संदर्भशुद्धये पुनस्तदेवाह–तत इति । दीना शूर्पणखा अमात्यमध्ये परुषं वाक्यमब्रवीत् ॥ ३।३३।१ ॥
तद्वचनाकारमाह–प्रमत्त इति । कामभोगेषु प्रमत्तः प्रसक्तः अत एव निरङ्कुशः नीतिमर्यादारहितः अत एव स्वैरवृत्तः यथेष्टाचरणस्त्वं बोद्धव्यं ज्ञातव्यं समुत्पन्नं घोरं भयं नावबुध्यसे ॥ ३।३३।२ ॥
सक्तमिति । ग्राम्येषु अनभिज्ञजनसंबन्धिषु भोगेषु स्त्र्यादिप्रसङ्गेषु सक्तम् अत एव कामवृत्तं यथेष्टाचरणं लुब्धं महीपतिं श्मशानाग्निमिव प्रजाः न बहुमन्यन्ते ॥ ३।३३।३ ॥
स्वयमिति । काले साधनसमये यः पार्थिवः कार्याणि स्वयं न अनुतिष्ठति साधयति स पार्थिवः राज्येन तैः कार्यैश्च सह विनश्यति नाशं प्राप्नोति ॥ ३।३३।४ ॥
अयुक्तेति । अयुक्तचारं न युक्ताः कार्येषु नियोजिताः चाराः येन तम् अत एव दुर्दर्शं दूरवृत्तदर्शनानर्हम् अस्वाधीनं भोगवशमित्यर्थः, नराधिपं नराः नदीपङ्कं द्विपा इव दूरात् वर्जयन्ति ॥ ३।३३।५ ॥
ये इति । ये नराधिपाः अस्वाधीनं स्वानवधानतया स्वाधीनरहितं विषयं देशं न रक्षन्ति ते सागरे निमग्ना इति शेषः, गिरय इव वृद्ध्या स्वसंपत्त्याधिक्येन न प्रकाशन्ते ॥ ३।३३।६ ॥
आत्मेति । आत्मवद्भिः प्रशस्तयत्नविशिष्टैः देवादिभिः सह विगृह्य विग्रहं कृत्वा अयुक्तचारः चपलस्त्वं राजा कथं भविष्यसि ॥ ३।३३।७ ॥
त्वमिति । हे राक्षस यतस्त्वं हीनबुद्धिः अत एव बालस्वभावः अत एव ज्ञातव्यं न जानीषे अतः राजा कथं भविष्यसि ॥ ३।३३।८ ॥
येषामिति । येषां नरेन्द्राणां चारादयः अस्वाधीनाः ते प्राकृतैर्जनैः साधारणप्रजाभिः समास्तुल्याः ॥ ३।३३।९ ॥
यस्मादिति । नराधिपाः चारेण दूरस्थानर्थान् यस्माद्धेतोः पश्यन्ति तस्मात् राजानो दीर्घचक्षुषः उच्यन्ते ॥ ३।३३।१० ॥
चारायुक्तत्वे हेतुं वदन्ती आह–अयुक्तेति । प्राकृतैः प्रकृतिः स्वभाव एव येषां तैः शास्त्रसंस्काररहितैरित्यर्थः, सचिवैर्युतं त्वां मन्ये अत एव अयुक्तचारं मन्ये अत एव निहतं स्वजनं जनस्थानं च त्वं नावबुध्यसे ॥ ३।३३।११ ॥
चतुर्दशेति । रक्षसां चतुर्दश सहस्राणि एकेन रामेण हतानि ॥ ३।३३।१२ ॥
ननु किमर्थं राक्षसा निहता इत्यत आह–ऋषीणामिति । ऋषीणामभयं भयाभावः दत्तं प्रतिज्ञातमत एव दण्डकाः कृतक्षेमा आसन्निति शेषः, अत एव रामेण जनस्थानं धर्षितं विध्वंसितम् ॥ ३।३३।१३ ॥
