सैन्यहननानन्तरकालिकं वृत्तान्तमाह–दूषण इत्यादिभिः । स्वसैन्यं हन्यमानं दूषणो विलोक्य दुरासदान् आसादितुमशक्यान् समरेषु अनिवर्तिनः पञ्चसाहस्रान् राक्षसान् संदिदेश । सार्धश्लोक एकान्वयी ॥ ३।२६।१ ॥
ते इति । ते राक्षसाः शूलादिभिः समन्ततः अविच्छिन्नं निरन्तरं तं रामं ववर्षुः ॥ ३।२६।२ ॥
तदिति । प्राणहरं तद्द्रुमादीनां वर्ष धर्मात्मा राघवस्तीक्ष्णसायकैः प्रतिजग्राह ॥ ३।२६।३ ॥
प्रतीति । निमीलितः निमीलितनयनः ऋषभः सर्वश्रेष्ठो रामः सर्वरक्षसां वधार्थं परं क्रोधमिव लेभे । इवेन तस्य राक्षसदुष्टत्वनिवर्तकत्वात्कृपालुत्वं सूचितम् ॥ ३।२६।४ ॥
तत इति । तेजसा प्रदीप्तः क्रोधसमाविष्ठ इव रामः सहदूषणं दूषणसहितं सैन्यं शरैः सर्वतः अभ्यकिरत् ॥ ३।२६।५ ॥
तत इति । शत्रुदूषणः क्रुद्धो दूषणः अशनिकल्पैः शरैस्तं राघवं समवारयत् ॥ ३।२६।६ ॥
तत इति । ततः दूषणशरसंवारणानन्तरं सुसंक्रुद्धो रामः क्षुरेण क्षुरधारेण बाणेन अस्य महद्धनुः चतुर्भिर्बाणैश्चतुरो हयांश्च चिच्छेद ॥ ३।२६।७ ॥
हत्वेति तीक्ष्णैः शरैः अश्वान् हत्वा अर्धचन्द्रेण सारथेः शिरो जहार त्रिभिर्बाणैः तत् रक्षो दूषणं वक्षसि विव्याध ॥ ३।२६।८ ॥
स इति । विरथः स दूषणः गिरिशृङ्गाभं परिघं जग्राह ॥ ३।२६।९ ॥
वेष्टितमिति । काञ्चनैः स्वर्णमयैः पट्टैर्बन्धनैर्वेष्टितं तीक्ष्णैरायसैर्लोहनिर्मितैः शङ्कुभिः कीर्णं परवसोक्षितं परवसया शत्रुमेदसा उक्षितं सिक्तं परगोपुरदारणं शत्रुपुरद्वारविदारकं महोरगसंकाशं तं परिघं प्रगृह्य दूषणो राममभ्यपतत् । सार्धश्लोकद्वयमेकान्वयि ॥ ३।२६।१०१२ ॥
तस्येति । अभिपतमानस्य दूषणस्य सहस्ताभरणौ हस्ताभरणसहितौ भुजौ द्वाभ्यां शराभ्यां राघवः चिच्छेद ॥ ३।२६।१३ ॥
भ्रष्ट इति । भ्रष्टः आघूर्णनेन स्खलितः तस्य महाकायः रणभूर्धनि संग्राममध्ये पपात, छिन्नहस्तस्य परिधस्तु शक्रध्वज इव अग्रतः पपात ॥ ३।२६।१४ ॥
पतनमेव भङ्ग्यन्तरेणाह–कराभ्यामिति । विकीर्णाभ्यां प्रक्षिप्ताभ्यां कराभ्यामुपलक्षितो दूषणः विशीर्णाभ्यां पतिताभ्यां दन्ताभ्यामुपलक्षितो मनस्वी महागज इव भुवि पपात ॥ ३।२६।१५ ॥
दृष्ट्वेति । रणे निहतं दूषणं दृष्ट्वा सर्वभूतानि काकुत्स्थं रामं साधु साध्विति अपूजयन् ॥ ३।२६।१६ ॥
एतस्मिन्निति । अन्तरे समये मृत्युपाशावपाशिताः आसन्नमृत्यव इत्यर्थः, क्रुद्धाः महाकपालादयः त्रयः सेनाग्रयायिनः संहत्य एकीभूय रामम् अभ्यद्रवन् । सार्धश्लोक एकान्वयी ॥ ३।२६।१७ ॥
त्रयाणामभिद्रवणप्रकारमाहमहाकपाल इति । महाकपालः शूलमुद्यम्य, स्थूलाक्षः पट्टिशं, प्रमाथी परश्वधं च गृह्य गृहीत्वा अद्रवन्निति शेषः । अर्धद्वयमेकान्वयि ॥ ३।२६।१८ ॥
दृष्ट्वेति । आपततस्तान् दृष्ट्वा राघवस्तु तीक्ष्णाग्रैः शितैः सायकैः संप्राप्तान् अतिथीनिव प्रतिजग्राह ॥ ३।२६।१९ ॥
