रामोक्तिं वर्णयन्नाह–तामिति । कामपाशावपाशितां कामरूपपाशबद्धां तां सूर्पणखां स्वेच्छया स्वाधीनया श्लक्ष्णया मनोरमया वाचा स्मितपूर्वं यथा स्यात्तथा ऽब्रवीत् माङ्गलिकवचनमुच्चारयामास ऽस्वच्छयाऽ इति पाठान्तरम् ॥ ३।१८।१ ॥
तद्वचनाकारमाह–कृतेति । हे भवति अहं कृतदारः कृताः स्वीकृता दाराः येन सो ऽस्मि । नन्वियं तु मया भक्ष्यते इत्यत आह–इयं भार्या मे दयिता अतिप्रिया एतेन न भक्षणीयेति सूचितम् । ननु मया सह इयमपि तिष्ठतु इत्यत आह–त्वद्विधानां नारीणां सपत्नता शत्रुत्वं सुदुःखावहा, एतेन सहस्थित्या शत्रुत्वं भवितैवेति सूचितम् ॥ ३।१८।२ ॥
ननु मम का गतिरित्यत आह–अनुज इति । शीलवान् प्रशस्तशीलः प्रियदर्शनः प्रीत्युत्पादकदर्शनवान् श्रीमान् सकलसंषत्तिविशिष्टः वीर्यवान् अतिपराक्रमवान् तरुण एष मे अनुजो भ्राता लक्ष्मणः अकृतदारः न कृताः वने स्वीकृताः दाराः येन सः अत एव अपूर्वी पूर्वभार्याभाववान् अत एव भार्यया अर्थी प्रयोजनवान् च यदि भविष्यति तदा अस्य रूपस्य अनुरूपो भर्ता भविष्यति, भविष्यतीत्यावर्तते ॥ ३।१८।३४ ॥
एनमिति । हे विशालाक्षि हे वरारोहे एनं मे भ्रातरं मेरुकर्मप्रभा इव असपत्ना सपत्नरहिता सती भर्तारं भज कुरु ॥ ३।१८।५ ॥
इतीति । इति रामेण प्रोक्ता काममोहिता राक्षसी रामं विसृज्य त्यक्त्वा लक्ष्मणमब्रवीत् ॥ ३।१८।६ ॥
तद्वचनाकारमाह–अस्येति । वरवर्णिनी मनोहरवर्णविशिष्टा अहं अस्य ते रूपस्य युक्ता योग्या अस्मीति शेषः, अतः मया सह सर्वान्दण्डकान् सुखं विचरिष्यसि ॥ ३।१८।७ ॥
एवमिति । राक्षस्या एवमुक्तः वाक्यकोविदः सौमित्रिः स्मित्वा संस्मित्य शूर्पनखीमब्रवीत् । शूर्पनखीमित्यत्र शुद्धयौगिकत्वस्वीकारात् णत्वाभावङीन्निषेधाभावौ ॥ ३।१८।८ ॥
तद्वचनाकारमाह–कथमिति । हे कमलवर्णिनि दासस्य मे दासी भार्या भवितुं त्वं कथमिच्छसि । ननु कथं दासत्वं त्वयीत्यत आहआर्येणज्येष्ठेन भ्रात्रा हेतुभूतेन अहं परवान् परवशो ऽस्मि ॥ ३।१८।९ ॥
ननु मया किं कर्तव्यमित्यत आह–समिति । समृद्धार्थंस्य सकलैश्वर्यसंपन्नस्य आर्यस्य यवीयसी कनिष्ठा भार्या सिद्धार्था मुदिता सती त्वं भव ॥ ३।१८।१० ॥
एतामिति । वृद्धां चिरकालं सेवितामेतां भार्यां परित्यज्य त्वामेव भजिष्यति । अत्रासंभवाद्विपरीतलक्षणा बोध्या, त्वद्बुद्ध्येति शेषो वा ॥ ३।१८।११ ॥
क इति । इदं श्रेष्ठं रूपं संत्यज्य मानुषीपु स्त्रीषु को विचक्षणः भावं प्रेमाणं कुर्यात् ॥ ३।१८।१२ ॥
