खरवृत्तान्तमाहअवष्टब्धेति । अवष्टब्धः सम्यग् गृहीतः धनुश्चापं येन स तं क्रुद्धं रिपुघातिनं रामपुरस्सरैः सह खरः आश्रममागम्य ददर्श उकारान्तधनुशब्दो ऽपि धनुःपर्यायः ॥ ३।२५।१ ॥
तमिति । रामं दृष्ट्वा सगुणं ज्यासहितं खरनिःस्वनं रूक्षशब्दविशिष्टैः चापमुद्यम्य रामस्याभिमुखं चोद्यतां प्राप्यतामित्यर्थः, रथ इति शेषः इति सूतमचोदयत् प्रैरयत् ॥ ३।२५।२ ॥
स इति । यत्र स्थले एको रामः धनुर्धुन्वन् सन् स्थितस्तत्र खरस्याज्ञया सूतस्तुरगान् समचोदयत् ॥ ३।२५।३ ॥
तमिति । तं खरं रामसंन्निधिं प्राप्तं दृष्ट्वा महानादं मुञ्चमानाः रजनीचराः सचिवाः श्येनगाम्यादयः सर्वतः पर्यवारयन् अवेष्टयन् ॥ ३।२५।४ ॥
स इति । यातुधानानां मध्ये रथगतः खरः ताराणां मध्ये उत्थितो लोहिताङ्गो भौम इव बभूव ॥ ३।२५।५ ॥
तत इति । ततः रामसमीपागमनानन्तरसमये शरसहस्रेण राममर्दयित्वा खरो महानादं ननाद ॥ ३।२५।६ ॥
तत इति । ततः खरकर्तृकहननानन्तरं भीमधन्वानं तं रामं सर्वे निशाचराः नानाविधैः शस्त्रैरभ्यवर्षन्त ॥ ३।२५।७ ॥
तत्प्रकारमाह–मुद्गरैरिति । रोषतत्पराः राक्षसाः समरे शूरं रामं मुद्गराद्यैर्निजघ्नुः ॥ ३।२५।८ ॥
ते इति । बलाहकसंकाशाः मेघसदृशास्ते राक्षसाः रथैर्वाजिभिश्च काकुत्स्थमभ्यधावन्त ॥ ३।२५।९ ॥
गजैरिति । पर्वतकूटाभैर्गिरिशिखरसदृशैर्गजैरुपलक्षिताः रामं जिघांसवः शैलेन्द्रं सुमेरुं जलधाराभिर्वर्षमाणा महाघना इव ते रक्षसां गणाः रामे शरवर्षाणि व्यसृजन् । सार्धश्लोक एकान्वयी ॥ ३।२५।१० ॥
सर्वैरिति । तिथिषु प्रदोषरात्रिषु परिषदां गणैर्वृतो महादेव इव क्रूरदर्शनैः सर्वैः राक्षसैः परिवृतो रामो ऽभवदिति शेषः ॥ ३।२५।११ ॥
तानीति । यातुधानैर्मुक्तानि शस्त्राणि राघवः नद्यौघान् नदीप्रवाहान् सागर इव विशिखैर्बाणैर्जग्राह ॥ ३।२५।१२ ॥
स इति । भिन्नगात्रः भिन्नं प्राकृतविलक्षणं गात्रं शरीरं यस्य स रामस्तैः राक्षसप्रक्षिप्तैः प्रहरणैः शस्त्रास्त्रैर्न विव्यथे । तत्र दृष्टान्तः प्रदीप्तैः बहुभिर्वज्रैरचलः पर्वत इव ॥ ३।२५।१३ ॥
स इति । सर्वगात्रेषु विद्धः शस्त्रास्त्रैस्ताडितः क्षतजादिग्धः स्वीकृतकोपाभासहेतुकारुण्यविशिष्टत्वेन रुधिरेवल्लिप्त इव राघवो रामः संध्याभ्रैरावृतः दिवाकर इव बभूव ॥ ३।२५।१४ ॥
विषेदुरिति । एकं रामं बहुभिः सहस्रैः राक्षसैः समावृतं दृष्ट्वा देवादयो विषेदुः ॥ ३।२५।१५ ॥
