रावणोक्तिप्रकारमाह–मारीचेत्यादिभिः । हे मारीच हे तत भाषतो मम वचनं श्रूयताम् । तत्र हेतुः अहमार्तो ऽस्मि आर्तस्य मम भवानेव परमा गतिः ॥ ३।३६।१ ॥
जानीष इति । यत्र खरादयः लब्धलक्षाः प्राप्तयुद्धोत्साहा अन्ये च बहवः शूराः महारण्ये ये धर्मचारिणः तान्मुनीन्बाधमानाः बाधयितुं मन्नियोगेनाधिवासं निरन्तरं वासं वसन्ति कुर्वन्ति तं जनस्थानं त्वं जानीषे । श्लोकत्रयमेकान्वयि ॥ ३।३६।२४ ॥
चतुर्दशेति । लब्धलक्षाणां प्राप्तयुद्धोत्साहानां खरचित्तानुवर्तिनां खरानुयायिनां येषां रक्षसां चतुर्दशसहस्राणि इदानीं जनस्थाने सन्तीति शेषः, ते वसमानाः वसन्तः महाबलाः नानाशस्त्रप्रहरणाः खरप्रमुखराक्षसाः परमायत्ताः सन्तः संयुगे रामेण सह संगताः येन हेतुना संजातरोषेण मानुषेण पदातिना रामेण परुषमपि किंचिदनुक्त्वा तूष्णीमेवेत्यर्थः, शरैर्धनुर्व्यापारितम् अत एव दीप्तैः शरै रक्षसां चतुर्दशसहस्राणि निहतानि खरश्च निहतो दूषणश्च निपातितः त्रिशिरसं च हत्त्वा दण्डका निर्भयाः कृताः । सार्धश्लोकपञ्चकमेकान्वयि ॥ ३।३६।५९ ॥
पित्रेति । क्षत्रियपांसनः क्षत्रियान् पाति रक्षति स एव अंसनः अतिप्रकाशवान् अशीलः संयुगे शीलरहितः अत एव कर्कशः अत एव तीक्ष्णः अमूर्खो वेदशास्त्रसंपन्न इत्यर्थः, अलुब्धः लोभरहितः जितेन्द्रियः ॥ ३।३६।१० ॥
त्यक्तधर्मा त्यक्तः त्याजितो धर्मो राक्षसकर्म येन अत एव अधर्मात्मा राक्षसधर्मामनस्कः अत एव भूतानामस्मदादीनामहिते रतः अत एव तस्य सैन्यस्ये हन्ता यो रामः स सभार्यः क्रुद्धेन पित्रा निरस्तः अत एव क्षीणजीवितः प्रजापालनरहितो ऽस्तीति शेषः । श्लोकद्वयमेकान्वयि ॥ ३।३६।११ ॥
येनेति । येन रामेण वैरं विना केवलमसत्वं प्राणिविरोधमास्थाय कर्णनासापहारेण मे भगिनी विरूपिता अस्य भार्या विक्रम्य आनयिष्यामि आनेष्यामि तत्र त्वं सहायो भव । अर्धचतुष्टयमेकान्वयि ॥ ३।३६।१२१३ ॥
त्वयेति । पार्श्वस्थेन सहायेन त्वया भ्रातृभिश्च सहायैः सर्वान् सुरान् अहं नानुचिन्तये न गणये । सहायशब्दः वचनविपरिणामेनान्यत्राप्यन्वेति ॥ ३।३६।१४ ॥
तदिति । यतः वीर्यादौ ते सदृशो न अतः त्वं समर्थो ऽसि तत् तस्माद्धेतोः उपायतः मत्कल्पितयत्नेषु महामायाविशारदस्त्वं मे सहायो भव ॥ ३।३६।१५१६ ॥
एतदर्थमेव त्वत्समीपमहं प्राप्तः । ननु मया किं साहाय्यं कर्तव्यमित्यत आह–साहाय्ये साहाय्यार्थं यत्कर्म कार्यं कर्तव्यं तत् मे वचनात् श्रृणु ॥ ३।३६।१७ ॥
तद्वचनाकारमाह–सौवर्ण इति । रजतबिन्दुभिः उपलक्षितः अत एव चित्रः सौवर्णो मगो भूत्वा तस्य रामस्याश्रमे सीतायाः प्रमुखे संमुखे चर ॥ ३।३६।१८ ॥
ननु किमनेनेत्यत आह–त्वामिति । मृगरूपिणं त्वां दृष्ट्वा गृह्यतामिति भर्तारं लक्ष्मणं च सीता निःसंशयमभिधास्यति ॥ ३।३६।१९ ॥
तत इति । ततः तस्मात्स्थानात् तयोः रामलक्ष्मणयोः अपाये अपगमे सति शून्ये रामलक्ष्मणरहितदेशे निराबाधः आबाधारहितो ऽहं राहुश्चन्द्रप्रभामिव यथासुखं हरिष्याभि ॥ ३।३६।२० ॥
तत इति । ततः पश्चात् भार्यापहरणकर्शिते विश्रब्धं यथा भवति तथा ऽहं कृतार्थेन अन्तरात्मना मनसा सुखं प्रहरिष्यामि ॥ ३।३६।२१ ॥
तस्येति । रामकथां श्रुत्वा परित्रस्तो बभूव मारीच इति शेषः, अत एव तस्य प्रसिद्धस्य महात्मनो मारीचस्य वक्रं शुष्कं समभवत् ॥ ३।३६।२२ ॥
ओष्ठाविति । शुष्कौ ओष्ठौ परिलिहन् सन् अनिमिषैः निमेषरहितैरिव नेत्रैः मृतभूत इव आर्तो मारीचः रावणं समुदैक्षत ॥ ३।३६।२३ ॥
स इति । महावने रामपराक्रमज्ञः अत एव त्रस्तेन त्रासेन विषण्णं चेतो यस्य स मारीचः कृताञ्जलिः सन् तस्मै रावणाय हितम् आत्मनश्च हितं तत्त्वं वाक्यमुवाच ॥ ३।३६।२४ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे षट्त्रिंशः सर्गः ॥ ३६ ॥