रावणवचनश्रवणानन्तरकालिकीं मारीचोक्तिमाह–तदित्यादिभिः । वाक्यविशारदो मारीचः राक्षसेन्द्रस्य रावणस्य तद्वाक्यं श्रुत्वा राक्षसेश्वरं रावणं प्रत्युवाच ॥ ३।३७।१ ॥
तत्प्रतिवचनाकारमाह–सुलभा इति । सततं निरन्तरं प्रियवादिनः स्वाम्यहितमिदमिति ज्ञात्वा ऽपि तात्कालिकसंतोषाय हितमेवेदमिति प्रियवक्तारः पुरुषाः सुलभाः बहव सन्तीत्यर्थः, अप्रियस्य स्वामिप्रीत्यविषयीभूतस्य पथ्यस्य स्वामिहितस्य वचनस्य वक्ता राजकल्याणाय हितं कथयिता श्रोता तदनुमन्ता चेत्यर्थः, दुर्लभः अल्पो ऽस्तीत्यर्थः । ऽभोक्ताऽ इति पाठे ऽप्ययमेवार्थः एतेन वक्ष्यमाणस्ववाक्यस्यापाततो ऽप्रियत्वं तत्त्वतश्च प्रियत्वं सूचितम् ॥ ३।३७।२ ॥
नन्वेतावता प्रकृते किमायातमित्यत आह–नेति । महेन्द्रवरुणोपमं महावीर्यम् अतिपराक्रमवन्तं गुणोन्नतं गुणैः समाधिकरहितसौशील्यादिभिः उन्नतं सर्वश्रेष्ठं रामं चपलः स्वस्थचित्तरहितः अत एव अयुक्तचारः न युक्ताः लोकवृत्तान्तज्ञानार्थं नियोजिताः चाराः प्रेष्या येन स त्वं न बुध्यसे तद्बलादिकं न जानासीत्यर्थः, नूनं निश्चितमेतत् । एतेन तद्बलादिज्ञाने तद्विरोधविषया ते बुद्धिर्न स्यादिति सूचितम् ॥ ३।३७।३ ॥
तात्पर्यवृत्त्या रामवीर्यं वर्णयन्नाह–अपीत्यादिभिः । सर्वेषां रक्षसां त्वस्ति भवेत् । ननु किमर्थं स्वस्तिप्रार्थनेत्यत आह–संक्रुद्धः भवता संकोपितो रामः लोकान् अराक्षसान् राक्षसरहितान्न कुर्यात् ॥ ३।३७।४ ॥
अपीति । जनकात्मजा सीता ते जीवितान्ताय नोत्पन्ना । अपिः संभावनार्थकः । सीतानिमित्तं तवापहृतसीतार्थं महद्व्यसनं सर्वराक्षसमरणं न भवेत् ॥ ३।३७।५ ॥
अपीति । कामवृत्तं स्वेच्छाचरणशीलमत एव निरङ्कुशं शुभमन्त्र्याद्यङ्कुशरहितम् ईश्वरं राजानं त्वां प्राप्य त्वया सह सराक्षसा पुरी लङ्का न विनश्येत् ॥ ३।३७।६ ॥
कामवृत्तत्त्वादिविशिष्टस्य दोषमाह–त्वदिति । त्वद्विधो दुर्मतिः अत एव पापमन्त्रितः अघकारकमन्त्रवान् स राजा आत्मादित्रयं हन्ति ॥ ३।३७।७ ॥
आपाततो ऽवगतार्थे एतस्याभिप्रायो मास्त्विति बोधयितुं स्वाज्ञानेनैव रामे दोष आरोपित इत्याह–नेति । धर्मगुर्णैहीनो न । श्लोकद्वयमेकान्वयि ॥ ३।३७।८९ ॥
ननु पितृकर्तृकपरित्यागाभावे कथमत्र रामागमनमित्यत आह–वञ्चितमिति । पितरं सत्यवादिनं करिष्यामीति हेतोः ततो ऽयोध्यानगरात् वनं प्रव्रजितः ॥ ३।३७।१० ॥
कैकेय्या इति । कैकेय्याः दशरथस्य च प्रियकामार्थं प्रियः प्रीतिविषयीभूतः कामः इच्छाविषयीभूतः स एव स इति कर्मधारयः तदर्थं राज्यं भोगांश्च त्यक्त्वा दण्डकावनं प्रविष्टः ॥ ३।३७।११ ॥
नेति । अनृतं मिथ्या न श्रुतम् रामे इति शेषः, अत एवं वक्तुं त्वं नार्हसि ॥ ३।३७।१२ ॥
