त्रिशिरोविध्वंसानन्तरकालिकं वृत्तान्तमाह–निहतमित्यादिभिः । त्रिशिरसा सह रणे निहतं दूषणं दृष्ट्वा अत एव रामस्य विक्रमम् अनियतपराक्रमं च दृष्ट्वा खरस्यापि त्रासः स्वसहितस्वकुलविध्वंसजनितोद्वेगः अभवत् ॥ ३।२८।१ ॥
स इति । अविषह्यं परैः सोढुमशक्यं महाबलं राक्षससैन्यम् एकेन रामेण हतं दृष्ट्वा त्रिशिरोदूषणावपि हतौ दृष्ट्वा तद्बलं त्रिशिरोदूषणयोः सैन्यं च हतभूयिष्ठं हताः भूयिष्ठाः बलवन्तो यस्मिँस्तत्प्रेक्ष्य विमनाः खरो राक्षसः नमुचिर्वासवमिव आससाद । श्लोकद्वयमेकान्वयि ॥ ३।२८।२३ ॥
विकृष्येति । बलवत् अतिदृढं चापं विकृष्य कुद्धान् आशीविषानिव रक्तभोजनान्नाराचान् बाणविशेषान् रामाय खरश्चिक्षेप ॥ ३।२८।४ ॥
ज्यामिति । सुबहुशो ऽनेकवारं ज्यां विधुन्वन् सन् शिक्षया गुरुगृहीतधनुर्विद्याभ्यासेन अस्त्राणि दर्शयन् रथगतः खरः समरे मार्गान् चचार ॥ ३।२८।५ ॥
स इति । स खरः दिशः प्रदिशश्च बाणैः पूरयामास तं तादृशक्रियाविशिष्टं खरं दृष्ट्वा रामो ऽपि सुमहत् धनुर्जग्राहेति शेषः ॥ ३।२८।६ ॥
स इति । सः गृहीतचापो रामः विस्फुलिङ्गैः विस्फुलिङ्गाकारैः अग्निभिरिव दुर्विषहैः सायकैः वृष्टिभिः पर्जन्य इव नभः आकाशम् आववरं विवराभाववत् चकार ॥ ३।२८।७ ॥
तदेव भङ्ग्यन्तरेणाह–तदिति । खररामविसर्जितैः बाणैः पर्याकाशं सर्वत्र विद्यमानमवकाशवदाकाशं शरसंकुलं सत् अनाकाशम् अवकाशरहितत्वेनाकाशरहितं बभूव ॥ ३।२८।८ ॥
शरेति । अन्योन्यवधाय संरम्भः कापस्तस्मात् हेतोर्युध्यतोरुभयोः शरजालावृतः सूर्यो ऽभवदिति शेषः, अत एव तदा न प्रकाशते स्म ॥ ३।२८।९ ॥
तत इति । नालीकादिभिः बाणविशेषैस्तोत्रैर्महाद्विपमिव रणे राममाजघान ॥ ३।२८।१० ॥
तमिति । रथस्थं पर्यवस्थितं राक्षसं पाशहस्तमन्तकमिव सर्वभूतानि ददृशुः ॥ ३।२८।११ ॥
हन्तारमिति । तदा स्वबाणप्रक्षेपणसमये सर्वसैन्यस्य हन्तारं महासत्त्वमतिबलवन्तं पौरुषे परमपुरुषत्वे पर्यवस्थितं रामं खरः परिश्रान्तं मेने, एतेन खरस्याज्ञानं सूचितम् ॥ ३।२८।१२ ॥
तमिति । सिंहमिव विक्रान्तं सिंहवद्विक्रमविशिष्टं सिंहविक्रान्तवत् सिंहगमनवद्गच्छति तच्छीलं तं खरं दृष्ट्वा सिंहः क्षुद्रमृगमिव दृष्ट्वा रामो नोद्विजते ॥ ३।२८।१३ ॥
तत इति । सूर्यनिकाशेन सूर्यवत्प्रतिभासमानेन महता रथेनोपलक्षितः खरः पतङ्गः पावकमिव खरो रामम् आससाद ॥ ३।२८।१४ ॥
तत इति । अस्य रामस्य सशरं शरसहितं चापं खरो हस्तलाघवं दर्शयन् सन् मुष्टिदेशे चिच्छेद, एतेन तद्धनुषो ऽदिव्यत्वं सूचितम् यदि तु वस्तुतस्तु चिच्छेदेत्यस्य द्विधाभवनानुकूलव्यापारं चकारेत्यर्थः, नहि व्यापारामत्रेण फलसिद्धिः सार्वत्रिकीत्यत्र फलसिद्धेरभावात् चापस्य दिव्यत्वमक्षतमेव ॥ ३।२८।१५ ॥
स इति । स खरः शक्राशनिसमप्रभान् अपरान् सप्त शरानादाय वर्मणि कवचे जघान ॥ ३।२८।१६ ॥
तत इति । अप्रतिमौजसम् अनुपमपराक्रमं रामं शरसहस्रेण अर्दयित्वा खरो महानादं ननाद ॥ ३।२८।१७ ॥