तत इति । ततः देवादिप्राप्तविषादानन्तरं मण्डलीकृतं कार्मुकं येन स रामः निशितान् अतितीक्ष्णान् दुरावारान् आवारयितुमशक्यान् दुर्विषहान् बाणान् ससर्ज तूणीरान्निस्सारयामास ॥ ३।२५।१६१७ ॥
मुमोचेति । अजिह्मगान् अकुटिलगतीन् कङ्कपत्रान् कङ्कपत्रविशिष्टान् शरान् रामो लीलया मुमोच । अर्धं पृथक्–ते इति । शत्रुसैन्येषु रामेण मुक्तास्ते शराः कालकृताः पाशा इव रक्षसां प्राणान् आददुः ॥ ३।२५।१८ ॥
भित्त्वेति । तान् लक्ष्यीभूतान् राक्षसदेहान् भित्त्वा रुधिराप्लुता दीप्ताग्निसमतेजसस्ते शराः अन्तरिक्षगताः सन्तो रेजुः ॥ ३।२५।१९ ॥
असंख्येया इति । रक्षःप्राणापहारिणः अतीवोग्राः असंख्येयाः रामस्य सायकाः चापमण्डलात् विनिष्पेतुः ॥ ३।२५।२० ॥
तैरिति । तैः स्वप्रक्षिप्तैर्बाणैः शतशः सहस्रशः धनुरादीनि समरे रामः चिच्छेद ॥ ३।२५।२१२२ ॥
हयानिति । काञ्चनसन्नाहान् काञ्चनसन्नाहविशिष्टान् रथयुक्तान् ससारथीन् सारथिसहितान् सगजारोहान् गजारोहसहितान् सहयान् हयसहितान् सादिनो ऽश्वारोहांश्च पदातींश्च गुणच्युता
रामबाणाः चिच्छिदुः बिभिदुश्च जघ्नुरित्यर्थः । हत्वा यमसादनम् ईनां सर्वसंपत्तीनाम् अमः नित्यं प्राप्तिर्यस्मिँस्तदेव सादनं गृहं यस्मिँस्तं नित्यलोकमनयत् श्लोकद्वयमेकान्वयि ॥ ३।२५।२३२४ ॥
तत इति । नालीकादिभिः छिद्यमानाः निशाचराः आर्तस्वरं चक्रुः । तत्र नालीकाः लोकसंयुक्तमुखामात्राः, नाराचाः सर्वतो लोहमयाः, विकर्णिनः उद्धारे प्राणहराः अग्राङ्कुशाः ॥ ३।२५।२५ ॥
तदिति । मर्मभेदिभिः मर्मभेदनशीलैः विविधैर्बाणैः अग्निना शुष्कं वनमिव रामेण अर्दितं तत्सैन्यं सुखं न लेभे ॥ ३।२५।२६ ॥
केचिदिति । परमक्रुद्धाः केचित् रजनीचराः रामाय शूलादींश्चिक्षिपुः ॥ ३।२५।२७ ॥
तेषामिति । महाबाहुः रामस्तेषां शस्त्राणि बाणैः आवार्य तेषां रक्षसां शिरोधरान् चिच्छेद अत एव प्राणान् जहार ॥ ३।२५।२८ ॥
ते इति । छिन्नशिरसः छिन्नचर्मशरासनास्ते राक्षसाः सुपर्णवातनिःक्षिप्ताः गरुडवाताभिहताः पादपा वृक्षा इव जगत्यां पेतुः । अमृतहरणसमये नन्दनवाटिकावृक्षाः गरुडेनोत्पाटिता इति पुराणप्रसिद्धिः ॥ ३।२५।२९ ॥
अवशिष्टा इति । ये निशाचरास्तत्र तस्मिन् समये अवशिष्टास्ते ऽपि शरार्दिताः शरो ऽस्मान् हनिष्यतीति पीडिताः सन्तः शरणार्थं रक्षणार्थं खरमेव अभ्यधावन्त ॥ ३।२५।३० ॥
