०३० खरवधः

खरगदाभेदानानन्तरकालिकं वृत्तान्तमाह–भित्त्वेति । धर्मवत्सलो राघवस्तां खरप्रक्षिप्तां गदां शरै भित्त्वा स्मयमानः सन् संरब्धं कोपसूचकमिदं वाक्यं खरमब्रवीत् ॥ ३।३०।१ ॥

एतदिति । हे राक्षसाधम ते एतत् बलसर्वस्वं दर्शितं त्वयैवेति शेषः, शक्तिहीनतरस्त्वं मत्तो वृथा उपगर्जसि स्वप्राबल्यं कथयसि ॥ ३।३०।२ ॥

एषेति । अभिधानप्रगल्भस्य स्वप्राबल्यकथनधृष्टस्य तव एषा गदा बाणविनिर्भिन्ना अत एव तव प्रत्ययघातिनी प्रत्ययस्य परैरच्छेद्यातो ऽनया शत्रुविध्वंसो भविष्यत्येवेतिविश्वासस्य घातिनी निवर्तिका सती भूमितलं गता प्राप्ता ॥ ३।३०।३ ॥

यदिति । यत् वचस्त्वया उक्तं तदपि वचः मिथ्या ॥ ३।३०।४ ॥

नीचस्येति । नीचस्य तव प्राणान् गरुत्मान् गरुडो ऽमृतमिव अपहरिष्यामि ॥ ३।३०।५ ॥

अद्येति । मद्बाणैर्विदारितस्य अत एव भिन्नकण्ठस्य तव फेनबुद्बुदभूषितं फेनबुद्बुदाभ्यां शोभितं शोणितं मही पास्यति ॥ ३।३०।६ ॥

पांस्विति । पांसुरूषितसर्वाङ्गः धूलीव्याप्तशरीरः स्रस्तं शरीरदेशाच्च्युतम् अत एव न्यस्तं भूमौ संस्थापितं भुजद्वयं यस्य स त्वं दुलेभां प्रमदामिव गां पृथ्वीं समाश्लिष्य स्वप्स्यसे ॥ ३।३०।७ ॥

प्रवृद्धेति । प्रवृद्धा अतिदैर्घ्यं प्राप्ता निद्रा यस्य तस्मिन् राक्षसपांसने त्वयि शयिते सति इमे दण्डकाः दण्डकारण्यं शरण्यानां शरणे हितानां मुनीनां शरण्या भविष्यन्ति ॥ ३।३०।८ ॥

तदेव भङ्ग्यन्तरेणाह–जनेति । हे राक्षस मच्छरैः हतं निवृत्तं स्थानं राक्षसस्थितिर्यस्मात् तस्मिन् तव जनस्थाने वने मुनयो विचरिष्यन्ति ॥ ३।३०।९ ॥

अद्येति । याः अन्यभयावहाः राक्षस्यः ता अद्य हतबान्धवाः अत एव दीनाः बाष्पार्द्रवदनाः सत्यः भयात् विप्रसरिष्यन्ति ॥ ३।३०।१० ॥

अद्येति । यासां पतिस्त्वमीदृशः स्वदुराचरणेन विध्वस्तस्ता अनुरूपकुलाः दुराचरणेन स्वकुलयोग्या राक्षस्यः निरर्थिकाः सत्यः शोकरसज्ञा भविष्यन्ति ॥ ३।३०।११ ॥

नृशंसेति । हे नृशंस त्वत्कृते सत्कर्मविध्वंसाय त्वत्प्रयत्ने सति शङ्कितैः मुनिभिः हविरग्नौ पात्यते, एतेन महानपराधो युष्माभिः कृत इति सूचितम् ॥ ३।३०।१२ ॥

तमिति । एवं संरब्धं वचो ब्रुवाणं राघवं रोषात्खरतरस्वरः खरो निर्भर्त्सयामास ॥ ३।३०।१३ ॥