तत इति । खरमुक्तैर्बाणैः प्रहतं ताडिताश्रयत्वेनेच्छाविषयीभूतमादित्यवर्चसं तत् रामकवचं भूमौ पपात ताडितस्वसंस्पर्शजनितरामखेदसंभावनया बाणसंबन्धात्पूर्वमेव रामशरीरान्निस्सृत्य खरप्रक्षिप्तबाणान् गृहीत्वा पृथिव्यामतिष्ठदित्यर्थः ॥ ३।२८।१८ ॥
स इति । शरैः सर्वगात्रेषु अर्दितः प्राप्तः क्रुद्धो रामः विधूमो ऽग्निरिव ज्वलन् सन् समरे रराज ॥ ३।२८।१९ ॥
तत इति । ततः खरकृतप्रहारानन्तरं शत्रुनिबर्हणः स रामः रिपोरन्ताय निर्हादं शब्दविशेषम् अन्यद्धनुः सज्यं चकार ॥ ३।२८।२० ॥
सुमहदिति । यत् वैष्णवं विष्णुसंस्कृतं सुमहत् धनुः महर्षिणा अगस्त्येन अतिसृष्टं दत्तं तद्वरं ध्ानुरुद्यम्य खरं समभिधावत राम इति शेषः । अगस्त्येन दत्तमित्यनेन मद्दत्तचापेनैव खरो हन्तव्य इत्यगस्त्यप्रार्थना सूचिता ते नागस्त्यस्याप्यनेन कश्चिदपराधः कृत इति सूचितम् ॥ ३।२८।२१ ॥
तत इति । कनकपुङ्खैः शरैः खरस्य ध्वजं संक्रुद्धो रामः चिच्छेद ॥ ३।२८।२२ ॥
स इति । बहुधा बहुप्रकारं विच्छिन्नः दर्शनीयः काञ्चनो ध्वजः देवतानामाज्ञया सूर्य इव धरणीं जगाम । अस्याप्रसिद्धत्वे अभूतोपमात्वम् ॥ ३।२८।२३ ॥
तमिति । क्रुद्धः खरः तं रामं तोमरैर्मातङ्गं गजमिव मार्गणैर्बाणैः हृदि विव्याध ॥ ३।२८।२४ ॥
स इति । खरकार्मुकनिःसृतैः खरचापच्युतैर्बहुभिर्बाणैः विद्धस्ताडितः रुधिरसिक्ताङ्गः निहतानेकराक्षसशरीरजनितशोणितोक्षितो रामः भृशं रुषितो बभूव ॥ ३।२८।२५ ॥
स इति । धन्विनां श्रेष्ठः परमेष्वासः गृहीतपरमचापः स रामः अभिलक्षितान् लक्ष्योद्देश्यत्वेन बोधितान् षट् शरान् मुमोच ॥ ३।२८।२६ ॥
तत्प्रकारमाह–शिरसीति । एकेन बाणेन शिरसि द्वाभ्यां बाह्वोः अताडयत्, चन्द्रार्धवक्रैः त्रिभिः बाणैः वक्षसि अभिजघान ॥ ३।२८।२७ ॥
तत इति । ततः पश्चात् षड्बाणप्रक्षेपानन्तरं महातेजाः रामः भास्करोपमान् त्रयोदश नाराचान् राक्षसं जघान ॥ ३।२८।२८ ॥
तत्प्रकारमाह–रथस्येति । एकेन बाणेन रथस्य युगं रथाङ्गं यद्यपि ऽयुगो रथहलाद्यङ्गेऽ इति कोशात् युगेनैव रथाङ्ग्रहणे सिद्धे रथस्येति निरर्थकं तथापि स्पष्टत इतराङ्गव्यावृत्तये तदुपात्तम् । अन्वयस्तु विशेषणाविवक्षया चतुर्भिः शबलान् चित्रान् हयान् षष्ठेन च सारथेः शिरः चिच्छेद ॥ ३।२८।२९ ॥
त्रिभिरिति । त्रिभिः त्रिवेणून् रथमुखस्थयुगाधारदण्डं द्वाभ्याम् अक्षं चक्राधारं द्वादशेन तु खरस्य सकरं करसहितं धनुः छित्त्वा वज्रनिकाशेन वज्रसदृशेन त्रयोदशेन इन्द्रसमो राघवः खरं बिभेद । श्लोकद्वयमेकान्वयि ॥ ३।२८।३०३१ ॥
प्रभग्नेति । प्रभग्नं धनुर्यस्य स खरः अवप्लुत्य भग्नरथाद्बहिरागत्य गदापाणिः सन् भूमौ तस्थौ ॥ ३।२८।३२ ॥
तदिति । विमानाग्रगता देवाः समेताः समदृष्टयो महर्षयश्च प्राञ्जलयः प्रहृष्टाः सन्तः समेत्य तत् अद्भुतं रामस्य कर्म अपूजयन् प्राशंसन् ॥ ३।२८।३३ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे ऽष्टाविंशतितमः सर्गः ॥ ३।२८ ॥