लक्ष्मणाज्ञापनानन्तरकालिकं वृत्तान्तमाह–स इत्यादिभिः । स लक्ष्मणः अश्रमपदं श्रमनिवर्तकं स्थानं प्रविश्य अगस्त्यशिष्यमासाद्य प्राप्य एतद्वाक्यमुवाच ॥ ३।१२।१ ॥
तद्वचनाकारमाह–राजेति । दशरथो नाम यो राजा तस्य ज्येष्ठः सुतो बली रामः सीतया भार्यया सह मुनिं द्रष्टुं प्राप्तः ॥ ३।१२।२ ॥
ननु त्वं को ऽसीत्यत्र आह–लक्ष्मणो नाम तस्य रामस्य अवरजो भ्राता अहं यदि कदाचित् श्रोत्रं रामकथाप्रसङ्गेन श्रवणपथमागतः प्राप्तः स्यामिति शेषः ॥ ३।१२।३ ॥
ते इति । ते रामादयो वयं पितृशासनादत्युग्रं वनं प्रविष्टास्ते वयं भगवन्तं द्रष्टुमिच्छामहे अतः निवेद्यतामुदं वृत्तमुच्यतां गुरुसन्निधाविति शेषः ॥ ३।१२।४ ॥
तस्येति । तपोधनो ऽगस्त्यशिष्यस्तस्य लक्ष्मणस्य तद्वचनं श्रुत्वा तथेत्युक्त्वा अग्निशरणमग्निगृहं यागशालामित्यर्थः, प्रविवेश ॥ ३।१२।५ ॥
स इति । सो ऽगस्त्यशिष्यः प्रविश्य यागशालां गत्वा दुष्प्रधर्षणं मुनिश्रेष्ठमगस्त्यस्य संमतः शिष्यः इदं रामागमनं लक्ष्मणेन यथोक्तमञ्जसा शीघ्रमुवाच । सार्धश्लोक एकान्वयी ॥ ३।१२।६ ॥
तद्वचनाकरमाह–पुत्राविति । भवन्तं द्रष्टुं शुश्रूषार्थं च तौ आयातौ रामो लक्ष्मणश्च दशरथस्य पुत्रौ आश्रमपदं प्रविष्टौ ॥ ३।१२।७८ ॥
यदिति । अत्र रामादिविषये यत्तत्त्वं निर्णीतमित्यर्थः । तदनन्तरं शीघ्रमाज्ञापयितुमर्हसि । अर्धं पृथक्– तत इति । रामं प्राप्तं वैदेहीं च प्राप्तां शिष्यान् उपश्रुत्य इदं वचनमब्रवीत् ॥ ३।१२।९ ॥
तद्वचनाकारमाह–दिष्ट्येति । चिरस्य बहुकालान्मां द्रष्टुम़द्य समुपागतः दिष्ट्या भाग्यमेतत् । तत्र हेतुः– यतः अस्य आगमनं प्रति मया ऽपि मनसा आकाङ्क्षितम् ॥ ३।१२।१० ॥
गम्यतामिति । गम्यतां रामः प्रवेश्यतां मम समीपमयं किं किमर्थं न प्रवेशितः मामपृष्ट्वैवेति शेषः ॥ ३।१२।११ ॥
एवमिति । मुनिना एवमुक्तः शिष्यः अभिवाद्य प्रणम्य तथेति अब्रवीत् ॥ ३।१२।१२ ॥
तदेति । तदा गुर्वाज्ञापनकाले निष्क्रम्य यागशालायाः निःसृत्य संभ्रान्तः आदृतः शिष्य असौ रामः कः मुनिं द्रष्टुमेतु आगच्छतु प्रविशतु इति लक्ष्मणमब्रवीत् ॥ ३।१२।१३ ॥
तत इति । शिष्येण सह लक्ष्मणः आश्रमः पदमाश्रमप्रान्तदेशं गत्वा काकुत्स्थं दर्शयामास । शिष्यमिति प्रयोज्यमाक्षिप्यते ॥ ३।१२।१४ ॥
