ससैन्यखरप्राप्तानन्तरकालिकं वृत्तान्तमाह–आश्रममित्यादिभिः । खरपराक्रमे उग्रपराक्रमविशिष्टे खरे आश्रमं प्रति याते प्राप्ते सति तान् राक्षसैरवलोकितान् औत्पातिकान् उत्पातान् स्वार्थे ठक् । भ्रात्रा सह रामो ददर्श ॥ ३।२४।१ ॥
तानिति । अत्यमर्षणः मुनिखेदासहिष्णुः रामः प्रजानां दशरथराज्यनिवासिराक्षसानां किंच प्रकर्षेण जो मृत्युञ्जयो येषां तेषां राक्षसानाम् अहितान् घोरान् उत्पातान् दृष्ट्वा अवलोक्य दृष्ट्वा विचार्य च लक्ष्मणमब्रवीत् ऽजो ना मृत्युञ्जये जन्यां तातमात्रे जनार्दनेऽ इति मेदिनी ॥ ३।२४।२ ॥
तद्वचनाकारमाह–इमानिति । हे महाबाहो सर्वभूतापहारिणो राक्षसान् संहर्तुं समुत्थितानिमान् महोत्पातान् त्वं पश्य ॥ ३।२४।३ ॥
अमी इति । गर्दभारुणाः गर्दभनिष्ठारुण्यसदृशारुण्यवन्तः ये मेघाः व्योम्नि निवर्तन्ते ते ख्ारस्वनाः सन्तः रुधिरधाराः विसृजन्ते ॥ ३।२४।४ ॥
राक्षसविनाशहेतुभूतानुत्पातानुक्त्वा स्वविजयसूचकसुशकुनान्याह–सेति । सधूमाः राक्षसाशुभसूचकप्रभूतधूमसंबद्धाः सर्वे मम शराः युद्धाभिनन्दिताः युद्धाय अभिनन्दिताः प्राप्तानन्दाः लक्ष्यन्ते इति शेषः, रुक्मपृष्ठानि स्वर्णभूषितपृष्ठविशिष्टानि चापानि धनूंषि विचेष्टन्ते आकृष्टज्याभिः संबद्धुमिच्छन्ति ॥ ३।२४।५ ॥
यादृशा इति । यादृशा ये प्रसिद्धा वचनारिणः पक्षिणः इहास्मिन्समये कूजन्ति तैरग्रतो भविष्यत् नो अभयं प्राप्तं जीवितस्य राक्षसानां जीवनस्य संशयश्च प्राप्तः, प्राप्तमिति लिङ्गविपरिणामेनान्यत्राप्यन्वेति ॥ ३।२४।६ ॥
समिति । मुहुर्मुहुः स्फुरमाणो ऽयं मे बाहुः सुमहान्संप्रहारः स्वकर्तृकसंप्रहरणं भविष्यति अत्र संशयो न इति संनिकर्षे समीपे नो ऽस्माकं जयं विजयं शत्रोः पराजयं चाख्याति बोधयति तव वक्रं सुप्रभं प्रसन्नं च लक्ष्यते, एतेन तवापि विजयो भविष्यतीति सूचितम् । श्लोकद्वयमेकान्वयि ॥ ३।२४।७८ ॥
विपक्षे दोषमाह–उद्यतानामिति । युद्धार्थमुद्यतानां येषां वदनं मुखं निष्प्रभं भवति
तेषामायुःपरिक्षयो भवति ॥ ३।२४।९ ॥
रक्षसामिति । नर्दतां रक्षसां राक्षसानां राक्षसैराहतानां भेरीणां च घोरो ऽयं महाध्वनिः श्रूयते, एतेन तेषां युद्धोद्योग इदानीमेवास्तीति सूचितम् ॥ ३।२४।१० ॥
अनागतेति । आपदं शङ्कमानेन आपद्विषयकशङ्कावता शुभं स्वकल्याणमिच्छता पुरुषेण अनागतविधानम् अनागतस्य प्राप्स्यमानस्य आपन्मात्रस्य विधानं प्रतीकारः कर्तव्यम् ॥ ३।२४।११ ॥
तस्मादिति । तस्मादुक्तहेतोः वैदेहीं गृहीत्वा शरपाणिर्धनुर्धरस्त्वं पादपसंकुलां वृक्षैर्व्याप्तामत एव दुर्गां दुर्गमां शैलस्य गुहामाश्रय ॥ ३।२४।१२ ॥
प्रतीति । इदं मद्वाक्यं त्वया प्रतिकूलयितुमन्यथा कर्तुमहं नेच्छामि समानकर्तृकत्वाभावे तुमुन्नार्षः, उद्यतं त्वामित्यध्याहारो वा । अत एव मम पादाभ्यां शापितः कृतशपथस्त्वं गम्यतां गच्छ असीति त्वयेति च शेषो वा किंच मम पादाभ्यां शापितः कृतशपथवता त्वया गम्यताम् इन्नन्तप्रकृतिकतृतीयान्तात्तसिः ॥ ३।२४।१३ ॥
नन्वेतत्कर्मकहनने ममापि सामर्थ्यमस्तीत्यत आह–त्वमिति । त्वमेतान् हन्याः अत्र संशयो न तथापि एतान् स्वयमागतान् सर्वान्निशाचरान् अहमेव हन्तुमिच्छामि ॥ ३।२४।१४ ॥
एवमिति । एवमुक्तो लक्ष्मणः शरान् चापं चादाय सीतया सह गुहां समाश्रयत् ॥ ३।२४।१५ ॥
