पञ्चवटीगमनानन्तरकालिकं वृत्तान्तमाह–तत इत्यादिभिः । ततः जटायुषः संमेलनानन्तरं नानाव्यालमृगैः आयुतां व्याप्तां पञ्चवटीं गत्वा रामः लक्ष्मणमुवाच ॥ ३।१५।१ ॥
तद्वचनाकारमाह–आगता इति । महर्षिणा अगस्त्येन उद्दिष्टं बोधितमिमं देशं यथा यथावत् आगताः प्राप्ताः स्म, हे सौम्य पुष्पितकाननः अयमेव पञ्चवटीदेशः ॥ ३।१५।२ ॥
सर्वत इति । यतः त्वं निपुणः निखिलकार्यकुशलः अतः कानने अस्मिन्वने सर्वतः दृष्टिः चार्यताम् प्रसार्यताम् । तत्प्रयोजनमाहसंमतः त्वत्संमतिविषयीभूतः नो ऽस्माकमाश्रमः कतरस्मिन् कस्मिन्देशे भवतु ॥ ३।१५।३ ॥
रमते इति । यत्र वैदेह्यादिः रमते यत्र देशे वनरामण्यकं वनरमणीयत्वं जलरामण्यकं च
यस्मिंश्च समित्पुष्पकुशोदकं संनिकृष्टं तादृशो देशः दृश्यतामवलोकनपूर्वकनिश्चयः क्रियताम् । श्लोकद्वयमेकान्वयि ॥ ३।१५।४५ ॥
एवमिति । सीतासमक्षं सीतासंमुखे रामेण एवमुक्तो लक्ष्मणः इदमब्रवीत् ॥ ३।१५।६ ॥
परवानिति । त्वयि स्थिते सति अहं परवानस्मि अतः स्वयमेव रुचिरो देशे क्रियतां पर्णशालेति शेषः, इति वर्षशतमनेकखण्डविस्तारकं मां वद । सुप्रीत इति लक्ष्मणस्य तेन वाक्येन सुप्रीतः रामः सर्वगुणान्वितं देशं विमृशन् विचारयन् सन् रोचयामास लक्ष्मणं बोधयामास ॥ ३।१५।७८ ॥
बोधनप्रकारमाहस इति । स रामः सौमित्रिं हस्तेन हस्ते गृहीत्वा आश्रमकर्मणि रुचिरं रमणीयं तं देशमाक्रम्य प्राप्य इदमब्रवीत् ॥ ३।१५।९ ॥
तद्वचनाकारमाहअयमिति । समः निम्नोन्नतरहितः श्रीमान् तापसयोग्यसंपत्तिविशिष्टः अयं देशो ऽस्तीति शेषः, अतः इह अस्मिन्देशे अश्रमपदं श्रमनिवर्तकं स्थानं यथावत्कर्तुमर्हसि ॥ ३।१५।१० ॥
इयमिति । आदित्यसंकाशैः सूर्यसदृशैः रक्तैरित्यर्थः, सुरभिगन्धिभिः शोभनगन्धविशिष्टैः पद्मैः रम्या पद्मशोभिता नीलकमलादिभिः शोभिता पद्मिनी सरसी अदूरे निकटे दृश्यते ॥ ३।१५।११ ॥
यथेति । पुष्पितैः तरुभिः वृता हंसकारण्डवाकीर्णा हंसैः राजहंसैः कारण्डवैः जलकुक्कुटैः आकीर्णाचक्रवाकैरुपशोभिता मृगयूथनिपीडिता पानाद्यर्थमृगसमूहैर्निबिडा इयं गोदावरी अगस्त्येन मुनिना यथाख्यातं तदुक्तमनतिक्रम्य रम्या नातिदूरे नच आसन्ने अतिनिकटे दृश्यते । श्लोकद्वयमेकान्वयि ॥ ३।१५।१२१३ ॥
मयूरेति । मयूरनादिता मयूरशब्दविशिष्टा फुल्लैः तरुभिः आवृताः प्रांशवो अत्युन्नता बहुकन्दरा अनेकविधगुहाविशिष्टाः अत एव रम्या गिरयो दृश्यन्ते ॥ ३।१५।१४१५ ॥
सालैरिति । सालादिभिर्वृक्षविशेषैरुपशोभिताः चूतादिभिः वृक्षविशेषैश्चावृताः स्यन्दनादिभिश्च वृक्षविशेषैरावृता गिरयः सन्तीति शेषः । श्लोकत्रयमेकान्वयि ॥ ३।१५।१६१८ ॥
