अगस्त्यवचनाकारमाह–रामेत्यादिभिः । हे राम हे लक्ष्मण सीतया सह मामभिवादयितुं यद्युवां प्राप्तौ स्थः तस्माद्धेतोः परितुष्टः प्राप्तसंतोषो ऽस्मि अतः प्रीतः त्वद्विषयकप्रीतिमानस्मि ॥ ३।१३।१ ॥
अध्वेति । अध्वश्रमेण अध्वगमनेन प्रचुरः श्रमो यस्मिन्नधिकश्रमजनित इत्यर्थः, खेदः वां युवां बाधते व्यक्तं स्फुटमेतत् । यदि युवामेव बाधते तर्हि मैथिलीं बाधते इति किं वक्तव्यमिति काव्यार्थापत्तिरलङ्कारो ध्वनितः । अत एव जनकात्मजा मैथिली उत्कण्ठते अतीच्छति श्रमनिवर्तनायेति शेषः ॥ ३।१३।२ ॥
एषेति । दुःखैर्न विमानिता इतः पूर्वं दुःखकर्तृकाश्रयाभाववती सुकुमारी एषा सीता भर्तृस्नेहप्रचोदिता सती प्राज्यदोषं विपुलदोषविशिष्टं वनं प्राप्ता ॥ ३।१३।३ ॥
यथेति । राम वने त्वामभिगच्छती अत एव दुष्करं कर्तुमशक्यं कर्म कृतवती एषा विश्रान्तिमिच्छती एषा सीता यथा इह रमते तथा कुरु ॥ ३।१३।४ ॥
सीतां प्राकृतविलक्षणां द्योतितुं प्राकृतस्त्रीणां लक्षणमाहएषेति । समस्थं संपत्तिमन्तं पुरुषं स्ित्रयो अनुरज्यन्ति स्वानुरागविषयं कुर्वन्ति विषमस्थं विपत्तिमन्तं त्यजन्ति च, आसृष्टेः सृष्टिमारभ्य स्त्रीणामेषा प्रकृतिः ॥ ३।१३।५ ॥
शतह्रदानामिति । शतह्रदानां विद्युतां लोलत्वमतिचाञ्चल्यं शस्त्राणां खड्गादीनां तीक्ष्णतां तैक्ष्ण्यं च गरुडानिलयोः शैघ्र्यं च योषितो ऽनुगच्छन्ति ॥ ३।१३।६ ॥
इयमिति । इयं भवतो भार्या तु एतैः दोषैः विवर्जिता नित्यं रहिता अत एव श्लाघ्या स्तोतुमर्हा अत एव व्यपदेश्या पतिव्रतानामग्रे गणनीया अत एव यथा इयं तथा देवेषु अरुन्धती ॥ ३।१३।७ ॥
अलमिति । हे राम यत्र वैदेह्या सह निवत्स्यसि सो ऽयं देशः अलङ्कृतो भविष्यतीति शेषः ॥ ३।१३।८ ॥
एवमिति । मुनिना एवमुक्तः संयताञ्जलिः राघवः प्रसृतम् अवनतविशिष्टं वाक्यमुवाच ॥ ३।१३।९ ॥
तद्वाक्याकारमाह–धन्य इति । यस्य मे गुणैः नो अस्माकं गुरुर्भवान् परितुष्यति सो ऽहमनुगृहीतो ऽस्मि भवतेति शेषः, अत एव धन्यो ऽस्मि ॥ ३।१३।१० ॥
किमिति । तत्र अश्रमपदं श्रमनिवर्तकं स्थानं कृत्वा निरतः सन् सुखं वसेयं तं बहुकाननम् अधिकवनविशिष्टं सोदकं किं कंचिद्देशं व्यादिश कथय किमिति सामान्ये नपुंसकम् ॥ ३।१३।११ ॥
तत इति । ततः रामकथनानन्तरं रामस्य भाषितं श्रुत्वा ततः तस्मिँस्थले मुहूर्तं ध्यात्वा संचिन्त्य मुनिश्रेष्ठः शुभं वचः अब्रवीत् ॥ ३।१३।१२ ॥
