अभिषेकानन्तरकालिकं रामादिवृत्तान्तमाह– कृताभिषेक इत्यादिभिः । ततः स्नानोत्तरकाले गोदावरीतीरात् स्वमाश्रमं रामादयो जग्मुः ॥ ३।१७।१ ॥
आश्रममिति । राघवः पौर्वाह्णिकं कर्म कृत्वा आश्रमं तमुपागम्य पर्णशालामुपागमत् प्राविशत् ॥ ३।१७।२ ॥
उवासेति । लक्ष्मणेन सह सीतया च सह आसीनः महर्षिभिः पूज्यमानः महाबाहुः सुखितः स रामः तत्र पर्णशालायामुवास चित्रया तदभिधतारया चन्द्रमा इव विरराज च कथाश्चकार च । श्लोकद्वयं संमिलितान्वयि ॥ ३।१७।३४ ॥
तदेति । तदा तस्मिन् काले कथासंसक्तचेतसः आसीनस्य रामस्य तं देशं पर्णशालां काचित् राक्षसी यदृच्छया जगाम ॥ ३।१७।५ ॥
सेति । शूर्पणखा नाम दशग्रीवस्य रक्षसः सा प्रसिद्धा भगिनी राममासाद्य ददर्श ॥ ३।१७।६ ॥
दीप्तास्यमिति । दीप्तं प्रकाशितमास्यं मुखं यस्य गजस्य विक्रान्तं गमनमिव गमनं यस्य तम् ॥ ३।१७।७ ॥
महासत्त्वं समातिशयरहितबलविशिष्ठं पार्थिवव्यञ्जनानि महाराजलक्षणानि तैरन्वितं युक्तमिन्द्र उपमा उपमेयं यस्य तं रामं दृष्ट्वा राक्षसी शूर्पणखा काममोहिता बभूव । सार्धश्लोकद्वयमेकान्वयि ॥ ३।१७।८ ॥
सुमुखमिति । सुमुखं शोभनवदनवन्तं वृत्तं सूक्ष्मं मध्यं यस्य तम् ॥ ३।१७।९ ॥
प्रियरूपं सर्वप्रीतिविषयीभूतरूपविशिष्टम् ॥ ३।१७।१० ॥
दक्षिणं शोभनभाषणकुशलं न्यायं न्याय्यविशिष्टं वृत्तं वर्तनं यस्य तं प्रियं सर्वप्रीतिविषयीभूतदर्शनवन्तं राममभिरामदातारं रामं दुर्मुखा दुष्टमुखादिविशिष्टा राक्षसी शूर्पणखा शरीरजसमाविष्टा कामप्रविष्टा सती अब्रवीत् ॥ ३।१७।११ ॥
तदाकारमाहजटीत्यादिभिः । तापसवेषेणोपलक्षितः अत एव जटी त्वं राक्षससेवितमिमं देशं कथं केन हेतुना आगतो ऽसि ते आगमनकृत्यमागमनेन साध्यं च किमस्ति तत् त्वमाख्यातुमर्हसि । सार्धश्लोक एकान्वयी ॥ ३।१७।१२१३ ॥
एवमिति । शूर्पणख्या एवमुक्तः परन्तपो रामः ऋजुबुद्धितया सरलस्वभावेनेत्यर्थः, आख्यातुमुपचक्रमे ॥ ३।१७।१४ ॥
तदाख्यानमेवाहआसीदित्यादिभिः । त्रिदशेषु देवेषु विक्रमः प्रसिद्धः पराक्रमो यस्य स दशरथो नाम आसीत् । अग्रजो ज्येष्ठः जनैः श्रुतः प्रख्यातः रामो नाम तस्य दशरथस्य पुत्रो ऽहमस्मि ॥ ३।१७।१५ ॥
भ्रातेति । यवीयान् कनिष्ठः लक्ष्मणो नामायं भ्राता मामनुव्रतः मदनुचरणशील इत्यर्थः । सीतेति नाम्ना विश्रुता ख्याता इयं वैदेही मम भार्या ॥ ३।१७।१६ ॥
नियोगादिति । नरेन्द्रस्य पितुर्मातुश्च धर्मार्थं नियोगात् आज्ञातः अत एव यन्त्रितः एकाग्रचित्तो धर्मकाङ्क्षी अहं वनं वस्तुमिहागतः ॥ ३।१७।१७ ॥