इदमिति । इदं पुण्यं दर्शनमात्रेण पुण्यसंपादकमिदमेव रम्यं रमणीयमिदं बहुमृगद्विजं बहवो मृगाः द्विजाः पक्षिणश्च यस्मिन् तत् अतः हे सौमित्रे पक्षिणा एतेन जटायुषा सार्धमिहाश्रमे वत्स्यामः ॥ ३।१५।१९ ॥
एवमिति । रामेण एवमुक्तः परवीरहा लक्ष्मणः अचिरेण शीघ्रं भ्रातुराश्रमं चकार ॥ ३।१५।२० ॥
आश्रमकरणप्रकारमाह–पर्णशालामित्यादिभिः । सुविपुलामतिविशालां सङ्घातमृत्तिकां सङ्घाता भित्तिरूपेण समूहं प्राप्ता मृत्तिका यस्यां तां सुस्तम्भां शोभनस्तम्भविशिष्टां दीर्घैः विस्तारविशिष्टैः मस्मरैर्वेणुभिः कृतवंशां कृतः वंशः वंशकार्यं यस्यां तां शमीशाखाभिः शमीशाखाः आस्तीर्य तिर्यक्पतितवंशोपरि संस्थाप्य दृढपाशावपाशितां दृढपाशैः अशिथिलरज्जुभिः अवपाशितां बद्धां कुशादिभिः सुपरिच्छादितां कृतशोभनाच्छादनां समीकृततलां समीकृतं निम्नोन्नतत्वाभावराहित्यं प्राप्तं तलमङ्गणं यस्यां तां सुशोभनामत एव रम्यां रन्तुं योग्यां पर्णशालां तत्र राघवस्यार्थे राघवस्थित्यर्थं प्रेक्षणीयं द्रष्टुं योग्यमनुत्तममत्युत्तमं निवासं च सुमहाबलो
लक्ष्मणश्चकार । श्लोकत्रयमेकान्वयि ॥ ३।१५।२१२३ ॥
स इति । सः निर्मितपर्णशालः लक्ष्मणः गोदावरीं नदीं गत्वा स्नात्वा पद्मानि च आदाय सफलः फलसहितः सन् पुनरागतः ॥ ३।१५।२४ ॥
तत इति । ततः पुष्पाद्यानयनानन्तरं पुष्पबलिं शान्तिं च यथाविधि कृत्वा कृतं सुसंपन्नं तदाश्रमपदं स लक्ष्मणो रामाय दर्शयामास ॥ ३।१५।२५ ॥
स इति । स राघवः कृतं सुसंपन्नं सौम्यं तमाश्रमं दृष्ट्वा पर्णशालायां परं हर्षमानन्दमाहारयत् प्राप्नोत् ॥ ३।१५।२६ ॥
सुसंहृष्ट इति । तदा कृतपर्णशालादर्शनसमये सुसंहृष्टो रामः बाहुभ्यां लक्ष्मणं गाढं परिष्वज्य अतिस्निग्धमिदं वचो ऽब्रवीत् ॥ ३।१५।२७ ॥
तद्वचनाकारमाह–प्रीत इति । हे अरिन्दम यन्निमित्तं यस्माद्धेतोः त्वया महत्कर्म कृतं तस्मात्ते प्रीतो ऽस्मि अत एव प्रदेयः प्रीत्युत्पत्तिकाले दातुं योग्यः परिष्वङ्गः आलिङ्गनं कृतः देयवस्तुप्रतिनिधिभूतमिदमालिङ्गनमित्यर्थः ॥ ३।१५।२८ ॥
भावज्ञेनेति । भावज्ञेन अभिप्रायवेदित्रा कृतज्ञेन उपकारज्ञेन धर्मज्ञेन च पुत्रेण राजसुतेन हेतुभूतेन त्वया धर्मात्मा पिता न संवृत्तः किंचित्कार्यार्थं संस्मृतः, एतेन सकलं कार्यं त्वया साधितमिति सूचितम् ॥ ३।१५।२९ ॥
एवमिति । लक्ष्मिवर्धनो वशी सकलवशकर्ता राघवः एवमुक्त्वा बहुफले देशे समुखं यथा स्यात्तथा न्यवसत् ॥ ३।१५।३० ॥
तदेव भङ्ग्यन्तरेणाह–कञ्चिदिति । सीतया लक्ष्मणेन च अन्वास्यमानः धर्मात्मा रामः कंचित्कालं न्यवसत् । स राम इव स्वर्गे लोके अमरो देवराजो न्यवसत् ॥ ३।१५।३१ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे पञ्चदशः सर्गः ॥ ३।१५ ॥