०१६ हेमन्तर्तुवर्णनम्

पञ्चवट्यां निवसतो रामस्य वृत्तान्तरं वर्णयन्नाह–वसत इत्यादिभिः । सुखं वसतः पञ्चवट्यां निवसतः महात्मनो रामस्य शरद्व्यपारे शरदृतोरपगमे इष्टः ईप्सितः हेमन्तः ऋतुः प्रवर्तते प्रावर्तत ॥ ३।१६।१ ॥

स इति । स रघुनन्दनः कदाचित्कस्मिंश्चित् समये शर्वर्यां प्रभातायां सत्यामभिषेकार्थं स्नानार्थं गोदावरीं नदीं प्रययौ ॥ ३।१६।२ ॥

प्रह्व इति । प्रह्वः कृतनमस्कारः भ्राता सौमित्रिः सीतया सह पृष्ठतो अनुव्रजन् इदमब्रवीत् ॥ ३।१६।३ ॥

तद्वचनाकारमाह–अयमित्यादिभिः । हे प्रियंवद येन कालेन संवत्सरो ऽलङ्कृतः पक्वसस्यादिना प्राप्तालङ्कार इवाभाति सो ऽयं ते प्रियः शुभः कालः संप्राप्तः ॥ ३।१६।४ ॥

हेमन्तगुणानाह–नीहारेति । हेमन्त इति शेषः, लोको जनः नीहारेण परुषः कठिनस्पर्शविशिष्टशरीरः रूक्षशरीर इति कश्चित्, पृथिवी सस्यशालिनी सस्यैः शोभितेत्यर्थः । जलानि अनुपभोग्यानि शैत्यातिशयेनातिभोग्यत्वरहितानि हव्यवाहनो वह्निः सुभगो ऽतिप्रिय इत्यर्थः ॥ ३।१६।५ ॥

नवेति । कृतानि पूर्वकालेषु संपादितानि आग्रयणानि यैः ते सन्तः काले

नवा ऽ ऽग्रयणपूजाभिः पितृदेवता अभ्यर्च्य विगतकल्मषा आसन्निति शेषः ॥ ३।१६।६ ॥

प्राज्येति । प्राज्यकामाः प्राप्तसकलेप्सिताः संपन्नतरगोरसाः गोरसैः संपन्ना इत्यर्थः, जनपदा भवन्ताति शेषः । पात्रार्थं प्रजारक्षानिर्वाहार्थं, विजिगीषवो महीपाला विचरन्ति ॥ ३।१६।७ ॥

सेवमाने इति । अन्तकसेवितां यमराजाधिष्ठितां दिशं दक्षिणामित्यर्थः, सूर्ये दृढमत्यन्तं सेवमाने सति उत्तरा दिक् विहीनतिलका सिन्दूरादिरहिता स्त्री इव न प्रकाशते ॥ ३।१६।८ ॥

प्रकृत्येति । प्रकृत्या स्वभावेन हिमकोशाढ्यः हिमकोशैः कोशवत् घनीभूतहिमैः आढ्यः हिमवान् गिरिः सांप्रतम् अस्मिन्काले दूरसूर्यः सन् सुव्यक्तं यथा स्यात्तथा हिमवानिति यथार्थनामा अभवत् सूर्यस्य दूरस्थत्वात् हिमद्रवाभावेन घनीभूतहिमविशिष्टो भवतीत्यर्थः ॥ ३।१६।९ ॥

अत्यन्तेति । मध्याह्ने अत्यन्तसुखः अतिसुखप्रदः संचारो येषु ते स्पर्शतः मध्याह्नातपस्पर्शात् सुखं येषु अत एव सुभगादित्या सुभगः सुसेव्यः आदित्यो येषु अत एव छायासलिलदुर्भगाः छाया च सलिलानि च दुर्भगानि असेव्यानि येषु ते दिवसाः दिनानि अभवन्निति शेषः ॥ ३।१६।१० ॥