तत्प्रकारमाह–दृढमिति । त्वं दृडमत्यन्तमवलिप्तो गर्ववानसि अत एव भयेषु मरणभीतिषु प्राप्तेषु अपि निर्भयस्तत एव हेतोः मृत्योर्वश्यस्त्वं वाच्यावाच्यं न बुध्यसे ॥ ३।३०।१४ ॥

मृत्युवशत्वमेव द्रढयन्नाह–कालेति । ये पुरुषाः कालपाशपरिक्षिप्ता भवन्ति ते निरस्तषडिन्द्रियाः सन्तः कार्याकार्यं न जानन्ति । मनसो ऽपीन्द्रियत्वमिति मतेन मनसः प्रधानत्वेन चेन्द्रियाणां षट्त्वमिति नानुपपत्तिः ॥ ३।३०।१५ ॥

एवमिति । राममेवमुक्त्वा भृकुटीं संरुध्य संनिबध्य प्रहरणस्यार्थे प्रहारार्थं सर्वतो ऽवलोकयन् पश्यन् स निशाचरः अविदूरे निकटे महासालं वृक्षविशेषं ददर्श । सार्धः श्लोक एकान्वयी ॥ ३।३०।१६ ॥

स इति । स खरः संदष्टदशनच्छदं यथा भवति तथा तं महाशालमुत्पाटयामास ॥ ३।३०।१७ ॥

तमिति । महाबलः खरस्तं महासालं बाहुभ्यामुत्क्षिप्य ऊर्ध्वमुत्थाप्य विनर्दित्वा विनर्द्य च राममुद्दिश्य चिक्षेप त्वं हत इत्यब्रवीच्च ॥ ३।३०।१८ ॥

तमिति । आपतन्तं तं समरे संग्रामे बाणौघैः छित्वा प्रतापवान् रामः खं निहन्तुं तीव्रं रोषमाहारयत् ॥ ३।३०।१९ ॥

जात इति । ततस्तीव्ररोषस्वीकारानन्तरं रोषरक्तान्तलोचनः रोषेण रक्ते ऽन्तलोचने लोचनान्तभागौ यस्य स जातस्वेदो रामः बाणानां सहस्रेण खरं निर्बिभेद ॥ ३।३०।२० ॥

तस्येति । बाणान्तरात् बाणकृतव्रणान्तरालात् प्रस्रवणस्य तदभिधस्य गिरेः धाराणां परिश्रव इव फेनिलं रक्तं बहु शुश्राव ॥ ३।३०।२१ ॥

विकल इति । रामेण बाणैः खरो विकलः कृतः अत एव रुधिरगन्धेन मत्तः स खरस्तं राममेव द्रुतमभ्यद्रवत् ॥ ३।३०।२२ ॥

तमिति । कृतास्त्रः कृतानि छिन्नानि अस्त्राणि खरायुधानि येन स त्वरितविक्रमो रामः रुधिराप्लुतं संक्रुद्धमापतन्तं तं खरं प्रतिपदं तत्स्थानं प्रति किंचिदपासर्पत् बाणप्रहारयोग्यान्तराललाभायापासर्पयत् अन्तर्भावितणिजर्थः अन्यथा तच्छब्दार्थस्य कर्मत्वाप्राप्त्या तद्वाचकात् द्वितीयानापत्तेः पञ्चम्यापत्तेश्च दृष्ट्वेत्यस्याध्याहारे तु गौरवम् ऽद्वित्रिपदम्ऽ इति भट्टपाठः ॥ ३।३०।२३ ॥

तत इति । ततस्तदपासर्पणानन्तरं रामः खरस्य वधाय अपरं ब्रह्मदण्डमिव पावकसंकाशं शरं जग्राह ॥ ३।३०।२४ ॥

स इति । स रामः सुरराजेन मघवता दत्तं शरं संदधे स खरं प्रति मुमोच च ॥ ३।३०।२५ ॥

स इति । धनुरायम्य रामेण विमुक्तः निर्घातसमनिस्वनः महाबाणः खरस्य उरसि अपतत् ॥ ३।३०।२६ ॥