तानिति । तान् समाश्वास्य धनुः आदाय दूषणः क्रुद्धो ऽन्तक इव सुसंक्रुद्धः सन् क्रुद्धं राममभ्यधावत् ॥ ३।२५।३१ ॥
निवृत्ता इति । दूषणाश्रयनिर्भयाः दूषणरूपा श्रयेण विगतभया अत एव निवृत्ताः सर्वे राक्षसाः शालाद्यायुधाः सन्तः राममेव अभ्यधावन्त ॥ ३।२५।३२ ॥
शूलेति । संयुगे संग्रामे शरवर्षाणि सृजन्तः कुर्वन्तः द्रुमवर्षाणि शिलावर्षाणि च मुञ्चन्तः महाबला राक्षसा आसन्निति शेषः, अतस्तत् युद्धमद्भुतं बभूव । श्लोकद्वयमेकान्वयि ॥ ३।२५।३३३४ ॥
रामस्येति । रामस्य अस्य दूषणस्य च पुनः रक्षसां च महत् घोरं युद्धमभवत् । अभिक्रुद्धास्ते राक्षसाः राघवं समन्तात् आर्दयन् ॥ ३।२५।३५ ॥
तत इति । सर्वतः प्राप्तैः राक्षसैः समावृता दिशः प्रदिशश्च दृष्ट्वा शरवर्षाभिरावृतो महाबलो रामः भैरवनादं कृत्वा गान्धर्वं परमभास्वरमस्त्रं राक्षसेषु समयोजयत् । श्लोकद्वयमेकान्वयि ॥ ३।२५।३६३७ ॥
तत इति । ततः संयोजनानन्तरं चापमण्डलात् शरसहस्राणि निर्ययुः अत एव समागतैर्बाणैः सर्वा दशदिश आपूर्यन्त । अत्र दशशब्दोपादानेनैव सर्वदिशो ग्रहणे सिद्धे पुनः सर्वशब्दोपादानमवान्तरदेशव्याप्तिपरिग्रहाय ॥ ३।२५।३८ ॥
नेति । घोरान् शरोत्तमान् शरान् आददानं गृह्णन्तं शरार्दिताः राक्षसाः न पश्यन्ति ॥ ३।२५।३९ ॥
शरेति । शरान्धकारं शररूपो ऽन्धकारः सदिवाकरमाकाशमावृणोत् अवस्थितः स्वास्थ्येन स्थितो रामः प्रक्षिपन्निव बभूव प्रक्षिपन्निवेत्यनेन अभिप्रायविज्ञानमात्रेण स्वतश्चलन्तीति सूचितं, तेन रामबाणानां चेतनत्वं सूचितम् ॥ ३।२५।४० ॥
युगपदिति । युगपत् पतमानैः एककालावच्छेदेन वर्तमानकालिकपतनाश्रयैः एवमन्यत्रापि वसुधा विकीर्णा व्याप्ता अभवत् ॥ ३।२५।४१ ॥
निहता इति । सहस्रशो राक्षसा निहतत्वादिविशिष्टाः दृश्यन्ते ॥ ३।२५।४२ ॥
सेति । रामेण बाणाभिहतैः सोष्णीषैः उत्तमाङ्गैः शिरोभिः साङ्गदैः अङ्गदसहितैर्बाहुभिः । छिन्नैरूरुभिर्बाहुभिश्च छिन्नैः हयादिभिश्च छिन्नैः शूलपट्टिशैश्च विस्तीर्णा भूमिः भयङ्करा ऽभूत् ॥ ३।२५।४३४५ ॥
तानिति । निहतान् दृष्ट्वा सर्वे उर्वरिता राक्षसाः परमातुराः सन्तः रामं चलितुं न शक्ता बभूवुरिति शेषः ॥ ३।२५।४६ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे पञ्चविंशः सर्गः ॥ ३।२५ ॥