्थं भवति स्वामिवैगुण्यादेव इतरे जनाः व्यसनं दुःखं प्राप्नुवन्ति ॥ ३।४१।८९ ॥
राजेति । धर्मो यशश्च राजमूल एव तस्मात् हेतोः सर्वास्ववस्थासु नराधिपाः रक्षितव्याः ॥ ३।४१।१० ॥
राज्यमिति । हे निशाचर तीक्ष्णेन पुरुषेण राज्यं पालयितुं न शक्यम् अतिप्रतिकूलेन सर्वानिष्टकारकेन न अविनीतेन महात्मसु नम्रतारहितेन च न ॥ ३।४१।११ ॥
ये इति । ये सचिवास्तीक्ष्णमन्त्रास्तैक्ष्योपदेष्टारः तैः सचिवैः तेन राज्ञा सह भुज्यन्ते दुःखानीति शेषः । तत्र दृष्टान्तः–मन्दसारथयः मन्दः प्रज्ञाहीनः सारथिर्येषां ते रथाः विषमेषु उन्नतनिम्नप्रदेशेषु यथा ॥ ३।४१।१२ ॥
बहव इति । अयं श्लोकः समनन्तरं व्याख्यातः ॥ ३।४१।१३ ॥
स्वामिनेति । प्रतिकूलेन अननुकूलाचरणशीलेन तीक्ष्णेन उग्रदण्डदात्रा स्वामिना रक्ष्यमाणा अपि प्रजाः गोमायुना हिंसकेन रक्ष्यमाणा मृगा इव न वर्धन्ते ॥ ३।४१।१४ ॥
अवश्यमिति । हे रावण येषां त्वं राजा ते सर्वे राक्षसा अवश्यं विनशिष्यन्ति विनङ्क्ष्यन्ति ॥ ३।४१।१५ ॥
तदिति । तत् भवद्दुर्वृत्तत्वात् हेतोः इदं घोरं दुःखमित्यर्थः, काकतालीयं काकतालीयन्यायेन अकस्मात् मया आसादितं प्राप्तम् अत्रास्मिन् दुर्वृत्ते ससैन्यस्त्वं विनशिष्यसि अतस्त्वं शोचनीयो ऽसि ॥ ३।४१।१६ ॥
मामिति । असौ रामः मां निहत्य अचिरात् शीघ्रं त्वां वधिष्यति अनेन हेतुना अरिणा हतो ऽप्यहं कृतकृत्यो ऽस्मि एतेन तव वधाभावे जीवलोकोपद्रवः स्यात् वधे तु निवृत्तिरिति हेतुः सूचितः ॥ ३।४१।१७ ॥
विध्वंसो ऽवश्यं भवितेत्याह–दर्शनादिति । रामस्य दर्शनादेव मां हतमवधारय सीतां हृत्वा तु सबान्धवमात्मानं हतं विद्धि ॥ ३।४१।१८ ॥
आनयिष्यसीति । मया सहितस्त्वं चेत् यदि सीतामानयिष्यसि आनेष्यसि तर्हि त्वदादयो न ॥ ३।४१।१९ ॥
निवार्यमाण इति । हि यतः गतायुषः अत एव परेतकल्पाः ईषदपरिसमाप्तमरणाः नराः सुहृद्भिः ईरितं कथितं हितं वचो न गृह्णन्ति अत एव हितैषिणा मया निवार्यमाणस्त्वमिदं हितं वाक्यं न मृष्यसे सहसे ॥ ३।४१।२० ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे एकचत्वारिंशः सर्गः ॥ ३।४१ ॥