तद्वचनाकारमाहइत इति । हे तात बहुमूलफलोदकः बहुमृगः पञ्चवट्यभिविश्रुतः पञ्चवटीति नाम्ना प्रसिद्धः श्रीमान् देशः इतो द्वियोजने अस्तीति शेषः ॥ ३।१३।१३ ॥
तत्रेति । तत्र पञ्चवट्यभिधे देशे अश्रमपदं कृत्वा रमस्व, यथोक्तं पितुर्वाक्यमनुपालय च ॥ ३।१३।१४ ॥
विदित इति । हे अनघ तव दशरथस्य च स्नेहाद्धेतोः सर्वो ह्येष वृत्तान्तः सकारणं भवदागमनं मया तपःप्रभावेण विदितः ध्यानेन सर्वं ज्ञातमित्यर्थः ॥ ३।१३।१५ ॥
ननु स्वसमीपदेशे एव मां कुतो न निवासयसीत्यत आह–हृदयस्थमिति ।
यस्माद्राक्षसवधाभिप्रायात् मया सह तपोवने वासं प्रतिज्ञाय आगतो ऽसीति शेषः, तद्धृदयस्थं ते छन्दो ऽभिप्रायो मया ज्ञातम्, अत एव पञ्चवटीं गच्छेति त्वामहं ब्रूमि ब्रवीमि । सो ऽपि वनोद्देशो रम्यः अतस्तत्र मैथिली रंस्यते एतेनात्र स्थितौ राक्षसवधरूपत्वादभिप्रेतस्य सिद्धिर्न भविष्यतीति सूचितं तेन तत्र राक्षससंचाराभावो बोधितः । श्लोकद्वयमेकान्वयि ॥ ३।१३।१६१७ ॥
ननु तत्र गमने भवन्निकटवासाभावप्रयुक्तमत्प्रतिज्ञाहानिर्भविष्यतीत्यत आह–स इति । स देशो नातिदूरे निकटे एवेत्यर्थः, श्लाघनीयश्च गोदावर्याः समीपे ऽस्तीति शेषः, अतस्तत्र मैथिली रंस्यते । एतेन तत्र वासे सर्वस्य प्रतिज्ञाविषयीभूतस्य सिद्धिर्भवितेति ध्वनितम् ॥ ३।१३।१८ ॥
प्राज्येति । यः प्राज्यमूलफलत्वादिगुणविशिष्टो ऽयं पञ्चवटीदेशः अत्र निवसन् परिरक्षणे शक्तः सदाचारो भवान् तापसान् पालयिष्यति । श्लोकद्वयमेकान्वयि ॥ ३।१३।१९२० ॥
तत्प्रापकमार्गं बोधयन्नाह–एतदिति । हे वीर न्यग्रोधं मार्गचिह्नभूतवटवृक्षमपि गच्छता त्वया मधूकानामेतन्महावनं यदा लक्ष्यते तस्यापि उत्तरेण गन्तव्यम् ॥ ३।१३।२१ ॥
तत इति । ततो ऽनन्तरं स्थलं समभूमिमुपारुह्य प्राप्य पर्वतस्य अदूरतो निकटे पञ्चवटीत्येव नाम्ना ख्यातः अस्तीति शेषः ॥ ३।१३।२२ ॥
अगस्त्येनेति । एवमुक्तो रामः ऋषिं–सत्कृत्य आमन्त्रयामास गमनाय प्रार्थयामास ॥ ३।१३।२३ ॥
ताविति । तेन ऋषिणा अभ्यनुज्ञातौ तौ रामलक्ष्मणौ पञ्चवटीमाश्रमं जग्मतुः ॥ ३।१३।२४ ॥
गृहीतेति । गृहीते चापे धनुषी याभ्यां विषक्ततूणी विषक्ते संसक्ते तूणी इषुधी ययोस्तौ समरेषु अकातरौ कातर्यविरोधिनौ समाहितौ रामलक्ष्मणौ महर्षिणा यथोपदिष्ठेन पथा मार्गेण पञ्चवटीं प्रजग्मतुः ॥ ३।१३।२५ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे त्रयोदशः सर्गः ॥ ३।१३ ॥