रामवीर्यं वर्णयितुं मारीचः स्ववृत्तान्तरमाह–एवमित्यादिभिः । एवमुक्तप्रकारेण तेन रामेण कथंचिन्मुक्तो यत् यत्नवान् यो ऽहमस्मि तस्य मे उत्तरं लोकविलक्षणं यद्वृत्तं तच्छृणुष्व अहं वच्मीत्यर्थः ॥ ३।३९।१ ॥
तद्वचनाकारमाह–राक्षसाभ्यामिति । तथा कृतः प्राप्तरामशरप्रक्षेपो ऽप्यहम् अनिर्विण्णः रामयुद्धेष्वप्राप्तवैराग्यः सन् मृगरूपाभ्यां द्वाभ्यां राक्षसाभ्यां सहितो मृगरूपो ऽहं दण्डकावनं प्रविष्टः । महामृग इत्युत्तरग्रन्थस्वारस्यात् मृगरूपाभ्यामिति विभक्तिवचनविपरिणामेनान्यत्राप्यन्वेति ॥ ३।३९।२ ॥
दीप्तेति । दीप्तजिह्वत्वादिविशिष्टो ऽहं दण्डकारण्यं व्यचरम् ॥ ३।३९।३ ॥
अग्नीति । अत्यन्तघोरो ऽहं तापसान् प्रधर्षयन् सन् अग्निहोत्रादिषु व्यचरम् ॥ ३।३९।४ ॥
निहत्येति । तापसान् निहत्य तेषां रुधिराणि पिबन् मांसानि भक्षयंश्च अत एव वनगोचरान् त्रासयन् ऋषिमांसाशनः ऋषिमांसभक्षकः रुधिरप्रमत्तो ऽहं दण्डकावनं व्यचरम् । श्लोकद्वयमेकान्वयि ३९।५६ ॥
तदेति । तदा तस्मिन् काले धर्मदूषको ऽहं दण्डकारण्ये विचरन् तापसं धर्मम् आश्रितं तदारामं तदः अमृतदाता आरामो विहारो यस्य तं रामम् आसादयम् अपीडयं च ॥ ३।३९।७ ॥
वैदेहीमिति । वैदेहीं लक्ष्मणं च तापसं महाबलं रामं च तापसो ऽयम् इदानीं न युद्धनिपुण इत्यर्थः, इति ज्ञात्वा पूर्ववैरमनुस्मरन् सन् परिभूय अनादृत्य आसमिति शेषः । श्लोकद्वयमेकान्वयि ॥ ३।३९।८९ ॥
अभीति । तं प्रसिद्धप्रहारं रामबाणकृतप्रनक्षेपमनुस्मरन् सन् सुसंक्रुद्धः जिघांसुः राममिति शेषः, अकृतप्रज्ञः विचाररहितो ऽहमभ्यधावम् ॥ ३।३९।१० ॥
तेनेति । सुमहच्चापं विकृष्य सुपर्णानिलतुल्यगाः गरुडवायुसदृशवेगवन्तः शत्रुनिबर्हणाः रिपुध्वंसकाः शितास्त्रयो बाणाः तेन रामेण त्यक्ताः ॥ ३।३९।११ ॥
त इति । वज्रसंकाशाः वज्रस्यापि प्रकाशकाः सुघोराः शत्रुभ्यो भयप्रदाः सन्नतपर्वणः सन्नतपर्वाणः सर्वे ते रामप्रयुक्तास्त्रयो बाणाः सहिताः सन्तः आजग्मुः ॥ ३।३९।१२ ॥
पराक्रम इति । रामस्य पराक्रमज्ञः शठः अपराधे विनापि हननाय प्रवृत्तः पुरा दृष्टभयः दृष्टं भयं येन सो ऽहं समुत्क्रान्तः पलायित आसमिति शेषः, ततः पलायनात् अहं मुक्तः तौ मया सह गतौ उभौ राक्षसौ हतौ पलायनान्मुक्त इत्यनने पलायनपरं रामबाणो न हन्तीति सूचितं तेन तद्बाणस्यापि परमधर्मज्ञत्वं सूचितम् ॥ ३।३९।१३ ॥
शरेणेति । रामस्य शरेण कथंचिन्मुक्तो ऽहं जीवितं जीवनं प्राप्य इह प्रव्राजितः त्यक्तदुष्कृतकर्मा अत एव युक्तः योगक्रियानिरतः तापसः कृच्छ्रचान्द्रायणादिनिरतः अत एव समाहितः एकाग्रचित्तो ऽहमस्तीति शेषः ॥ ३।३९।१४ ॥
