ससैन्यखरनिर्गमानन्तरकालिकं वृत्तान्तमाह–तदित्यादिभिः । महाघोरः अतिभयङ्करः तुमुलः तुमुलशब्दकारी गर्दभारुणः गर्दभनिष्ठारुण्यसदृशारुण्यवान् मेघ इति शेषः, घोरं भयङ्करं प्रयातं तद्बलं खरसैन्यमुद्दिश्येति शेषः, अशिवममङ्गलं शोणितोदकमरुणजलं शोणितमेवोदकं वा अभ्यवर्षत् अरुणो धूसरः “अव्यक्तरागस्त्वरुणः” इत्यमरः ॥ ३।२३।१ ॥
उत्पातान्तरमाह–निपेतुरिति । महाजवाः अतिवेगाः रथयुक्तास्तस्य तुरगा अश्वाः समे निम्नोन्नतत्वरहिते पुष्पचिते पुष्पैरास्तृते राजमार्गे देशे यदृच्छया निपेतुः ॥ ३।२३।२ ॥
उत्पातान्तरमाह–श्याममिति । श्यामं श्यामवर्णविशिष्टं रुधिरपर्यन्तं रुधिरो रक्तवर्णविशिष्टः पर्यन्तः प्रान्तभागो यस्य तत् अलातचक्रप्रतिमं वर्तुलाकारत्वेन अलातचक्रसदृशं परिवेषणं दिवाकरं सूर्यमण्डलं प्रतिगृह्य प्रावृत्य बभूव ॥ ३।२३।३ ॥
चतुर्थमुत्पातमाह–तत इति । हेमदण्डं सुवर्णदण्डविशिष्टं समुच्छ्रितमत्युन्नतं ध्वजमुपागम्य प्राप्य समाक्रम्य संनमय्य महाकायो गृध्रः तस्थौ ॥ ३।२३।४ ॥
पञ्चमं षष्ठं चोत्पातमाह–जनेति । जनस्थानसमीपे समाक्रम्य प्राप्य खरस्वनाः भयङ्करशब्दविशिष्टाः मांसादाः मृगपक्षिणः विविधान् अनेकप्रकारान् विस्वरान् विरुद्धस्वरत्वविशिष्ठान् नादान् व्याजह्रुः अभिदीप्तायां सूर्यसंयुक्तायां दिशियातुधानानां राक्षसानामशिवं शिवनिवर्तकं भैरवस्वनं शिवाः श्रृगालस्त्रियश्च व्याजह्रुः । श्लोकद्वयमेकान्वयि ॥ ३।२३।५६ ॥
प्रथमोत्पातस्यैवाकारभेदेन भेदं प्रकल्प्य सप्तममुत्पातमाह–प्रभिन्नेति । प्रभिन्नगजसंकाशाः मत्तगजतुल्याः तोयशोणितधारिणः अरुणजलधारणशीलाः भीमाम्बुवाहकाः भयङ्करमेघाः आकाशमनाकाशमवकाशरहितं प्रकाशरहितं वा चक्रुः अत एव उद्धतमतिप्रवृद्धं घोरं भयोत्पादकमत एव रोमहर्षणं तिमिरमन्धकारो बभूव अत एव दिशः प्रदिशश्च सुव्यक्तं सुस्फुटं न चकाशिरे अत एव क्षतजार्द्रसवर्णाभा रुधिरक्लिन्नसमानवर्णप्रकाशा द्यौरिति शेषः, सन्ध्याकालं विनापि बभौ । सार्धश्लोकद्वयमेकान्वयि ॥ ३।२३।७८ ॥
अष्टममुत्पातमाह–खरमिति । घोराः मृगाः व्याघ्रादयः खगा उलूकादयः खरमभिमुखे नेदुः ॥ ३।२३।९ ॥
नवममुत्पातमाहकङ्केति । भयशंसिनः कङ्कादयः अभिमुखे चुक्रुशुः । दशममुत्पातमाह–नित्येति । युद्धे नित्याशिवकराः नित्यममङ्गलप्रदर्शनवत्य इत्यर्थः, अत एव घोरनिदर्शनाः भयङ्करदर्शनवत्यः शिवाः श्रृगालस्त्रियः ज्वालोद्गारिभिर्ज्वालोद्गरणशीलैः आननैः बलस्य सैन्यस्य अभिमुखं नेदुः । पूर्वं सूर्यदिगभिमुखं शिवानाद उक्तः इदानीं सैन्याभिमुखमिति न पौनरुक्त्यम् ॥ ३।२३।१० ॥
एकादशमुत्पातमाह–कबन्ध इति । परिघाभासः परिघसदृशः कबन्धः छिन्नशिराः पुरुषः भास्करान्तिके सूर्यसमीपे दृश्यते ॥ ३।२३।११ ॥
द्वादशं त्रयोदशं चोत्पातमाह–जग्राहेति । अपर्वणि पर्वाभावविशिष्टदिवसे ऽपि सूर्यं स्वर्भानुः राहुर्जग्राह मारुतो वायुः शीघ्रं प्रवाति अत एव दिवाकरो निष्प्रभो ऽभूत् ॥ ३।२३।१२ ॥
त्रयोदशं चतुर्दशं चाह–उत्पेतुरिति । खद्योतसप्रभाः खद्योत समानकान्तयस्ताराः रात्रिं विनापि उत्पेतुः शुष्कपङ्कजाः शुष्कानि पङ्कजानि यासां ताः अत एव संलीनमीनविहगाः संलनाः पङ्कादिष्वासक्ता मीनविहगाः यासां ताः नलिन्यः सरस्यो बभूवुरिति शेषः ॥ ३।२३।१३ ॥
