त्रितयावशेषानन्तरकालिकं वृत्तान्माह–खरमित्यादिभिः । वाहिनीपतिः सेनाधीशः त्रिशिरा नाम राक्षसः रामाभिमुखं प्रयान्तं खरं दृष्ट्वा सन्निपत्य तत्समीपं प्राप्य इदमब्रवीत् ॥ ३।२७।१ ॥
तद्वचनाकारमाह–मामिति । विक्रान्तमति विक्रमविशिष्टं मां नियोजय युद्धे इति शेषः, त्वं साहसात् सहसाप्रवृत्तगमनात् त्वं निवर्तस्व रामं विनिपातितं पश्य ॥ ३।२७।२ ॥
प्रतीति । ते तवाग्रे अहं सत्यं प्रतिजानामि आयुधं चालभे आयुधशपथं करोमीत्यर्थः, सर्वरक्षसां वधार्हं संमिलितनिखिलराक्षसकर्तृकवधयोग्यं रामं यथा यथावद्वधिष्यामि ॥ ३।२७।३ ॥
जयपराजययोः परमात्मायत्तत्वेन निश्चयाभावादाह–अहमिति । अस्य रामस्य मृत्युर्विनाशकः अहं वा एष रामो वा मम मृत्युः, एतेन पलायितो न भविष्यामीति सूचितम् । अतः रणोत्साहं तात्कालिकयुद्धोत्कटेच्छां निवर्त्य मुहूर्तं प्राश्निकः मध्यस्थो भव साक्षितया युद्धं पश्येत्यर्थः ॥ ३।२७।४ ॥
युद्धदर्शनानन्तरकालिकं तत्कर्तव्यमाह–प्रहृष्ट इति । संयुगाय संग्रामाय प्रयास्यति ॥ ३।२७।५ ॥
खर इति । मृत्युलोभात् मृत्युनिवृत्तिविषयकोत्कटेच्छातः किं च मृत्युलोभात् मृत्युविषयकाविवेकात् अस्य मृत्युर्न भविष्यतीति भ्रमादित्यर्थः, त्रिशिरसा प्रसादितः प्रसन्नचित्तः खरः अभवदिति शेषः, अत एव गच्छ युध्य युद्धं कुरु इत्यभिज्ञातः त्रिशिराः इति शेषः, राघवाभिमुखः सन् ययौ ॥ ३।२७।६ ॥
त्रिशिरा इति । भास्वता प्रकाशमानेन वाजियुक्तेन रथेनोपलक्षितस्त्रिशृङ्गः पर्वत इव त्रिशिराः रामम् अभ्यद्रवत् ॥ ३।२७।७ ॥
शरेति । स त्रिशिराः महामेघ इव शरधारासमूहान् उत्सृजंस्त्यजन् सन् जलार्द्रस्य दुन्दुभेः सदृशमेव नादं व्यसृजत् । इवशब्द एवार्थे ॥ ३।२७।८ ॥
आगच्छन्तमिति । त्रिशिरसम् आगच्छन्तं प्रेक्ष्य धनुषा सह शितान् सायकान् विधुन्वन् सन् राघवः प्रतिजग्राह ॥ ३।२७।९ ॥
स इति । तदा उभयोः समागमे सति अतिबलिनोः रामत्रिशिरसोः सिंहकुञ्जरयोरिव तुमुलः संप्रहारः संबभूव ॥ ३।२७।१० ॥
तत इति । ततः समागमनानन्तरं त्रिभिर्बाणैः त्रिशिरसा ललाटे ताडितः अमर्षी ऋष्यपराधासहनशीलः अत एव कुपितः स्वीकृतकोपाभासो रामः संरब्धः राक्षसकोपोत्पादकः सन् इदमब्रवीत् । संरब्ध इत्यत्र अन्तर्भावितणिजर्थः कर्तरिनिष्ठा तु कर्माविवक्षया ऽकर्मकत्वात् ॥ ३।२७।११ ॥
तद्वचनाकारमाह–अहो इति । यस्य राक्षसस्य शरैः पुष्पैरिव ललाटे ऽहं परिक्षतो हतो ऽस्मि तस्य विक्रमशूरस्य परपराभवविषयकशौर्यविशिष्टस्य राक्षसस्य ईदृशं बलम् अहो आश्चर्यम् एतेन राक्षसानां परमात्रपराभवशक्तिमत्वे तन्निहतबाणस्य पुष्पवत्त्वं न स्यादिति सूचितं तेन तव पराक्रमो नास्तीति सूचितम् ॥ ३।२७।१२ ॥
ममेति । चापगुणात् ज्यातः च्युतान् ममापि शरान् प्रतिगृह्णीष्व एवमुक्त्वा सुसंरब्धः समुत्पादितराक्षसकोपः कुद्धः स्वीकृतकोपाभासो रामः आशीविषोपमान् चतुर्दश शरान् त्रिशिरसो वक्षसि निजघान । सार्धश्लोक एकान्वयी ॥ ३।२७।१३ ॥
चतुर्भिरिति । संनतानि पर्वाणि येषां तैश्चतुर्भिः शरैः अस्य त्रिशिरसः वाजिनः अतिवेगयुक्तान् चतुरस्तुरगांस्तेजस्वी रामः न्यपातयत अष्टाभिः सायकैः रथोपस्थे सूतं न्यपातयत् ॥ ३।२७।१४१५ ॥
राम इति । समुच्छ्रितं ध्वजं बाणेन रामः चिच्छेद । अर्धं पृथक्–तत इति । ततो ऽनन्तरं हतरथात् तस्मात् उत्पतन्तं तं निशाचरं बाणैः हृदये रामः चिच्छेद अत एव स त्रिशिराः जडः जडसदृशः अभवत् ॥ ३।२७।१६ ॥
सायकैरिति । अप्रमेयात्मा इयत्तारहितधैर्यादिः रामः शरैरुपलक्षितस्य तस्य रक्षसः त्रीणि शिरांसि त्रिभिः सायकैः अपातयत् ॥ ३।२७।१७ ॥
सेति । रामबाणाभिपीडितः अत एव सधूमशोणितोद्गारी धूमसहितरुधिरोद्गरणशीलः समरस्थः पूर्वपतितैः पतितशरकृतव्रणैरुपलक्षितो निशाचरः न्यपतत् ॥ ३।२७।१८ ॥
हतेति । ततः त्रिशिरोवधानन्तरं हतशेषाः भग्नाः छिन्नाङ्गुलिप्रभृतयः राक्षसाः व्याघ्रत्रस्ता मृगा इव खरसंश्रयाः सन्तः द्रवन्ति स्म अत एव न तिष्ठन्ति स्म । अर्धचतुष्टयमेकान्वयि ॥ ३।२७।१९ ॥
तानिति । द्रवतस्तान् राक्षसान् दृष्ट्वा रुषितः प्राप्तरोषः खरः त्वरन् सन् निवर्त्य राहुः चन्द्रमसमिव राममेवाभिदुद्राव ॥ ३।२७।२० ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे सप्तविंशः सर्गः ॥ ३।२७ ॥