त्वामिति । त्वं कस्य कन्यासि कासि किंनामासि कस्य भार्यासीति त्वां वेदितुं ज्ञातुमिच्छामि । ननु त्वमेव स्वबुद्ध्या मां जानीहीत्यत आह–मनोज्ञाङ्गी राक्षसानां मनोहारिणी राक्षसी त्वं मे प्रतिभासि सामान्यतो मया ज्ञातमिति सूचितं तेन विशेषं ब्रूहीति ध्वनितम् ॥ ३।१७।१८ ॥
इहेति । इह मत्समीपे किंनिमित्तं त्वमागता इति तत्त्वतो ब्रूहि वचनमिति रामवाक्यं श्रुत्वा मदनार्दिता सा राक्षसी अब्रवीत् ॥ ३।१७।१९ ॥
तद्वचनाकारमाह–श्रूयतामिति । हे राम तत्त्वार्थमहं वक्ष्यामि अतो मम वचनं श्रूयताम् । तद्वचनाकारमाह–कामरूपिणी ईप्सितरूपधारणसमर्था शूर्पणखा नाम राक्षसी अहमस्िम ॥ ३।१७।२० ॥
अरण्यमिति । एका सहायान्तररहिता सर्वभयङ्करा अहं इदमरण्यं विचरामि यदि कदाचित् राक्षसकथाप्रसङ्गे ते श्रोत्रं श्रवणपथमागतः रावणो नाम मे भ्राता ॥ ३।१७।२१ ॥
धर्मात्मा नित्यं धर्मबुद्धिः अत एव राक्षसचेष्टितः राक्षसाचरणो न विभीषणो ऽपि मे भ्राता, महाबलः प्रवृद्धनिद्रः नित्यं शयनशीलः कुम्भकर्णो ऽपि मे भ्राता । श्लोकद्वयमेकान्वयि ॥ ३।१७।२२ ॥
प्रख्यातेति । रणे प्रख्यातवीर्यो खरदूषणौ च मम भ्रातरौ । अर्धं पृथक्–तानिति । तान् रावणादीन् समतिक्रान्ता तेभ्यो ऽपि बलवतीत्यर्थः, अहं अपूर्वदर्शनाद्धेतोः भावेनातिप्रेम्णा पुरुषोत्तमं त्वां त्वां भर्तारं कर्तुं समुपेतास्मि ॥ ३।१७।२३ ॥
अहमिति । प्रभावेण अतितेजसा संपन्ना अत एव स्वच्छन्दबलगामिनी स्वच्छन्दं स्वाधीनं यद्बलं तेन गन्तुं शीला यतो ऽहमस्मि अतः चिराय बहुकालपर्यन्तं मे भर्ता भव सीतया किं सुखं करिष्यसि ॥ ३।१७।२४ ॥
ननु सीतया कथं न सुखमित्यत आह–विकृतेति । यत इयं सीता विकृता अनेकविकारविशिष्टा विरूपा सुन्दररूपाभाववती अतः तव सदृशी योग्या न, अहं तु ते अनुरूपा योग्या अतः मां भार्यारूपेण स्वभार्यात्वेन पश्य जानीहि ॥ ३।१७।२५ ॥
ननु सीतायाः का गतिरित्यत आह–इमामिति । विरूपां मदीप्सितरूपविहीनामसतीं सूक्ष्माङ्गीत्वेन अविद्यमानामिव अत एव करालां पतनभीत्युत्पादिकां निर्णतोदरीमतुन्दिलीं मानुषीमिमामनेन ते भ्रात्रा सह भक्षयिष्यामि ॥ ३।१७।२६ ॥
तत इति । ततः मत्स्वीकारानन्तरं विविधानि पर्वतश्रृङ्गाणि वनानि च पश्यन् सन् मया सह कामी त्वं दण्डकान् विचरिष्यसि ॥ ३।१७।२७ ॥
इतीति । इति एवंप्रकारेण उक्तः काकुत्स्थो रामः प्रहस्य मदिरेक्षणामाधूर्णितनयनां शूर्पणखामिदं वक्तुमारेभे ॥ ३।१७।२८ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे सप्तदशः सर्गः ॥ ३।१७ ॥