मारीचवचनाकारमाह–कदाचिदित्यादिभिः । कदाचित् कस्मिंश्चित्समये पर्वतोपमः पर्वतसदृशः नीलजीमूतसंकाशः नीलमेघसदृशरूपवान् तप्तकाञ्चनकुण्डलः किरीटी किरीटविशिष्टः परिघायुधः परिघ आयुधं यस्य स नागसहस्रस्य बलं धारयन्नहं वीर्यात् हेतोः इमां पृथिवीं पर्यटन् लोकस्य भयं जनयन् ऋषिमांसानि भक्षयंश्च सन् दण्डकारण्यं व्यचरम् । सार्धश्लोकद्वयमेकान्वयि ॥ ३।३८।१२ ॥
विश्वामित्र इति । मद्वित्रस्तः मत्तः प्राप्तत्रासः धर्मात्मा विश्वामित्रः नरेन्द्रं दशरथं स्वयं गत्वा इदमब्रवीत् ॥ ३।३८।३ ॥
विश्वामित्रवचनाकारमाह–अयमिति । हे नरेश्वर मारीचात् मे घोरं भयं समुत्पन्नम् अतः पर्वकाले प्राप्ते सति समाहितः अयं रामः मां रक्षतु ॥ ३।३८।४ ॥
इतीति । एवमुक्तो धर्मात्मा राजा दशरथः विश्वामित्रमिति इदं प्रत्युवाच ॥ ३।३८।५ ॥
तत्प्रतिवचनाकारमाह–ऊनेति । अयं राघव ऊनद्वादशवर्षः किंचिन्मासोनषोडशवार्षिक इत्यर्थः, अयमर्थः द्वौ च द्वौ च द्वौ चेत्येकशेषेण लब्धः, अत्र बीजं तु बालकाण्डघटकीभूतोनषोडशवर्षो मे इतिपद्ये निरूपितम् अत एव अकृतास्त्रः अस्त्राभ्यासरहितो ऽस्तीति शेषः, अतः मया सह ममैतत्सैन्यं कामं यथेच्छं गमिष्यति ॥ ३।३८।६ ॥
गमनप्रकारमाह–बलेनेति । चतुरङ्गेण बलेन स्वयमेत्य तव शत्रुं निशाचरं यथेप्सितं वधिष्यामि ॥ ३।३८।७ ॥
एवमिति । एवमुक्तो मुनिः राजानमब्रवीत् ॥ ३।३८।८ ॥
तद्वचनाकारमाह–रामादिति । यद्यपि समरेषु देवानामपि अभिपालकः साहाय्यकर्ता भवानासीत् अतस्तव कृतं कर्म त्रिलोकविदितं त्रिषु लोकेषु प्रसिद्धमासीत् तव सैन्यमपि महत् अतिप्रवृद्धमस्ति तथापि रामादन्यत् भिन्नं यत् लोके बलं तत् तस्य रक्षसः पर्याप्तं नास्ति अतः इहैव कामं यथेष्टं तिष्ठतु भवान् सैन्यं चेति शेषः । श्लोकद्वयमेकान्वयि ॥ ३।३८।९१० ॥
बाल इति । महातेजाः बालो ऽपि एष रामः तस्य मारीचस्य निग्रहे समर्थः अतो राममादाय अहं गमिष्ये ते स्वस्त्यस्तु ॥ ३।३८।११ ॥
इतीति । स मुनिर्विश्वामित्रः एवमुक्त्वा नृपात्मजं राममादाय स्वमाश्रमं जगाम ॥ ३।३८।१२ ॥
तमिति । दण्डकारण्ये यज्ञमुद्दिश्य दीक्षितं तं विश्वामित्रं धनुर्विस्फारयन् सन् रामः उपस्थितो बभूव ॥ ३।३८।१३ ॥
अजातेति । अजातव्यञ्जनः न जातं व्यञ्जनं पुरुषाभिव्यञ्जकं श्मश्र्वादि यस्य सः एकवस्त्रधरः धन्वी धनुर्धरः शिखी प्रशस्तशिखावान् कनकमालया उपलक्षितः दीप्तेन स्वेन तेजसा दण्डकारण्यं शोभयन् सन् उदितो बालचन्द्र इव रामः अदृश्यत । श्लोकद्वयमेकान्वयि ॥ ४।३८।१४१५ ॥
तत इति । ततः रामागमनानन्तरं मेघसंकाशः दत्तवरः दत्तः ब्रह्मणा संपादितः वरः देवावध्यत्वं यस्मै सो ऽहम् आश्रमान्तरं विश्वामित्राश्रममध्यम् आजगाम अत्र लिट्प्रयोगः दैर्घकालिकत्वेन परोक्षत्वारोपात् ॥ ३।३८।१६ ॥
तेनेति । तेन रामेण दृष्टः उद्यतायुधो ऽहं सहसा प्रविष्टः मां दृष्ट्वैव असंभ्रान्तो रामः धनुः सज्यं चकार ॥ ३।३८।१७ ॥