स इति । रुद्रेण विनिर्दग्धः श्वेतारण्ये ऽन्धक इव शराग्निना दह्यमानः खरः भूमौ पपात ॥ ३।३०।२७ ॥

स इति । वज्रेण वृत्र इव फेनेन नमुचिरिव इन्द्राशनिहतो बलो वा इव हतो रामेण निहतः खरो निपपात आर्द्रशुष्काभ्यां तद्धननाभावस्य ब्रह्मवरेण सिद्धत्वात्फेनेन वध इत्यन्यत्र प्रपञ्चितम् ॥ ३।३०।२८ ॥

एतस्मिन्निति । एतस्मिन् अन्तरे समये चारणैः सह सङ्गताः संमिलिताः संहृष्टाः देवा दुन्दुभीन् अभिनिघ्नन्तः सन्तः रामस्योपरि समन्ततः पुष्पवर्षं ववृषुः । सार्धश्लोक एकान्वयी ॥ ३।३०।२९ ॥

अर्धेति । अर्धाधिकमुहूर्तेन घटीत्रयेण खरदूषणमुख्यानां रक्षसां चतुर्दश सहस्राणि महामृधे रामेण रामेण निहतानि ॥ ३।३०।३०३१ ॥

अहो इति । विदितात्मनो रामस्य आश्चर्यीभूतकर्मादित्रयमिव विष्णोः कर्मादित्रयं दृश्यते ॥ ३।३०।३२ ॥

इतीति । सर्वे देवा इत्येवमुक्त्वा यथागतं ययुः । ततस्तद्गमनानन्तरं संगताः सर्वे सागस्त्याः राजर्षयः परमर्षयो ब्रह्मर्षयश्च रामं सभाज्य पूजयित्वा इदमब्रुवन् ॥ ३।३०।३३ ॥

तद्वचनाकारमाह–एतदर्थमिति । महेन्द्रो ऽत्यैश्वर्यवान् पुरन्दरः रिपुपुरविदारकः पाकशासन इन्द्रः एतदर्थं त्वत्कर्तृकराक्षसवधप्रार्थनार्थं शरभङ्गाश्रममाजगाम अत एव एषां शत्रूणां रक्षसां वधार्थं महर्षिभिः उपायेन इमं देशं त्वमानीतः ॥ ३।३०।३४३५ ॥

तदिति । तत् अस्माभिरीप्िसतमिदं नः कार्यं त्वया कृतम् अतः दण्डकेषु महर्षयः स्वधर्मं प्रचरिष्यन्ति ॥ ३।३०।३६ ॥

एतस्मिन्निति । सीतया सह लक्ष्मणः गिरिदुर्गात् विनिष्क्रम्य आश्रमे स्वपर्णशालायां सुखी सन् संविवेश ॥ ३।३०।३७ ॥

तत इति । महर्षिभिः पूज्यमानो वीरो विजयी रामः आश्रमं प्रविवेश । ततो ऽनन्तरं लक्ष्मणेनाभिपूजितो ऽभवदिति शेषः ॥ ३।३०।३८ ॥

तमिति । महर्षीणां सुखावहं भर्तारं तं रामं दृष्ट्वा हृष्टा बभूव अत एव परिषस्वजे ॥ ३।३०।३९ ॥

मुदेति । जनकात्मजा वैदेही रक्षोगणान् हतान् दृष्ट्वा अव्ययं चित्तविकाररहितं रमां च दृष्ट्वा तुतोष ॥ ३।३०।४० ॥

उपसंहरन्नाह–तत इति । राक्षससङ्घमर्दनम् अत एव महात्मभिः पूज्यमानं तं रामं मुदान्वितानना जनकात्मजा पुनः परिष्वज्य हृष्टा अतिसंतुष्टा बभूव ॥ ३।३०।४१ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे त्रिंशः सर्गः ॥ ३।३० ॥