मारीचोपदिष्टरावणकर्तृकस्वगृहगमनानन्तरकालिकं वृत्तान्तमाह–तत इत्यादिभिः । जलदोपमा शूर्पणखा एकेन रामेण रक्षसां चतुर्दशसहस्राणि हतानि दृष्ट्वा दूषणादिकं च हतं दृष्ट्वा ततस्तस्माद्धेतोः महानादं यथा भवति तथा ननाद शोकसूचकशब्दं चकार । श्लोकद्वयमेकान्वयि ॥ ३।३२।१२ ॥
सेति । सा शूर्पणखा अन्यैः सुदुष्करं रामस्य कृतं कर्म दृष्ट्वा रावणपालितां लङ्कां परमोद्विग्ना सती जगाम ॥ ३।३२।३ ॥
सेति । सा शूर्पणखा मरुद्भिर्देवैर्वासवमिन्द्रमिव सचिवैः उपोपविष्टं दीप्ततेजसं रावणं विमानाग्रे ददर्श ॥ ३।३२।४ ॥
रावणं वर्णयन्नाह–आसीनमित्यादिभिः । काञ्चने स्वर्णनिर्मिते सूर्यसंकाशे परमासने आसीनं रुक्मवेदिगतं हिरण्येष्टकाचितां वेदिप्राप्तां प्राज्यं बह्वाज्यहोमवन्तमत एव पावकमिव ज्वलन्तम् ॥ ३।३२।५ ॥
देवादीनां समरे अजेयं व्यात्ताननं प्रसारितवदनमन्तकमिव घोरं भयङ्करम् ॥ ३।३२।६ ॥
देवासुरविमर्देषु देवरक्षःसङ्ग्रामेषु वज्राशनिकृतव्रणं मणिविशेषसंलग्नाशनिकृतव्रणविशिष्टम् ऐरावतविषाणाग्रैः ऐरावतदन्ताग्रभागैः उत्कृष्टेन भेदनेन यः किणः दन्ताकारव्रणः तद्युक्तं वक्षो यस्य तम् ॥ ३।३२।७ ॥
विंशद्भुजं विंशतिसंख्याकभुजविशिष्टं दशग्रीवं दशसंख्याकग्रीवाविशिष्टं दर्शनीयाः परिच्छदाः छत्रचामरादयो यस्य तम् ॥ ३।३२।८ ॥
नद्धम् आभरणतया शरीरे संलग्नं यत् वैदूर्यमणिविशेषः तत्संकाशं तद्वर्णसदृशवर्णविशिष्टं महास्यं बृहदाननविशिष्टम् । ऽस्निग्धवैदूर्य–ऽ इति पाठो बहुलमिति भट्टाः ॥ ३।३२।९ ॥
देवसंयुगे महायुद्धेषु विष्णुमात्रसङ्ग्रामेषु च शतशो विष्णुचक्रनिपातैः अन्यैश्चक्रभिन्नैः शस्त्रप्रहारैश्च ताडितम् ॥ ३।३२।१० ॥
समस्तैः देवप्रहरणैः देवानामायुधैः आहताङ्गम् आहतानि ताडितानिन अङ्गानि यस्य तम्, अक्षोभ्याणां क्षोभयितुमशक्यानां समुद्राणां क्षोभणं क्षिप्रकारिणं झटिति सर्वकार्यप्रवर्तकम् ॥ ३।३२।११ ॥
धर्माणामुच्छेत्तारं निवर्तकमत एव परदाराभिमर्शनम् ॥ ३।३२।१२ ॥
सर्वदिव्यास्त्रयोक्तारं सर्वदिव्यास्त्राणां तत्प्रयोगाणां योक्तारं कर्तारम्, यः भोगवतीं नागस्वामिकां पुरीं गत्वा वासुकिं पराजित्य तक्षकस्य तक्षकं च पराजित्य तक्षकस्य प्रियां भार्यां जहार । तक्षकस्येत्युभयान्वयि ॥ ३।३२।१३ ॥
कैलासं गत्वा नरवाहनं कुबेरं विजित्य कामगं तस्य पुष्पकं नाम विमानं यो जहार ॥ ३।३२।१४ ॥
चैत्ररथं तत्संज्ञकं वनं कुबेरकाननं नलिनीं तदन्तर्वर्तिसरसीं च नन्दनं तत्संज्ञकं वनमिन्द्रकाननं च देवोद्यानानि च यो निनाशयति ॥ ३।३२।१५ ॥
चन्द्रेति । शैलशिखरोपमो यःउत्तिष्ठन्तौ चन्द्रसूर्यौ बाहुभ्यां निवारयति ॥ ३।३२।१६ ॥
दशवर्षसहस्राणि तपस्तप्त्वा स्वयम्भुवे ब्रह्मणे शिरांसि य उपजहार बलित्वेन प्रापयामास ॥ ३।३२।१७ ॥
मानुषात् नित्यनराकृतिपरमात्मनः ऋते विना मृत्युतो मरणात् यस्याभयमत एव देवादिभिश्चाभयम् ॥ ३।३२।१८ ॥
हविर्धानेषु सोमसवनकर्मविशिष्टेषु अध्वरेषु यागेषु द्विजातिभिः कर्तृभिः मन्त्रैरभिष्टुतं सोमं चन्द्रमसं यो महाबलः उपहन्ति तम् ॥ ३।३२।१९ ॥
प्राप्तयज्ञहरम् आसन्नसमाप्तिकालिकयागविध्वंसकमत एव क्रूरकारिणम् अत एव कर्कशम् अतिरूक्षम् अत एव निरनुक्रोशं दयारहितम् अत एव जनानामहिते रतम् अत एव सर्वलोकभयावहं क्रूरं भ्रातरं रावणं राक्षसी सा शूर्पणखा ददर्श? । सार्धसप्तदशश्लोक एकान्वयी ॥ ३।३२।२०२१ ॥
तमिति । काले प्रलयसमये उद्यतं प्राप्तं प्रसिद्धं कालं महामृत्युमिव आसने सूपविष्टं राक्षसेन्द्रं मन्त्रिभिः परिवारितं तं रावणम् उपगम्याब्रवीत् । सार्धश्लोकद्वयमेकान्वयि ॥ ३।३२।२२२४ ॥
तदेव भङ्ग्यन्तरेणाह–तमिति । दीप्ते प्रकाशिते विशाले लोचने यस्य तं रावणं भयलोभमोहिता भयेन राक्षसविनाशजनितभीत्या लोभेन अतिसुन्दररामविषयकप्राप्त्युत्कटेच्छया च मोहिता कर्तव्यविषयकाविवेकं प्राप्ता अभीतचारिणी अभीताचरणशीला महात्मना विरूपिता शूर्पणखा प्रदर्शयित्वा रामकृतं स्ववैरूप्यं प्रदर्श्य सुदारुणं वाक्यमब्रवीत् ॥ ३।३२।२५ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे द्वात्रिंशः सर्गः ॥ ३।३२ ॥