प्रातिभासिकरावणारोपितदुर्गुणान् प्रतिषिध्य गुणानाह–राम इति । सत्यपराक्रमः साधुः सर्वोपकारनिरतः विग्रहवान् प्राकृतविलक्षणावयवविशिष्टो धर्मो रामः देवानां वासव इव सर्वस्य लोकस्य भुवनस्य राजा ॥ ३।३७।१३ ॥
कथमिति । स्वेन तेजसा रक्षितां तस्य रामस्य प्रियां वैदेहीं प्रसभं हठात् विवस्वतः सूर्यस्य प्रभामिव हर्तुं कथमिच्छसे इच्छसि ॥ ३।३७।१४ ॥
शरेति । शरः अर्चिर्ज्वाला यस्मिन् तं चापखड्गा रिपूणां चापानि खड्गाश्च इन्धनानि यस्य तमनाधृष्यं दीप्तं रामाग्निं रणे सहसा प्रवेष्टुं त्वं नार्हसि ॥ ३।३७।१५ ॥
रामे ऽग्निरूपकत्वमुपपाद्यान्तकरूपकत्वमुपपादयन्नाह–धनुरिति । धनुर्व्यादितं धनुषो व्यादानं दीप्तमास्यं यस्य शरः अर्चिः प्रकाशो यस्य तम् अमर्षणं चापबाणधरम् अत एव शत्रुसेनापहारिणं रामान्तकं राज्यादिकं संत्यज्य अत्यासादयितुम् अतिनिकटं प्राप्तुं त्वं नार्हसि, एतेन तत्र तथागमने ध्रुवं ते विध्वंसो भवितेति सूचितम् । श्लोकद्वयमेकान्वयि ॥ ३।३७।१६१७ ॥
अप्रमेयमिति । यस्य रामस्य प्रिया जनकात्मजा तत्तेजो ऽप्रमेयम् अतः रामचापाश्रयां तां हर्तुं त्वं न समर्थो ऽसि ॥ ३।३७।१८ ॥
तस्येति । सिंहोरस्कस्य नरसिंहस्य तस्य रामस्य नित्यमनुव्रता भामिनी अतिप्रकाशविशिष्टा भार्या सीता प्राणेभ्यो ऽपि प्रियतरा ऽस्तीति शेषः ॥ ३।३७।१९ ॥
नेति । सुमध्यमा ओजस्विनो रामस्य प्रिया मैथिली मिथिलोद्भवा सा सीता दीप्तस्य हुताशस्य शिखेव धर्षयितुं न शक्या ॥ ३।३७।२० ॥
किमिति । इमं त्वयोक्तम् उद्यमं सीतापहरणोद्योगं कृत्वा किं साध्यमिति शेषः, न किमपीत्यर्थः । तत्र हेतुः–तेन रामेण रणे त्वं दृष्टश्चेत् तदा तदन्तं तेन रणे रामदर्शनेन अन्तो विध्वंसो यस्य तत् उपजीवितं स्वजीवनं विद्धीति शेषः ॥ ३।३७।२१ ॥
जीवितमिति । सुदुर्लभं जीवितं रोगराहित्यादिना जीवनं सुखं पुत्रपौत्रादिहेतुकप्रमोदं च राज्यं च सुखं यथा भवति तथा भोक्तुमनुभवितुं यदीच्छसि तर्हि रामविप्रियं रामानिष्टं मा कृथाः ॥ ३।३७।२२ ॥
स इति । धर्मिष्ठैः विभीषणपुरस्कृतैः सर्वैः सचिवैः सार्धं मन्त्रयित्वा आत्मनः स्वमनसः निश्चयं चाञ्चल्यराहित्यं कृत्वा दोषाणां दुष्टाचरणानां गुणानां शोभनाचरणानां च बलाबलं च संप्रधार्य सम्यग्ज्ञात्वा आत्मनो राघवस्य च बलं ज्ञात्वा तव आत्मनो हितं च निश्चित्य क्षमं क्षमां कर्तुं त्वमर्हसि, एतेन रावणबलस्य रामबलादल्पत्वं सूचितम् । सार्धश्लोकद्वयमेकान्वयि ॥ ३।३७।२३२४ ॥
स्वसंमतिं बोधयन्नाह–अहमिति । कोशलराजसूनुना रामेण रणे समागमं क्षमं योग्यं न मन्ये इदं वक्ष्यमाणं युक्तं योग्यमत एव क्षमं सहनीयं च उत्तमं वाक्यं मद्वचनं शृणु । एकश्चकारो हेत्वर्थः ॥ ३।३७।२५ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे सप्तत्रिंशः सर्गः ॥ ३।३७ ॥