मृद्विति । मृदुसूर्याः मृदुः सहनयोग्योष्णविशिष्टः सूर्यो येषु अत एव सनीहाराः हिमसहिताः अत एव पटुशीताः पटुः समर्थः शीतः शैत्यं येषु अत एव हिमैर्ध्वस्ताः ध्वंसकर्मीभूता जना येषु ते अत एव शून्यानि हिमध्वस्तत्वेन कोमलपत्रादिरहितानि अरण्यानि वनानि येषु ते समारुताः पवनसहिता दिवसाः सांप्रतं भान्ति ॥ ३।१६।११ ॥

निवृत्तानि आकाशे अनावृतदेशे शयनानि यासु पुष्यानीताः पुष्यनक्षत्रज्ञापितनिशाकालपरिमाणाः हिमैः अरुणाः धूसराः अत एव शीतं वृद्धतरं यासु ता एव आयामाः दैर्घ्यविशिष्टाः त्रियामा रात्रयः सांप्रतं यान्ति गच्छन्ति ॥ ३।१६।१२ ॥

रवीति । रवौ संक्रान्तं संप्राप्तं सौभाग्यं सेव्यत्वरूपसुभगत्वं यस्य सः तुषारैर्हिमकणैः अरुणं धूसरं मण्डलं यस्य स चन्द्रमाः निःश्वासेन अन्धः आदर्शो दर्पण इव न प्रकाशते ॥ ३।१६।१३ ॥

ज्योत्स्नेति । आतपश्यामा धर्मसंबन्धजनितश्यामत्वविशिष्टा सीता यथा लक्षते न शोभते तथा तुषारमलिना ज्योत्स्ना पौर्णमास्यां लक्ष्यते न राजते ॥ ३।१६।१४ ॥

प्रकृत्येति । प्रकृत्या स्वभावेन शीतलस्पर्शः शैत्यस्पर्शविशिष्टः पश्चिमो वायुः सांप्रतं काले अस्मिन् समये हिमविद्धः सन् द्विगुणशीतलः स्वांभाविकशैत्यात् द्विगुणितशैत्यविशिष्टः सन् प्रवाति ॥ ३।१६।१५ ॥

बाष्पेति । यवगोधूमवन्ति यवगोधूमविशिष्टानि बाष्पच्छन्नानि बाष्पेण ऊष्महिमसंबन्धजनितधूमाभासेन छन्नानि नदद्भिः क्रौञ्चसारसैः उपलक्षितानि अरण्यानि वनानि सूर्ये अभ्युदिते सति शोभन्ते ॥ ३।१६।१६ ॥

खर्जूरेति । खर्जूरपुष्पाकृतिभिः खर्जूरपुष्पसदृशाः पीतप्रलम्बा इत्यर्थः, आकृतयो येषां तैः पूर्णतण्डुलैः पूर्णाः तण्डुला येषु तैः शिरोभिः किंचिदालम्बाः किंचिन्नताः कनकप्रभाः शालयः शोभन्ते ॥ ३।१६।१७ ॥

मयूखैरिति । हिमनीहारसंवृतैः हिमैर्नीहारैश्च संवृतैराच्छादितैः उपसर्पद्भिः चलद्भिः मयूखैः किरणैः उपलक्षितः दूरमुदितः सूर्यः शशाङ्कश्चन्द्र इव लक्ष्यते ॥ ३।१६।१८ ॥

अग्राह्येति । पूर्वाह्णेन ग्राह्यं ज्ञातुं शक्यं वीर्यं यस्य सः मध्याह्ने स्पर्शतः स्पर्शेन सुखं यस्य

सः अत एव संरक्तः अनुरागविषयीभूतः किंचिदापाण्डुः किंचित् पाण्डुरवर्णविशिष्टः आतपः क्षितौ पृथिव्यां शोभते ॥ ३।१६।१९ ॥

