०४० रावणकृतमारीचनिर्भर्त्सनम्

मारीचवचनश्रवणानन्तरकालिकं रावणवृत्तान्तमाह–मारीचस्येति । युक्तं योग्यमत एव क्षमं सहनीयं मारीचस्य तद्वाक्यम् उक्तो मारीचेनोपदिष्टो रावणो मर्तुकाम औषधमिव न जग्राह ॥ ३।४०।१ ॥

तमिति । राक्षसाधिपः कालचोदितो रावणः पथ्यहितवक्तारं तं मारीचं परुषं वाक्यमब्रवीत् ॥ ३।४०।२ ॥

तद्वचनाकारमाह–दुष्कूलेति । दुष्कूल हे प्रतिकूल हे मारीच न युक्तः शूरयोग्यः अर्थो यस्य तत् अत्यर्थम् अर्थं प्रयोजनमतिक्रान्तं निष्प्रयोजनमित्यर्थः, वाक्यं यन्मयि कथ्यते तत् ऊषरे निष्फलं फलजननायोग्यं भर्जितमित्यर्थः, बीजमिवोप्तम् ॥ ३।४०।३ ॥

त्वदिति । मूर्खस्य रामस्य संयुगे उद्यतं मां भेत्तुं चालयितुं त्वद्वाक्यैर्न शक्यम् ॥ ३।४०।४ ॥

तन्मूर्खत्वमेवोपपादयन्नाह–य इति । प्राकृतं स्त्रीवाक्यं श्रुत्वा एकपदे तत्क्षणे एव सुहृदादीन् त्यक्त्वा यो वनं गतस्तस्य संयुगे खरघातिनो रामस्य प्राणैः प्रियतरा सीता मया ऽवश्यं हर्तव्या । प्राणैः प्रियतरेत्यनेन तद्दुःखार्थमेव सीताहरणमिति सूचितम् । श्लोकद्वयमेकान्वयि ॥ ३।४०।५६ ॥

एवमिति । हे मारीच मे हृदि एवं निश्चिता या बुद्धिर्ज्ञानं वर्तते सा बुद्धिः सेन्द्रैः इन्द्रसहितैः सुरासुरैरपि व्यावर्तयितुं न शक्या ॥ ३।४०।७ ॥

दोषमिति । अस्य चिकीर्षितस्य कार्यस्य विनिश्चये विनिश्चयार्थं गुणं वा दोषं वा अपायं तद्विघ्नध्वंसं वा उपायं तत्साधनं वा यदि त्वं पृष्टस्तदा एवं वक्तुमर्हसि एतेन तन्मया न पृष्टमिति सूचितं, तेन अपृष्टं न वक्तव्यमिति व्यञ्जितम् ॥ ३।४०।८ ॥

संपृष्टेनेति । राज्ञः सकाशात् यः आत्मनो भूतिमिच्छेत् तेन विपश्चिता उद्यताञ्जलिना सचिवेन संपृष्टेनैव वक्तव्यं पृष्टमेव उत्तरितव्यमित्यर्थः ॥ ३।४०।९ ॥

वाक्यमिति । अप्रतिकूलं प्रतिकूलरहितं मृदुपूर्वं शुभं मधुरवर्णविशिष्टं हितं पथ्यम् उपचारेण नीतिशिक्षया युक्तं वाक्यं वसुधाधिपो वक्तव्यः ॥ ३।४०।१० ॥

सेति । सावमर्दं राजपृष्टविघातकं मानवर्जितं वा हितमपि तद्वाक्यं मानार्थी राजा नाभिनन्देत ॥ ३।४०।११ ॥

ननु किं तदभिनन्दनेनेत्यत आह–पञ्चेति । अमितौजसो राजानः अग्न्यादीनां पञ्चानां पञ्चरूपाणि धारयन्ति ॥ ३।४०।१२ ॥

तानि रूपाणि क्रमेणाह–औष्ण्यमिति । महात्मानो राजानः औष्ण्यादीनि धारयन्ति तत्रौष्ण्यं तीक्ष्णत्वं, विक्रमो बलातिशयः, सौम्यं कृपालुता, दण्डः दुष्टनिग्रहः, प्रसन्नता प्रसादः, एतेन राजा द्रोहिणो ऽवश्यं विनाशयतीति सूचितम् ॥ ३।४०।१३ ॥

