शूर्पणखाशंसनप्रकारं वर्णयितुमाह–तामित्यादिभिः । तथा विरूपां छिन्नकर्णनासिकामित्यर्थः, अत एव शोणितोक्षितां पतितां तां भगिनीं दृष्ट्वा क्रोधसंतप्तः खरो राक्षसः पप्रच्छ ॥ ३।१९।१ ॥
तत्प्रश्नप्रकारमाह–उत्तिष्ठेति । संभ्रमं भयं प्रमोहं मूर्च्छां च जहि त्यज उत्तिष्ठ, रूपा प्रशस्तरूपविशिष्टा त्वं केनैवं विरूपितेति व्यक्तमाख्याहि ॥ ३।१९।२ ॥
स्वस्मिन् कृष्णसर्पत्वमारोप्याह–क इति । आशीविषं दंष्ट्राविषसंयुक्तमनागसमनपराधिनमासीनमभिसमापन्नं संमुखे प्राप्तं कृष्णसर्पमङ्गुल्यग्रेण लीलया कस्तुदति व्यथयति ॥ ३।१९।३ ॥
कर्णनासिकोच्छेदे कालपाशत्वं विषपानत्वं चारोप्याह–कालेति । यस्त्वां समासाद्य उत्तमं विषं पीतवान् स कालपाशं कण्ठे समासज्य मोहात् न बुध्यते ॥ ३।१९।४ ॥
बलेति । बलविक्रमसंपन्ना बलेन विक्रमेणाभिचलनसामर्थ्येन संपन्ना अत एव कामगा यथेच्छं विहरणशीला अन्तकसमागता कालसमत्वं प्राप्ता त्वमिमामवस्थां केन नीता ॥ ३।१९।५ ॥
देवेति । देवादीनां मध्ये यो महावीर्यस्त्वां विरूपां चकार स कः तं बोधयेत्यर्थः ॥ ३।१९।६ ॥
नहीति । यो मम विप्रियं कुर्यात् तममरेषु सहस्राक्षं सहस्रनयनमिन्द्रं परमैश्वर्यवन्तं पाकशासनमपि न पश्यामि अन्येषां का गणनेति तात्पर्यम् ॥ ३।१९।७ ॥
अद्येति । जीवितान्तगैः जीवनान्तं प्रापयितृभिः मार्गणैर्बाणैः प्राणान् आदास्ये अपराधिन इति शेषः । दृष्टान्तः सलिले जले आसक्तं मिलितं क्षीरं निष्पिबन् सारसो हंस इव ॥ ३।१९।८ ॥
निहतस्येति । सङ्ख्ये सङ्ग्रामे मया निहतस्य अत एव शरसंकृत्तमर्मणः कस्य सफेनं रुधिरं मेदिनी पृथ्वी पातुमिच्छति ॥ ३।१९।९ ॥
कस्येति । मया रणे निहतस्य कस्य कायात् मांसमुत्कृत्य निष्कुष्य प्रहृष्टाः संगताः संमिलिताः पत्ररथाः पक्षिणो भक्षयिष्यन्ति ॥ ३।१९।१० ॥
मदपराधिनो ध्रुवं विध्वंसो भवितेति बोधयन्नाह–तमिति । मया अपकृष्टं हिंसितत्वेन विवक्षितं कृपणं तमपराधिनं महाहवे महासंग्रामे देवादयस्रातुं न शक्ताः ॥ ३।१९।११ ॥
तत्क्षणकर्तव्यमाह–उपलभ्येति । शनैः संज्ञां बोधमुपलभ्य येन दुर्विनीतेन विक्रम्य विक्रमं कृत्वा त्वं निर्जितासि तं मे मह्यं शंसितुमर्हसि ॥ ३।१९।१२ ॥
इतीति । विशेषतः क्रुद्धस्य भ्रातुरिति वचः श्रुत्वा शूर्पणखा सबाष्पं साश्रु वाक्यमब्रवीत् ॥ ३।१९।१३ ॥
तद्वचनाकारमाह–तरुणाविति । तरुणत्वादिविशिष्टौ दशरथस्य पुत्रौ रामलक्ष्मणौ भ्रातरौ आस्तामेतौ देवौ वा दानवौ वेति तर्कयितुं नोत्सहे तर्केण निश्चेतुं सामर्थ्यं नास्तीत्यर्थः, तेन तयोः प्राकृतविलक्षणत्वं सूचितम् । श्लोकत्रयमेकान्वयि ॥ ३।१९।१४१६ ॥
तरुणीति । तरुणी तारुण्यविशिष्टा अत एव रूपसंपन्ना सुमध्यमा नारी तत्राश्रमे तयोर्भ्रात्रोर्मध्ये मया दृष्टा ॥ ३।१९।१७ ॥
ताभ्यामिति । उभाभ्यां ताभ्यां भ्रातृभ्यां संभूय एकत्र स्थित्वा तां प्रमदामधिकृत्य अबला अनाथा रक्षकरहिता असती पुंश्चली यथा तथाहमिमामवस्थां नीतास्मि ॥ ३।१९।१८ ॥
तस्या इति । अनृजुवृत्ताबाः दुर्ज्ञेयवृत्तान्ताया रणमूर्धनि हतायास्तस्या हतयोः तयोश्च सफेनं रुधिरं पातुमहमिच्छामि । हतयोरित्यस्य लिङ्गवचनविपरिणामेनान्यत्राप्यन्वयः ॥ ३।१९।१९ ॥
अभिलाषातिशयात्पुनस्तदेव भङ्ग्यन्तरेणाह–एष इति । आहवे रुधिरं पिबेयं एषः प्रथमो मुख्यो मे कामो ऽभिलाषस्त्वया कृतो भवेत् कुर्वित्यर्थः ॥ ३।१९।२० ॥
इतीति । इति अनेन प्रकारेण तस्यां ब्रुवाणायां सत्यामन्तकोपमान् कालसदृशान् महाबलान् चतुर्दश राक्षसान् क्रुद्धः खरो व्यादिदेश आज्ञापयामास ॥ ३।१९।२१ ॥
तत्प्रकारमाह–मानुषाविति । घोरं दण्डकारण्यं शस्त्रसंपन्नौ मानुषौ प्रमदया सह प्रविष्टौ ॥ ३।१९।२२ ॥
ताविति । तौ मानुषौ हत्वा दुर्वृत्तां तां प्रमदामुपावर्तितुं हन्तुमर्हथ । तत्प्रयोजनमाह–इयं मम भगिनी तेषां रुधिरं पास्यति ॥ ३।१९।२३ ॥
मनोरथ इति । हे राक्षसाः मम भगिन्या अयमिष्टो मनोरथः शीघ्रं संपाद्यताम् ॥ ३।१९।२४ ॥
युष्माभिरिति । उभौ तौ भ्रातरौ रणे निहतौ दृष्ट्वा प्रहृष्टा संतुष्टा मुदिता आनन्दं प्राप्ता इयं मम भगिनी रुधिरं पास्यति ॥ ३।१९।२५ ॥
इतीति । इति अनेन प्रकारेण प्रतिसमादिष्टाः ते चतुर्दश राक्षसाः तया तद्भगिन्या सार्धं वातेरिताः पवनप्रवाहिता घना इव जग्मुः ॥ ३।१९।२६ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे एकोनविंशः सर्गः ॥ ३।१९ ॥