अवेति । मोहात् स्वाज्ञानात् अयं बालः इति हेतोः राघवम् अवजानन् तिरस्कुर्वन् अहं विश्वामित्रस्य तां वेदिम् अभ्यधावम् ॥ ३।३८।१८ ॥
तेनेति । ततः अभिघावनानन्तरं तेन रामेण शत्रुनिबर्हणः शितो बाणो मुक्तः तेन राममुक्तबाणेन ताडितो ऽहं शतयोजने समुद्रे क्षिप्तः ॥ ३।३८।१९ ॥
नेति । हे तात तदा तस्मिन्काले मां हन्तुं नेच्छता वीरेण रामेण अहं रक्षितः अत एव रामस्य शरवेगेन अचेतनो ऽहं निरस्त एव ऽसर्वं वाक्यं सावधारणं भवतिऽ इतिन्यायेनैवकारलाभः तेन हननव्यवच्छेदः ॥ ३।३८।२० ॥
पातित इति । तेन रामेण गम्भीरे सागराम्भसि पातितो ऽहं चिरात् बहुकालतः संज्ञां विवेकं प्राप्य लङ्कां पुरीं प्रति गतः ॥ ३।३८।२१ ॥
एवमिति । अकृतास्त्रेण रामेण एवमनेन प्रकारेणा ऽहं मुक्तो ऽस्मि ते प्रसिद्धाः सहाया ममानुगामिनो निपातिताः हताः ॥ ३।३८।२२ ॥
तदिति । तत् रामप्रभावस्य दुरवगाह्यत्वाद्धेतोः मया वार्यमाणस्त्वं यदि रामेण विग्रहं वैरं करिष्यसि तदा क्षिप्रं घोरामापदं विपत्तिं प्राप्य नशिष्यसि नङ्क्ष्यसि ॥ ३।३८।२३ ॥
आपत्तिस्वरूपमाह–क्रीडेति । क्रीडारत्योः लीलाभोगयोः विधिं क्रमं जानन्ति तेषां समाजोत्सवशालिनां समाजो रक्षसां सभाः तत्र य उत्सव आनन्दः तद्वतामनित्यं त्वत्सभासेविनामित्यर्थः, रक्षसां संतापो यस्मिन् तमनर्थं मरणम् आहरिष्यसि संपादयिष्यसि ॥ ३।३८।२४ ॥
हर्म्येति । हर्म्यप्रासादसंबाधां हर्म्यादिनिबिडां नानारत्नविभूषितां लङ्कां पुरीं मैथिली कृते विनष्टां द्रक्ष्यसि ॥ ३।३८।२५ ॥
ननु ममापराधेन अन्येषां कथं विनाश इत्यत आह–अकुर्वन्त इति । पापानि अकुर्वन्तः अत एव शुचयो ऽपि पापसंश्रयात् पापिजनसम्बन्धात् हेतोः परपापैः स्वसंबन्धिनागदोषैः हेतुभिः नागह्रदे नागविशिष्टदहरे मत्स्याः नागविध्वंसोद्देश्यकागमनवत् गरुडादिनिहतमीना इव विनश्यन्ति ॥ ३।३८।२६ ॥
दिव्येति । दिव्यचन्दनदिग्धाङ्गान् चन्दनलिप्तशरीरान् तव दोषात् भूमौ अभिहतान् राक्षसान् द्रक्ष्यसि ॥ ३।३८।२७ ॥
हृतेति । अशरणान् रक्षकहीनान् अत एव दशदिशो विद्रवतः हतशेषान् निशाचरान् त्वं द्रक्ष्यसि ॥ ३।३८।२८ ॥
शरेति । शरजालपरिक्षिप्तां शरसमूहव्याप्ताम् अग्निज्वालासमावृताम् अग्निज्वालायुक्तामत एव प्रदग्धभवनां लङ्कां द्रक्ष्यसि ॥ ३।३८।२९ ॥
पापेभ्यस्तं निवर्तयितुं रावणकृतपापस्यातिमहत्त्वं द्योतयन्नाह–परेति । परदाराभिमर्शात् अन्यत् पापतरमपि महत् न । अर्धं पृथक्–प्रमदानामिति । हे रामन् तव परिग्रहे अन्तःपुरे प्रमदानां सहस्राणि सन्तीति शेषः, अतः स्वदारनिरतो भव अत एव स्वकुलं राक्षसांश्च रक्ष । अर्धद्वयमेकान्वयि ॥ ३।३८।३० ॥
मानमिति । मानादीन् यदि चिरं भोक्तुमिच्छसि तर्हि रामविप्रियं मा कृथाः ॥ ३।३८।३१३२ ॥
निवार्यमाण इति । सुहृदा मया निवार्यमाणस्त्वं सीतां यदि प्रसह्य धर्षयिष्यसि अपहरिष्यसि तर्हि क्षीणबलः सबान्धवस्त्वं रामशरास्तजीवितः सन् यमक्षयं पुनरागमनरहितलोकं गमिष्यसि ॥ ३।३८।३३ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे ऽष्टात्रिंशः सर्गः ॥ ३।३८ ॥