इतीति । इति लक्ष्मणेनोक्ता परिहासाविचक्षणा परिहासविषयकनैपुण्याभाववती सा शूर्पणखा एतल्लक्ष्मणोक्तपरिहासबोधकं वचनं सत्यं मन्यते अमन्यत ॥ ३।१८।१३ ॥
सेति । सा लक्ष्मणेन प्रत्युक्ता शूर्पणखा सीतया सह उपविष्टं दुर्धर्षं राममब्रवीत् ॥ ३।१८।१४ ॥
तद्वचनाकारमाह–इमामिति । इमां भार्यामवष्टभ्य आश्रित्य मां त्वं न बहु मन्यसे अतः तव पश्यतः मानुषीमिमां भक्षयिष्यामि, अनन्तरं निःसपत्ना सपत्नरहिता अहं त्वया सह चरिष्यामि । श्लोकद्वयमेकान्वयि ॥ ३।१८।१५१६ ॥
इतीति । अलातसदृशेक्षणा अलातचक्रसदृशनेत्रा सुसंक्रुद्धा शूर्पणखा इति वचः उक्त्वा मृगशावाक्षीं मृगबालनेत्रसदृशनेत्रां सीतां महोल्का पतितोत्पातविशेषः । रोहिणीमिव अभ्यगच्छत् ॥ ३।१८।१७ ॥
तामिति । मृत्युपाशप्रतिमां मृत्युपाशसदृशीम् आपतन्तीं तां शूर्पणखां महाबलो रामः प्रगृह्य लक्ष्मणमब्रवीत् ॥ ३।१८।१८ ॥
तद्वचनाकारमाह–क्रूरैरिति । अनार्यैः क्षुद्रैः सह परिहासः कथंचन न कार्यः कथंचिज्जीवतीं वैदेहीं पश्य ॥ ३।१८।१९ ॥
इमामिति । मत्तामिमां राक्षसीं विरूपयितुं विरूपां कर्तुमर्हसि, एतेन विरूपकरणहेतुकशोकप्राप्त्या काममदध्वंसो भविष्यतीति सूचितम् ॥ ३।१८।२० ॥
इतीति । इत्युक्तो लक्ष्मणः खड्गमसिमुद्धृत्य अस्या राक्षस्याः कर्णनासे रामस्य पश्यतः चिच्छेद ॥ ३।१८।२१ ॥
निकृत्तेति । निकृत्तं छिन्नं कर्णनासं यस्याः सा शूर्पणखा तु विस्वरं यथा स्यात्तथा विनद्य यथागतं प्रदुद्राव पलायां चक्रे ॥ ३।१८।२२ ॥
प्रद्रवप्रकारमाह–सेति । शोणितोक्षिता रुधिरसिक्ता महाघोरा राक्षसी सा शूर्पणखा प्रावृषि तोयदो मेघ इव विविधान्नादान् ननाद ॥ ३।१८।२३ ॥
सेति । रुधिरं बहुधा विक्षरन्ती विकिरन्ती बाहू प्रगृह्य गर्जन्ती घोरदर्शना सा शूर्पणखा महावनं प्रविवेशा ॥ ३।१८।२४ ॥
तत इति । राक्षससंघैः राक्षसानां समूहैः संवृतं संयुक्तं जनस्थानगतं जनस्थाने रावणेन नियोजितम् उग्रतेजसं भ्रातरं खरमुपेत्य विरूपिता कर्णनासच्छेदेन विरूपं प्रापिता शूर्पणखा गगनात् अशनिर्वज्र इव भूमौ पपात ॥ ३।१८।२५ ॥
तत इति । ततः भूमिपातानन्तरं भयमोहमूर्च्छिता भयमोहेन भयहेतुकाविवेकेन मूर्छिता व्याप्ता शोणितोक्षिता रुधिरसिक्ता खरस्य भगिनी सा शूर्पणखा सभार्यं सलक्ष्मणं राघवं रामं वनमागतं प्राप्तमुक्त्वा आत्मनि विरूपणं सर्वं वृत्तान्तं च शशंस ॥ ३।१८।२६ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे ऽष्टादशः सर्गः ॥ ३।१८ ॥