त्वमिति । हे रावण प्रमत्तः अत एव लुब्धः अविवेकं प्राप्तं पराधीनः विषयभोगतन्त्रस्त्वं स्वे विषये देशे समुत्पन्नं यद्भयं तन्नावबुध्यसे ॥ ३।३३।१४ ॥
तीक्ष्णमिति । तीक्ष्णत्वादिघर्मविशिष्टं पार्थिवं राजानं व्यसने दुःखे ऽपि सर्वभूतानि नाभिधावन्ति तद्रक्षणोद्योगं न कुर्वन्तीत्यर्थः ॥ ३।३३।१५ ॥
अतीति । अतिमानिनं बहुगर्ववन्तमत एव अग्राह्यं सर्वैर्महद्भिरस्वीकरणीयमत एव आत्मसंभावितं स्वेनैव स्वमहत्त्वादिना चिन्तितं क्रोधनं क्रोधयुक्तं नराधिपं व्यसने दुःखप्राप्तिसमये स्वजनो ऽपि हन्ति ॥ ३।३३।१६ ॥
नेति । कार्याणि कर्तव्यस्वजनरक्षणानि यो नानुतिष्ठति न करोति अत एव भयेषु प्राप्तस्वजनभीतिषु न बिभेति स पुरुषः क्षिप्रं राज्याच्च्युतः अत एव तृणैः तुल्यो भवेत् सर्वानादरणीयः स्यादित्यर्थः ॥ ३।३३।१७ ॥
शुष्केति । शुष्ककाष्ठैः लोष्ठैश्च पांशुभिर्धूलीभिश्च कार्यं किंचित्प्रयोजनं भवेत् स्थानात्परिभ्रष्टैर्वसुधाधिपैस्तु कार्यं किंचित्प्रयोजनं न स्यात् ॥ ३।३३।१८ ॥
उपभुक्तमिति । उपभुक्तं परिधृतं वासो वस्त्रं यथा निरर्थकमन्यप्रयोजनासाधकं, मृदिताः परिमर्दिताः स्रजो माला यथा निरर्थिकाः एवं समर्थो ऽपि राज्यात्परिभ्रष्टो राजा निरर्थकः । निरर्थक इति लिङ्गवचनविपरिणामेनान्यत्राप्यन्वेति एकत्र शाब्दो ऽपरत्रार्थो वा ॥ ३।३३।१९ ॥
अप्रमत्त इति । अप्रमत्तः अनवधानतारहितः विजितेन्द्रियश्च यो राजा स चिरं तिष्ठते तिष्ठति ॥ ३।३३।२० ॥
नयनाभ्यामिति । यो राजा नयनाभ्यां प्रसुप्तः नयचक्षुषा जागर्ति स व्यक्तक्रोधप्रसादः व्यक्तौ दण्डदानाभ्यां प्रकटितौ क्रोधप्रसादौ यस्य सः जनैः चिरं पूज्यते ॥ ३।३३।२१ ॥
त्वमिति । हे रावण रक्षसां सुमहान्वधः यस्य ते चारैरविदितः स त्वम् एतैः राजोचितैर्गुणैर्विवर्जितः अत एव दुर्बुद्धिरसीति शेषः ॥ ३।३३।२२ ॥
परेति । यो विषयेषु सङ्गवान् अत्यासक्तिविशिष्टः अत एव परावमन्ता सर्वानादरकारी अत एव देशकालप्रविभागतत्त्वविन्न अत एव गुणदोषनिश्चये अयुक्तबुद्धिः न युक्ता बुद्धिर्यस्य सः राजा त्वं न चिराद्विपन्नराज्यः सन् विपत्स्यसे ॥ ३।३३।२३ ॥
इतीति । तया शूर्पणखया इत्यनेन प्रकारेण परिकीर्तितान् बुद्ध्या समीक्ष्य विचार्य धनादिना अन्वितः क्षणदाचरेश्वरः रावणः चिरेण विचिन्तयामास ॥ ३।३३।२४ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे त्रयस्त्रिंशः सर्गः ॥ ३।३३ ॥