शूर्पणखापुनः पतनानन्तरकालिकं वृत्तान्तमाह–स इति । अनर्थार्थं राक्षसकुलानर्थसिद्ध्यर्थं पुनरागतां पतितां शूर्पणखां दृष्ट्वा क्रोधात् व्यक्तया वाचा स खरः उवाच ॥ ३।२१।१ ॥
तद्वचनाकारमाह–मयेति । पिशिताशनाः रुधिरभक्षाः शूरा राक्षसाः त्वत्प्रियार्थमिदानीमेव विनिर्दिष्टाः पुनः किमर्थं रुद्यते त्वयेति शेषः ॥ ३।२१।२ ॥
तत्कर्तृकानिष्टसंभावना तु नास्तीति बोधयन्नाह–भक्ता इति । अनुरक्ताः मद्विषयकानुरागवन्तः अत एव मम हिताः अत एव नित्यशो भक्ताः मत्सेवानिरताः राक्षसाः रिपुभिः हन्यमानाः अपि न हन्यन्ते, एतेन तत्कर्मकवधशङ्का नास्तीति सूचितम् । मम वचो न कुर्युरिति न एतेन तदृमनाभावशङ्का नास्तीति व्यक्तम् ॥ ३।२१।३ ॥
किमिति । यत्कृते यदर्थं हा नाथेति विनर्दन्ती सती सर्पवत् क्षितौ चेष्टसे तदेतत् किमनिर्वचनीयं कारणं श्रोतुमिच्छामि ॥ ३।२१।४ ॥
अनाथवदिति । मयि नाथे स्थिते सति अनाथवत् त्वं किं विलपसि नु अनुचितमेतत् इति हेतोः एवं मा मा न विलपेत्यर्थः, वैक्लव्यं त्यज्यताम् अतः उत्तिष्ठोत्तिष्ठ ॥ ३।२१।५ ॥
इतीति । खरेण इत्येवमुक्ता अत एव परिसान्त्विता सान्त्वं प्रापिता दुर्धर्षा शूर्पणखा सास्रे अश्रुसहिते नेत्रे विमृज्य भ्रातरं खरमब्रवीत् ॥ ३।२१।६ ॥
तद्वचनाकारमाह–अस्मीति । शोणितौघपरिक्लिन्नाहं त्वया परिसान्ित्वता ऽस्मि ॥ ३।२१।७ ॥
प्रेषिता इति । घोराः क्रूराः सामर्षाः अपराधासहनसहिताः शूलादिपाणयः शूरा ये राक्षसाः मत्प्रियार्थं सलक्ष्मणं रामं हन्तुं प्रेषितास्ते सर्वे मर्मभेदिभिः सायकै रामबाणैः समरे निहताः । श्लोकद्वयमेकान्वयि ॥ ३।२१।८९ ॥
तानिति । महाजवान् अतिवेगाँस्तान् भूमौ पतितान् राक्षसान् रामस्य महत्कर्म अतिधैर्यबाणप्रक्षेपणादि च दृष्ट्वा मम महान् त्रासो ऽभवत् ॥ ३।२१।१० ॥
सेति । हे निशाचर सा दृष्टरामपराक्रमाहं भीतास्मि अत एव समुद्विग्ना उद्विग्नचित्ता अत एव विषण्णा उदासीनचित्ता सर्वतः सर्वप्रदेशेषु भयदर्शिनी अहं शरणं रक्षकं त्वां पुनः प्राप्तास्मि । अस्मीत्युभयान्वयि ॥ ३।२१।११ ॥
विषादेति । विषाद एव नक्रो मकरस्तेन अध्युषिते सेविते परित्रास एव उर्मिमाला तरङ्गसमूहस्तद्वति विपुले विशाले शोकसागरे मग्नं मां किं न त्रायसे ॥ ३।२१।१२ ॥
एते इति । ये राक्षसाः मे पदवीं मार्ग प्राप्ताः मया सह गता इत्यर्थः, ते रामेण निहताः ॥ ३।२१।१३ ॥
मयीति । मयि तेषु रक्षस्सु च यदि ते अनुक्रोशो दया यदि च रामेण सह योद्धुमिति शेषः, शक्तिः तेजः शौर्यं चास्ति तदा दण्डकारण्यं निलयो निवासो यस्य तं राक्षसकण्टकं रामं जहि । सार्धश्लोक एकान्वयी ॥ ३।२१।१४ ॥
यदीति । अमित्रघ्नममित्रसूदनं रामं यदि न वधिष्यसि तदा निरपत्रपाहं तवाग्ने प्राणाँस्त्यक्ष्यामि ॥ ३।२१।१५ ॥
युद्धाय तत्क्रोधमुत्पादयन्ती आह–बुद्ध्येति । सबलः ससैन्यो ऽपि त्वं संयुगे संग्रामे रामस्य प्रतिमुखे संमुखे स्थातुं न शक्त इति बुद्ध्या ज्ञानचक्षुषा ऽहं पश्यामि अत एव शूरमानी त्वं महारणे शूरो न दृश्यसे इति शेषः, अत एव मिथ्या ऽ ऽरोपितः अभिनिवेशितः विक्रमः स्वस्मिन् पराक्रमो येन सो ऽसि । सार्धश्लोक एकान्वयी ॥ ३।२१।१६१७ ॥
ननु कथं मयि शूरत्वं स्यादित्यत आह–अपेति । सहबान्धवस्त्वं जनस्थानात् त्वरितः सन्नपयाहि एतत्स्थान्नान्निर्गच्छ । समरे तावेतौ जहि हे मूढ हे कुलपांसन अन्यथा यदि तौ मानुषौ हन्तुं न शक्नोपि तर्हि निस्सत्त्वस्य निर्बलस्य अल्पवीर्यस्य अल्पप्रभावस्य तव इह वने वासः कीदृशः न भविष्यतीत्यर्थः । श्लोकद्वयमेकान्वयि ॥ ३।२१।१८१९ ॥
वासाभावे कारणमाह–रामेति । रामतेजोभिभूतः रामतेजसा पराभूतस्त्वं क्षिप्रं विनशिष्यसि विनङ्क्ष्यसि । तत्र हेतुः दशरथात्मजः तेजस्समायुक्तो ऽस्ति येनाहं विरूपितास्मि सो ऽस्य रामस्य भ्राता महावीर्यो ऽस्ति । सार्धश्लोक एकान्वयी ॥ ३।२१।२० ॥
एवमिति । प्रदरोदरी निम्नोदरविशिष्टा राक्षसी एवं बहुशो विलप्य भ्रातुः समीपे नष्टसंज्ञा विध्वस्तविवेका बभूव अत एवं कराभ्यामुदरं हत्वा रुरोद ॥ ३।२१।२१२२ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे एकविंशतितमः सर्गः ॥ ३।२१ ॥