स्वस्यातिरामभीतत्वं द्योतयन्नाह–वृक्षे इति । वृक्षे वृक्षे प्रतिवृक्षं चीरकृष्णाजिनाम्बरं चीरकृष्णाजिने अम्बरे यस्य तं गृहीतधनुषं रामं पाशहस्तमन्तकमिव पश्यामि ॥ ३।३९।१५ ॥
अपीति । हे रावण रामसहस्राण्यपि भीतो ऽहं पश्यामि अत एव इदं सर्वमरण्यं रामभूतं मे प्रतिभाति ॥ ३।३९।१६ ॥
राममिति । हे राक्षसेश्वर रहिते रामाभाववत्यपि देशे राममेव पश्यामि अत एव स्वप्नगतं रामं दृष्ट्वा चेतनः प्राप्तजाग्रच्चैतन्य इव उद्भ्रमामि अनेकविधभ्रान्तिं प्राप्नोमि ॥ ३।३९।१७ ॥
रकारादीनीति । हे रावण रकारादीनि रत्नरथप्रभृतीनि नामानि रामत्रस्तस्य मे वित्रासं जनयन्ति, एतेन रकारोच्चारणमात्रेण राममेवोच्चारयतीति भ्रान्तिरुत्पद्यते इति सूचितं, तेन रामेतिनाम्ना रामवाच्यमयत्वं बोधितं, तेन यदि रकारोच्चारणमात्रेण भीतिस्तर्हि रामोच्चारणे भीतिरिति किं वक्तव्यमिति काव्यार्थापत्तिरलङ्कारो ध्वनितः, तेन रामसमीपगमनयोग्यता मम नास्तीति सूचितम् ॥ ३।३९।१८ ॥
अहमिति । तस्य रामस्य अहं प्रभावज्ञः समाधिकरहितप्रभावविज्ञाता अतः तेन रामेण ते युद्धं न क्षमं न योग्यम् । तत्प्रभावमेवाह–रघुनन्दनः बलिं वापि नमुचिं वापि हन्यात् ॥ ३।३९।१९ ॥
रणे इति । हे रावण रणे रामेण सह युध्यस्व क्षमां वा कुरु यदि मां द्रष्टुमिच्छसि तर्हि ते त्वया रामकथा न कार्या ॥ ३।३९।२० ॥
बहव इति । धर्ममनुष्ठिताः युक्ताः समाधिमन्तः सपरिच्छदाः परिकरसहिताः बहवः साधवः परेषामपराधेन विनष्टाः ॥ ३।३९।२१ ॥
स इति । सः ज्ञाततत्त्वो ऽहं परापराधेन विनश्येयम् अतः यत् ते क्षमम् उचितं तत्त्वं कुरु अहं त्वां न अनुयामि अनुगच्छामि ॥ ३।३९।२२ ॥
अनुगमने ध्रुवं विनाशो भवितेति बोधयन्नाह–राम इति । हि यतः रामो महातेजा महाबलश्च अतः राक्षसलोकस्य अन्तकरः भवेत् हि निश्चितमेतत् अपि एतदहं संभावयामि ॥ ३।३९।२३ ॥
यदीति । यदि जनस्थानगतः खरः शूर्पणखाहेतोः अतिवृत्तः अत एव अक्लिष्टकर्मणा रामेण पूर्वं हतः तर्हि अत्र अस्मिन्खरादिवधे रामस्य व्यतिक्रमः रामकर्तृकातिवर्तनं कः तत्त्वं यथा यथावत् ब्रूहि । सार्धश्लोक एकान्वयी ॥ ३।३९।२४ ॥
इदमिति । बन्धुहितार्थिना मया यथा यथावदुच्यमानमिदं वचः यदि न अभिपत्स्यसे ग्रहीष्यसि तर्हि रामेण अजिह्मगैः शरैः हतः सबान्धवस्त्वं जीवितं त्यक्ष्यसि ॥ ३।३९।२५ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे एकोनचत्वारिंशः सर्गः ॥ ३।३९ ॥