अवश्यायेति । अवश्यायनिपातेन पतितनीहारकणेन किंचित्प्रक्लिन्नानि आर्द्रीभूतानि शाद्वलानि घाता यस्यां सा, निविष्टः प्रविष्टः तरुणातपो यस्यां सा, वनानां भूमिः शोभते ॥ ३।१६।२० ॥

स्पृशन्निति । सुविपुलमत्यन्तं शीतमुदकमत्यन्ततृषितः पिपासावान् वन्यो द्विरदो हस्ती सुखमुद्दिश्य स्पृशन्नपि करं शुण्डादण्डं प्रतिसंहरते निवर्तयति ॥ ३।१६।२१ ॥

एते इति । समुपासीना जलसमीपदेशवर्तिनः जलचारिणो ऽपि विहगा अप्रगल्भाः भीरवो जना आहवं संग्राममिव सलिलं जालं नावगाहन्ति अवगाहन्ते ॥ ३।१६।२२ ॥

अवश्यायेति । अवश्यायेन हिमबिन्दुना तमसा च नद्धाः संबद्धा रात्राविति शेषः, नीहारतमसा नीहाररूपान्धकारेण आवृताः प्रातःकाले इति शेषः, तत्रान्यान्धकाराभावात् पौनरुक्त्याच्च कर्मधारय एव अत एव विपुष्पाः पुष्पाभावविशिष्टाः वनराजयः प्रसुप्ता इव लक्ष्यन्ते यदि च सूर्यतेजसो मन्दीभूतत्वेनान्धकारो ऽपि स्वीक्रियते तदा न शेषप्रयोजनमिति दिक् ॥ ३।१६।२३ ॥

बाष्पेति । बाष्पैर्धूमाभासैः संछन्नानि सलिलानि यासां ताः अत एव रुतेन शब्देनैव विज्ञेयाः सारसा यासु ताः सरितः सांप्रतमस्मिन् काले हिमार्द्रवालुकैः हिमेन आर्द्रा वालुका येषां तैः तीरैः भान्ति प्रकाशन्ते ॥ ३।१६।२४ ॥

तुषारेति । तुषारस्य हिमस्य पतनात् भास्करस्य मृदुत्वाच्च हेतोः शैत्यात् हेतुभूतात् अगाग्रस्थं पर्वताग्रवर्त्यपि जलं प्रायेण रसवत् स्वादुविशिष्टमित्यर्थः, प्रायेणेत्यनेन विषवृक्षादिसमभिव्याहृतस्य तदभाववत्त्वं ध्वनितम् ॥ ३।१६।२५ ॥

जरेति । जरया कालकृतान्तिमावस्थया जर्जरितैः विवर्णतां प्राप्तैः शीर्णकेशरकर्णिकैः शीर्णाः केशरकर्णिका येषु तैः पत्रैः उपलक्षिताः हिमध्वस्ताः अत एव नालशेषा नालमात्रावशिष्टाः कमलाकराः न भान्ति ॥ ३।१६।२६ ॥

अस्मिन्निति । हे पुरुषव्याघ्र दुःखसमन्वितः भवद्वियोगजनितदुःखाक्रान्तः धर्मात्मा भरतः त्वद्भक्त्या पुरे नन्दिग्रामे अस्मिन् समये तपश्चरति ॥ ३।१६।२७ ॥

तदाकारमाह–त्यक्त्वेति । राज्यादिकं त्यक्त्वा नियताहारः सन् शीते महीतले शेते ॥ ३।१६।२८ ॥

स इति । अभिषेकार्थमुद्यतः स भरतो ऽपि इमां वेलां समयं प्राप्य प्रकृतिभिर्वृतः सन् सरयूं नदीं नित्यं प्रयाति नृनं निश्चितमेतत् ॥ ३।१६।२९ ॥