तस्मिन्निति । लक्ष्मणे गुहां प्रविष्टे सति निर्युक्तं मदुक्तं झटित्यनुष्ठितं हन्त अतिहर्षो ऽयमित्युक्त्वा रामः कवचमाविशत् दधार ॥ ३।२४।१६ ॥
स इति । अग्निनिकाशेन वह्निसदृशेन कवचेन विभूषितो रामः तिमिरे अन्धकारे उत्थितो महानग्निरिव बभूव ॥ ३।२४।१७ ॥
स इति । महत् चापमुद्यम्य शरानादाय वीर्यवान् स रामः ज्यास्वनैः दिशः पूरयन् सन् तत्रास्थितः संबभूव ॥ ३।२४।१८ ॥
तत इति । देवादयस्तत्र समेयुः समेत्य ऊचुश्च । श्लोकद्वयमेकान्वयि ॥ ३।२४।१९२० ॥
तद्वचनाकारमाह–स्वस्तीति ॥ ३।२४।२१ ॥
चक्रेति ॥ ३।२४।२२ ॥
तद्वचनाकारमाहचतुर्दशेति । रक्षसां चतुर्दशसहस्राणि सन्तीति शेषः, धर्मात्मा रामस्तु एक एवेति युद्धं कथं भविष्यति ॥ ३।२४।२३ ॥
इतीति । इति अनेन हेतुना जातकौतूहलाः सन्तो राजर्ष्यादयस्तस्थुः ॥ ३।२४।२४ ॥
आविष्टमिति । तेजसा समाधिकरहितप्रतापेन आविष्टं संयुक्तं संग्रामार्थं स्थितं रामं दृष्ट्वा सर्वाणि भूतानि भयात् अनुमितरामपरिश्रमजनितभीतेः विव्यथिरे ॥ ३।२४।२५ ॥
रूपमिति । न क्लिष्टं कस्मैचित् खेदप्रदं कर्म व्यापारो यस्य तस्य रामस्य अप्रतिमम् उपमारहितमपि रूपं महात्मनः क्रुद्धस्य रुद्रस्य रूपमिव बभूवेति वाक्ये देवगन्धर्वचारणैः संभाष्यमाणे सति गम्भीरनिर्ह्रादं गम्भीरनिर्ह्रादविशिष्टं घोराणि चर्मायुधध्वजानि यस्मिन् तत् यातुधानानां रक्षसामनीकं सैन्यं समन्तात् सर्वदिग्भ्यः ततः रामाधिष्ठितस्थानं समपद्यत । सार्धश्लोकद्वयमेकान्वयि ॥ ३।२४।२६२७ ॥
वीरेति । वीरालापान् वीरसूचकमहाशब्दान् विसृजताम् अन्योन्यं परस्परमभिगच्छताम् ॥ ३।२४।२८ ॥
चापानि विस्फारयताम् अभीक्ष्णशः प्रतिक्षणं जृम्भतां विप्रहृष्टस्वनानाम् अतिहर्षसूचकशब्दवतां दुन्दुभीः अभिनिघ्नतां तेषां राक्षसानां सुविपुलो ऽतिविशालः शब्दः तद्वनं पूरयामास । अर्धचतुष्टयमेकान्वयि ॥ ३।२४।२९ ॥
तेनेति । तेन शब्देन वित्रस्ताः वनचारिणः तद्वचनमात्रनिवसनशीलाः श्वापदा हिंसका व्याघ्रप्रभृतयः यत्र निःशब्दं शब्दाभावस्तं देशं दुद्रुवुः पृष्ठतस्त्यक्तदिग्भागान् न अवलोकयन् अवालोकयन् ॥ ३।२४।३० ॥
तदिति । धृतनानाप्रहरणम् उद्यतानेकविधायुधविशिष्टं गम्भीरम् अत एव सागरोपमं महावेगं तदनीकं सैन्यम् रामं समनुवर्तत रामं समन्ववर्तत ॥ ३।२४।३१ ॥
राम इति । रणपण्डितः रणकर्मनिपुणो रामो ऽपि सर्वतः चक्षुः चारयन् उद्यतं धृतकवचादियुद्धाभिमुखं युद्धाय अभिमुखं संमुखं प्राप्तं तत् खरस्वामिकं सैन्यं ददर्श ॥ ३।२४।३२ ॥
वितत्येति । भीमं धनुर्वितत्य आकृष्य तूण्योः सायकान् बाणान् उद्धृत्य सर्वरक्षसां युद्धप्राप्तनिखिलराक्षसानां वधार्थं राक्षसत्वनिवृत्त्यर्थं तीव्रं क्रोधमाहारयत् स्वीचकार अत एव क्रुद्धः स्वीकृतकोपाभासो रामः युगान्ताग्निरिव ज्वलन् सन् दुष्प्रेक्ष्यः द्रष्टुमशक्यो ऽभवत् ॥ ३।२४।३३३४ ॥
तमिति । तेजसा आविष्टं प्रकटीकृतकिंचित्स्वतेजसं तं रामं दृष्ट्वा वनदेवताः प्राव्यथन् प्राद्रवन् । अर्धं पृथक्–तस्येति । रुष्टस्य रामस्य रूपं तु दक्षस्य क्रतुं हन्तुमुद्यतस्य पिनाकिनो महादेवस्य रूपमिव ददृशे राक्षसैरिति शेषः ॥ ३।२४।३५ ॥
तदिति । तत् तस्य कार्मुकादिमिः पिशिताशनानां सैन्यं सूर्योदये नीलमभ्रजालं मेघसमूह इव बभूव ॥ ३।२४।३६ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे चतुर्विंशः सर्गः ॥ ३।२४ ॥