महाकपालस्येति । असंख्येयैः अतिद्रुतगमनवत्त्वेन संख्यातुमशक्यैः बाणौघैः महाकपालस्य शिरः चिच्छेद, प्रमाथिनं तु प्रममाथ स्थूलाक्षस्य अक्षिणी तु सायकैः पूरयामास ॥ ३।२६।२०२१ ॥
स इति । सः सेनाग्रयायिसमूहः विटपी बहुशाखावान् महाद्रुम इव भूमौ पपात । अर्धं पृथक्दूषणस्येति । पञ्चसाहस्रान् दूषणस्यानुगान् क्षणात् हत्वा तान् पञ्चसाहस्रान् यमसादनं सकलसंपत्तिविशिष्टलोकविशेषमनयत् ऽहत्वा तान् पञ्चसाहस्रान्ऽ इति पाठः ॥ ३।२६।२२ ॥
दूषणमिति । दूषणं तस्य पदानुगांश्च निहतं श्रुत्वा क्रुद्धः खरः महाबलान् सेनाध्यक्षान् व्यादिदेश ॥ ३।२६।२३ ॥
व्यादेशप्रकारमाह–अयमिति । सपदानुगः सानुचरः अयं दूषणः निहतः अतः हे सर्वराक्षसाः महत्या सेनया सार्धं युद्धा रामेणेति शेषः कुमानुषं रामं हनध्वं गणकार्यस्यानित्वान्न शपो लुक् ॥ ३।२६।२४२५ ॥
एवमिति । क्रुद्धः खरः एवमुक्त्वा राममेव अभिदुद्रुवे । अर्धं पृथक्श्येनेति । ससैन्यकाः श्येनगाम्यादयः द्वादश बलाध्यक्षाः शरोत्तमान् विसृजन्तो राममेव अभ्यधावन्त । सार्धश्लोकद्वयमेकान्वयि ॥ ३।२६।२६२८ ॥
तत इति । ततः ससैन्यबलाध्यक्षसहितखरपतनानन्तरं हेमवज्रविभूषितैः सायकैः सैन्यस्य शेषं तेजस्वी रामो जघान ॥ ३।२६।२९ ॥
तदेव भङ्ग्यन्तरेणाह–त इति । वज्रा महाद्रुमानिव रुक्मपुङ्खास्ते विशिखा रामबाणाः तानि अभिपतितानि रक्षांसि निजघ्नुः ॥ ३।२६।३० ॥
हननप्रकारमाह–रक्षसामिति । एकेन शतेन कर्णिना रक्षसां शतं रक्षसां सहस्रं तु सहस्रेण रणमूर्धनि जघान ॥ ३।२६।३१ ॥
तदेव भङ्ग्यन्तरेणाह–तैरिति । तैः रामबाणैर्भिन्नवर्माभरणाः अत एव शोणितादिग्धाः शोणितव्याप्ताः रजनीचराः धरण्यां निपेतुः ॥ ३।२६।३२ ॥
तैरिति । मुक्ता ग्रन्थिरहिताः केशाः येषां तैः पतितैः राक्षसैः कृत्स्ना वसुधा कुशैर्विस्तीर्णा महावेदिरिव विस्तीर्णा अभवदिति शेषः ॥ ३।२६।३३ ॥
तत्क्षण इति । निहतराक्षसं निहता राक्षसा यस्मिंतत् अत एव मांसशोणितकर्दमं
मांसशोणितरूपकर्दमविशिष्टं वनं तत्क्षणे तस्मिन् समये निरयप्रख्यं नरकसदृशं बभूव ॥ ३।२६।३४ ॥
रामप्रभावस्याश्चर्यत्वमाह–चतुर्दशेति । रक्षसां चतुर्दश सहस्राणि एकेन रामेण हतानि ॥ ३।२६।३५ ॥
तस्येति । सर्वस्य घातकसहितस्यापीत्यर्थः, शेषः अवशिष्टः खरः त्रिशिराः रिपुसूदनो रामश्च ॥ ३।२६।३६ ॥
शेषा इति । शेषाः एतत्त्रितयातिरिक्ताः लक्ष्मणस्याग्रजेन हताः ॥ ३।२६।३७ ॥
तत इति । ततः स्वसैन्यविध्वंसनानन्तरं भीमबलं भयङ्करस्वसैन्यं बलीयसा रामेण धर्मेण हतं समीक्ष्य महता रथेन उद्यताशनिनिन्द्र इव खरः रामं समाससाद ॥ ३।२६।३८ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे षड्विंशः सर्गः ॥ ३।२६ ॥