तस्मादिति । तस्मात् स्वकल्याणहेतोः सर्वास्ववस्थासु सर्वकालेषु पार्थिवा मान्याः पूज्याश्च । अर्धं पृथक्–त्वमिति । धर्मं सचिवकर्म अविज्ञाय केवलं मोहमज्ञानमाश्रितः त्वं तु दौरात्म्यात् दुष्टस्वभावत्वाद्धेतोः अभ्यागतं त्वत्संमुखं प्राप्तं माम् ईदृशं परुषं वदसि ॥ ३।४०।१४ ॥

ननु त्वया पृष्ट एवाहमुक्तवानित्यत आह–गुणेति । हे राक्षस हे अमितविक्रम गुणदोषौ मत्कर्तव्ये को गुणः कश्च रोष इति आत्मनि मयि क्षमम् उचितं न वेति चेत्यहं न पृच्छामि किंतु अस्मिन् कृत्ये सभवान् सभः सभावान् राजा तद्वान् नित्यं राजसेवीत्यर्थः, त्वं साहाय्यं कर्तुमर्हसि एतावदेव त्वां प्रति मयोक्तम् ॥ ३।४०।१५१६ ॥

मदुक्तं साहाय्यं कर्म विस्मृतं चेत् पुनरुच्यते इत्याह–शृण्विति ॥ ३।४०।१७ ॥

आश्रम इति ॥ ३।४०।१८ ॥

त्वामिति ॥ ३।४०।१९ ॥

अपक्रान्त इति । काकुत्स्थे रामे अपक्रान्ते सति हा सीते हा लक्ष्मणेत्येवम् एतद्रूपं रामवाक्यानुरूपकं रामवाक्यमेवेदमिति बोधकं वाक्यं दूरं गत्वा त्वमुदाहर ॥ ३।४०।२० ॥

तदिति । तत् रामवाक्यानुरूपकं वाक्यं श्रुत्वा सीतया प्रचोदितः संभ्रान्तः सौमित्रिरपि सौहृदात् रामपदवीम् अनुगच्छति अनुगन्ता ॥ ३।४०।२१ ॥

अपक्रान्त इति । अपक्रान्ते अपगते सति वैदेहीम् आहरिष्यामि ॥ ३।४०।२२ ॥

तत्र दृष्टान्तः–एवमिति । एवम् इदं कार्यं कृत्वा निश्चित्य यथेष्टं गच्छ । तत्फलमाह–राज्यस्यार्धं स्वकीयमर्धं राज्यं प्रदास्यामि तुभ्यमिति शेषः ॥ ३।४०।२३ ॥

गच्छेति । हे सौम्य अस्य मदुक्तस्य कार्यस्य विवृद्धये सम्यक्सिद्धये इत्यर्थः, शिवं कल्याणकारकं मार्गं गच्छ त्वा त्वाम् अहमनुगमिष्यामि ॥ ३।४०।२४ ॥

प्राप्येति । राघवं वञ्चयित्वा अयुद्धेन युद्धाभावेन सीतां प्राप्य आहृत्य कृतकार्यो ऽहं त्वया सह लङ्कां प्रति गमिष्यामि ॥ ३।४०।२५ ॥

नो इति । हे मारीच चेद्यदि त्वं नो करोषि मदुक्तं न करिष्यसि तर्हि अद्य अस्मिन्दिने एव त्वां हन्मि हनिष्यामि । अर्धं पृथक् । ननु अपराधमन्तरा हननमयुक्तमित्यत आह–एतदिति । एतदुक्तं मे कार्यं बलादपि करिष्यसि । अकरणे दोषमाह–राज्ञो विप्रतिकूलस्थः अननुकूलाचरणः जनः जातु कदाचिदपि सुखं न एधते ॥ ३।४०।२६ ॥

ननु रामकर्तृकवधभिया न गमिष्यामीत्यत आह–आसाद्येति । तं राममासाद्य प्राप्य ते जीवितसंशयः तस्य बलवत्त्वे तव चापलायने वधः तवैव बलवत्त्वे पलायने वा वधाभावः मया विरुध्यतस्तु ते मृत्युर्ध्रुवः मद्बलवत्त्वस्य निश्चितत्वेन समीपस्थत्वात्पलायनानर्हत्वेन च मरणे न संशय इति तात्पर्यम् अतः बुद्ध्या एतत् मदुक्तं परिगण्य विचार्य अनयोर्मध्ये यत् पथ्यं हितं तत् तथा निश्चितबुद्ध्या कुरु ॥ ३।४०।२७ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे चत्वारिंशः सर्गः ॥ ३।४० ॥