अत्यन्तेति । अत्यन्तमुखेन संवृद्धः निरवधिकसुखवानित्यर्थः, अत एव सुकुमारो भरतः हिमार्दितः सन् अपररात्रेषु सरयूं कथमवगाहते ॥ ३।१६।३० ॥

पद्मेति । पद्मपत्रेक्षणत्वादिधर्मविशिष्टो भरतः विविधान् सौख्यान् सन्त्यज्य आर्यं त्वां सर्वात्मना सर्वप्रयत्नेन आश्रितः । श्लोकद्वयमेकान्वयि ॥ ३।१६।३१३२ ॥

जित इति । वनस्थमपि त्वां तापस्ये स्थितो यो भरतस्त्वामनुविधीयते अनुविदधाति अनुसरति तेन तव भ्रात्रा भरतेन स्वर्गो जितः ॥ ३।१६।३३ ॥

नेति । द्विपदा मनुष्याः पित्र्यं पितृधर्मं मातृकं मातृधर्मं च नानुवर्तन्ते इति ख्यातः प्रसिद्धः लोकप्रवादः अज्ञजनोक्तिः भरतेन अन्यथा अप्रामाणिकः कृतः प्रकटितः ॥ ३।१६।३४ ॥

भर्तेति । यस्याः भर्ता दशरथः साधुर्भरतो यस्याः सुतः सा तादृशी साध्वी अम्बा कैकेयी क्रूरदर्शिनी क्रूरकर्मबोधनकर्त्री कथं केन हेतुना अभवदिति शेषः ॥ ३।१६।३५ ॥

इतीति । लक्ष्मणे इत्येवं वाक्यं वदति सति तं लक्ष्मणोक्त्या बोधितं जनन्याः परिवादं दुर्यशः असहमानो राघवो रामः अब्रवीत् ॥ ३।१६।३६ ॥

तद्वचनाकारमाहनेति । हे तात मध्यमा अम्बा ते तव कथंचन न गर्हितव्या तया गर्हितं कर्म किंचिन्न कृतमिति तात्पर्यम् । अतः इक्ष्वाकुनाथस्य पितुः भरतस्य च कथां कुरु निश्चितेति वनवासे दृढव्रता निश्चिता निश्चयात्मिका मे बुद्धिः भरतस्नेहसंतप्ता सती बालिशीक्रियते शिथिलसंकल्पा क्रियत इत्यर्थः, त्वदुक्तिजनितस्मरणेनेति शेषः ॥ ३।१६।३७३८ ॥

संस्मरामीति । प्रियाणि प्रीत्युत्पादकानि मधुराणि कोमलाक्षरविशिष्टानि हृद्यानि मनोहराणि अत एव अमृतकल्पानि अत एव मनःप्रह्लादनानि मनसः सुखकराणि अस्य भरतस्य वाक्यानि संस्मरामि ॥ ३।१६।३९ ॥

कदेति । भरतादिना सह कदा समेष्यामि संस्थास्यामि एकसत्त्वे ऽपि द्वयं नास्तीति न्यायो ऽत्रानुसृतः ॥ ३।१६।४० ॥

इतीति । इत्येवं विलपन् विविधं कथयन् गोदावरीं प्राप्य अभिषेकं स्नानं चक्रे ॥ ३।१६।४१ ॥

तर्पयित्वेति । सलिलैः पितृ़न् दैवतानि च तर्पयित्वा उदितं सूर्यं दैवतांश्च स्तुवन्ति स्म अनघा रामादयः ॥ ३।१६।४२ ॥

कृतेति । सीता द्वितीया यस्य स लक्ष्मणेन सह कृताभिषेकः कृतस्नानो राम इव अगराजपुत्र्या पार्वत्या सह कृताभिषेकः सनन्दिर्नन्दिसहितः ईशः शिवो रराज ॥ ३।१६।४३ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे षोडशः सर्गः ॥ ३।१६ ॥