तिरस्कृतखरः खलत्वविशिष्टः रलयोरैक्यात् लस्य रत्वम् शूरः खरनामा राक्षसः खरतरमतितीक्ष्णं वचः रक्षसां मध्ये उवाच ॥ ३।२२।१ ॥
तद्वचनाकारमाह–तवेति । तवापमानप्रभवः अतुलो ऽयं मम क्रोधः धारयितुं नियन्तुं न शक्यते । तत्र दृष्टान्तः लवणाम्भः लवणसमुद्रः उल्बणं पर्वोत्थितं स्ववेगमिव ॥ ३।२२।२ ॥
नेति । यः आत्मदुश्चरितैः स्वकृतत्वद्विरूपकरणादिरूपापराधैर्हतः प्राणान्विमोक्ष्यते तं क्षीणजीवितं मानुषं रामं वीर्यात् स्वातिपराक्रमाद्धेतोः अहं न गणये ॥ ३।२२।३ ॥
बाष्प इति । एषः बाष्पः अश्रु संधार्यतां निरुध्यतां संभ्रमो भयं च विमुच्यताम् । तत्र हेतुः भ्रात्रा सह रामं यमसादनं यमगृहं नयामि ॥ ३।२२।४ ॥
परश्वधेति । हे राक्षसि परश्वधहतस्य अत एव मन्दप्राणस्य गतजीवितस्य अत एव भूतले पतितस्येति शेषः, रामस्य रक्तमरुणमुष्णं रुधिरं पास्यसि ॥ ३।२२।५ ॥
संप्रहृष्टेति । मौर्ख्यात् स्वाज्ञानात् खरस्य वदनान्मुखात् च्युतं कथितं वचः श्रुत्वा रक्षसां वरं भ्रातरं पुनः प्रशशंस, शूर्पणखेति शेषः ॥ ३।२२।६ ॥
तयेति । तया शूर्पणखया पूर्वं परुषितः परुषमुक्तः पुनः प्रशंसितः खरः दूषणं नाम सेनापतिमब्रवीत् ॥ ३।२२।७ ॥
तद्वचनाकारमाह–चतुर्दशेति । मम चित्तानुवर्तिनां भीमवेगानां भयोत्पादकवेगविशिष्टानां समरेषु अनिवर्तिनां निवर्तनाभावविशिष्टानां नीलर्जामूतवर्णानां नीला एव जीमूताः मेघाः तादृशवर्णविशिष्टानां लोकहिंसाविहारिणां लोकहिंसया विहरणशीलानामुदीर्णानां युद्धोत्साहवतां रक्षसां चतुर्दश सहस्राणि चतुर्दशसहस्रसंख्याकराक्षसानित्यर्थः । सर्वोद्योगं सर्वप्रकारेण उद्योगं युद्धयोग्यचतुरङ्गबलसामग्रीसंपादनं, किंच सर्वेषां चतुरङ्गबलानामुद्योगं प्रस्थानप्रयत्नं कारय “हृकोः–” इति कर्मत्वम् । श्लोकद्वयमेकान्वयि ॥ ३।२२।८९ ॥
उपेति । मे रथादीनि क्षिप्रमुपस्थापय ॥ ३।२२।१० ॥
अग्र इति । रामस्य वधार्थं महात्मनः पौलस्त्यानां राक्षसानामग्रे रणकोविदो ऽहं निर्यातुमिच्छामि ॥ ३।२२।११ ॥
इतीति । तस्य खरस्य इति वचः श्रुत्वा दूषणः शबलैः चित्रवर्णविशिष्टैः सदश्वैः युक्तं सूर्यवर्ण महारथं तत्समीपं प्रापयेति शेषः, आचचक्षे कथयामास ॥ ३।२२।१२ ॥
तमिति । मेरुशिखराकारं मेरुशिखरसदृशं तप्तकाञ्चनभूषणं तप्तकाञ्चनमयानि भूषणानि यस्य तं हेमचक्रं सुवर्णनिर्मितचक्रविशिष्टमसंबाधं विशालं वैदूर्यमयकूबरं वैदूर्यमयौ कूबरौ युगंधरौ यस्य तम् ॥ ३।२२।१३ ॥
काञ्चनैः सुवर्णनिर्मितैः मस्त्यादिभिः समावृतं माङ्गल्यैः मङ्गलहेतुभिः ॥ ३।२२।१४ ॥
ध्वजेति । ध्वजैः निस्त्रिंशैः खड्गादिभिश्च संपन्नं किङ्किणी क्षुद्रघण्टिका तद्रवेण भूषितं सदश्वैर्युक्तं रथं खरः सामर्षात् अमर्षसहितात् क्रोधात् आरुरोह ॥ ३।२२।१५ ॥
खर इति । खरो दूषणश्च रथादिविशिष्टं सेन्यं सर्वराक्षसांश्च प्रेक्ष्य निर्यातेत्यब्रवीत् ॥ ३।२२।१६ ॥
तत इति । राक्षसं रक्षःसंबन्धि मुद्गरादिभिरुपलक्षितं सैन्यं जनस्थानान्निर्जगाम । तत्र अतिमात्रैरित्यस्य महद्भिरित्यर्थः । श्लोकत्रयमेकान्वयि ॥ ३।२२।१७१९ ॥
राक्षसानामिति । राक्षसानां चतुर्दश सहस्राणि जनस्थानात् निर्यातानि ॥ ३।२२।२० ॥
तानिति । निर्धावतस्तान् राक्षसान् दृष्ट्वा आस्थितस्य खरस्य रथो ऽपि किंचित्तदनन्तरं सान्निध्यं यथा स्यात्तथा जगाम ॥ ३।२२।२१ ॥
रथगमनप्रकारमाह–तत इति । ततः ससैन्यराक्षसगमनानन्तरं खरस्य मत्तं गमनाभिप्रायमाज्ञाय शबलान् चित्रवर्णविशिष्टान् अश्वान् सारथिः पर्यचोदयत् ॥ ३।२२।२२ ॥
समिति । रिपुघातिनः खरस्य शीघ्रं संचोदितः स रथः दिशः प्रदिशश्च शब्देन स्वनिर्घोषेण
आपूरयामास ॥ ३।२२।२३ ॥
प्रवृद्धेति । प्रवृद्धमन्युः अतिक्रोधवान् अत एव खरस्वरः तीक्ष्णस्वरवान् रिपोर्वधार्थं त्वरितः खरः अन्तक इव अश्मवर्षवान् उपलवर्षणशीलः उन्नदन् मेघ इव च सारथिं पुनः अचूचुदत् ॥ ३।२२।२४ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे द्वाविंशः सर्गः ॥ ३।२२ ॥