पञ्चदशं षोडशं चोत्पातमाह–तस्मिन्निति । द्रुमाः वृक्षाः पुष्पफलैर्विना बभूवुः वातं विनापि जलधरारुणः धूसरवर्णविशिष्ट इत्यर्थः, रेणुः उद्धूतो बभूव ॥ ३।२३।१४ ॥
सप्तदशमष्टादशं चाह–चीति । सारिकाः चीचीकूचीति वाश्यन्तः चीचीति च कूचीति च शब्दं कुर्वत्यो बभूवुः । अनुकरणमेतत् वाश्यन्त इत्यार्षम् । सनिर्घोषाः निर्घोषसहिता अत एव घोरदर्शना उत्काश्च निपेतुः ॥ ३।२३।१५ ॥
एकोनविंशतितममुत्पातमाह–प्रेति । नर्दमानस्य खरस्य संबन्धिनी सशैलवनकानना मही चचाल । वनकाननयोः निबिडानिबिडत्वेन भेदात् न पौनरुक्त्यम् ॥ ३।२३।१६ ॥
विंशतितमादित्रयमाहअस्य खरस्य सव्यो वामः भुजः प्राकम्पत, स्वरश्च अपसज्जत हीनो ऽभवत्, सर्वतः पश्यमानस्य अस्य दुष्टिः सास्रा अश्रुसहिता संपद्यते भवति ॥ ३।२३।१७ ॥
त्रयोविंशतितममाह–ललाट इति । ललाटे रुजा पीडा जाता तान् उदितान् प्राप्तान् महोत्पातान् समीक्ष्यापि मोक्षात् अविवेकात् न न्यवर्तत ॥ ३।२३।१८ ॥
अब्रवीदिति । प्रहसन् सन् सर्वान् राक्षसान् अब्रवीत् । तद्वचनाकारमाह–दुर्बलान् इमान् महोत्पातान् वीर्यात् स्वप्रभावातिशयाद्धेतोः न चिन्तयामि । सार्धश्लोक एकान्वयी ॥ ३।२३।१९ ॥
स्वप्रभावातिशयमेवाह–तारा इति । नभस्तलात्तारा अपि शरैः पातयेयम् ॥ ३।२३।२० ॥
मृत्युमिति । संक्रुद्धो ऽहं मृत्युमपि मरणधर्मेण योजयामि विध्वंसयामीत्यर्थः, अतः बलोत्सिक्तमतिबलं राघवमहत्वा उपावर्तितुं निवर्तितुं न उत्सहे ॥ ३।२३।२१ ॥
यदिति । यन्निमित्तं यच्छूर्पणखाहेतोः रामस्य लक्ष्मणस्य च विपर्ययः विरूपकरणसूचितमतिवैपरीत्यवर्तनं सा मे भगिनी तयोः रुधिरं पीत्वा सकामा ऽस्तु ॥ ३।२३।२२ ॥
नेति । संयुगेषु संग्रामेषु पराजयः क्वचित्प्राप्तपूर्वः दृष्टपूर्वो न एतद्युष्माकं प्रत्यक्षम्, अनृतं मिथ्या अहं न कथयामि ॥ ३।२३।२३ ॥
देवेति । क्रुद्धो ऽहं देवराजमपि हन्यां मानवौ किम् ॥ ३।२३।२४ ॥
सेति । मृत्युपाशावपाशिता मृत्युपाशबद्धा सा राक्षसानां महाचमूस्तस्य खरस्य गर्जितं श्रुत्वा अतुलं प्रहर्षं लेभे ॥ ३।२३।२५ ॥
समेयुरिति । युद्धदर्शनकाङ्क्षिणः पुण्यकर्मणः पुण्यकर्माणः सहिताः सर्वहितास्ते ऋष्यादयः समेयुः संघशः प्रापुः, समेत्य प्राप्य ऊचुश्च । पुण्यकर्मण इत्यत्र संज्ञापूर्वकविधेरनित्यत्वाद्दीर्घाभावः । अर्धत्रयमेकान्वयि ॥ ३।२३।२६२७ ॥
तद्वचनाकारमाह–स्वस्तीति । ये लोकसंमताः लोकेप्सितास्तेभ्यो गोब्राह्मणेभ्यः स्वस्त्यस्तु पौलस्त्यान् राक्षसान् असुरसत्तमान् विष्णुरिव राघवो जयताम् । सार्धश्लोक एकान्वयी ॥ ३।२३।२८ ॥
एतदिति । एतदन्यच्च ब्रुवाणाः परमर्षयः विमानस्था देवताश्च गतायुषां राक्षसानां वाहिनीं सेनां ददृशुः ॥ ३।२३।२९३० ॥
रथेनेति । खरो रथेन सैन्यस्याग्राद्विनिःसृतः । अर्धं पृथक्–श्येनेति । श्येनादयो द्वादश खरामात्याः खरमभितः प्रतस्थुः ॥ ३।२३।३१३२ ॥
महाकपाल इति । महाकपालादयश्चत्वारः दूषणं पृष्ठतो ऽन्वयुः ॥ ३।२३।३३ ॥
सेति । समराभिकाङ्क्षिणी राक्षसवीरसेना सूर्यचन्द्रमसौ ग्रहाणां मालेव तौ राजपुत्रौ सहसा अभ्युपेता ॥ ३।२३।३४ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे त्रयोविंशः सर्गः ॥ ३।२३ ॥