तमिति । अगस्त्यस्य वचनं संदेशो यस्मिन् तत् प्रश्रितं नम्रीभूतं वाक्यं ब्रुवन् सन् सत्कारार्हं तं रामं सुसत्कृतं यथा स्यात्तथा यथान्यायं प्रावेशयत् ॥ ३।१२।१५ ॥
प्रविवेशेति । प्रशान्तहरिणैः आकीर्णं व्याप्तमाश्रममवलोकयन् सन् सीतया सह रामः प्रविवेश ॥ ३।१२।१६ ॥
स इति । तत्र अगस्त्याश्रमे ब्रह्मादीनां स्थानानि स रामः पश्यति अपश्यत् । तत्राग्निशब्देन शंभुरुच्यते । अत एव ब्रह्मविष्णुवाचकशब्दयोरन्तरा पाठः । धाताविधातारौ प्रजापतिविशेषौ । गायत्रीशब्देनोपलक्षणविधया सावित्रीसरस्वत्योरपि ग्रहणमिति भट्टसंमतिः । श्लोकचतुष्टयमेकान्वयि ॥ ३।१२।१७२० ॥
तत इति । ततः रामालिङ्गनहेतोः मुनिरपि अभिनिष्पतत् आगमशास्त्रस्यानित्यत्वादडभावः । मुनीनां मध्ये दीप्ततेजसं तमगस्त्यं रामो ददर्श ॥ ३।१२।२१ ॥
अब्रवीदिति । वीरो रामः लक्ष्मणमब्रवीत् । अर्धं पृथक् । तद्वचनाकारमाह–बहिरिति । हे लक्ष्मण अगस्त्यऋषिः औदार्येण तपोजनिततेजोविशेषोत्कर्षेण बहिर्निष्क्रामति अतः तपसां निदानं कारणमवगच्छामि जानामि ऋषिमिति शेषः ॥ ३।१२।२२ ॥
एवमिति । महाबाहू रघुनन्दनो रामः अगस्त्यमवमुक्त्वा आपततः आगच्छतः तस्य पादौ जग्राह ॥ ३।१२।२३ ॥
अभिवाद्येति । तदा मुनिसङ्गमकाले धर्मात्मा आरामः सर्वाभिरामदाता रामः अभिवाद्य तस्थौ ॥ ३।१२।२४ ॥
प्रतीति । काकुत्स्थं रामं प्रतिगृह्य हस्तेन गृहीत्वा आसनोदकैः अर्चयित्वा कुशलप्रश्नं तद्बोधकवाक्यं चोक्त्वा सो ऽगस्त्यः आस्यतामित्यब्रवीत् ॥ ३।१२।२५ ॥
अर्चनप्रकारमाह–अग्निमिति । अग्निं वैश्वदेवविधिप्राप्तवह्निं हुत्वा अर्घ्यम् अर्धजलं प्रदाय अतिथीन् प्रतिपूज्य वानप्रस्थेन वानप्रस्थोचितेन धर्मेण विधिना भोजनं ददौ ॥ ३।१२।२६ ॥
भोजनानन्तरकालिकवृत्तान्तमाह–प्रथममिति । प्रथमं रामोपवेशनात्पूर्वं धर्मजो मुनिपुङ्गवः उपविश्य आसीनं पश्चात् स्थितिमन्तं राममुवाच ॥ ३।१२।२७ ॥
तद्वचनाकारमाह–अन्यथेति । हे काकुत्स्थ अन्यथा सत्कृतिविधिविपरीतं समुदाचरन् कुर्वन् तपस्वी परे लोके दुःसाक्षी अन्यथा वस्तुनिर्णेतेव परे लोके स्वानि मांसानि भक्षयेत् ॥ ३।१२।२८ ॥
राजेति । यतः सर्वस्य लोकस्य राजा अत एव पूजनीयो मान्यश्च प्रियातिथिर्भवान् प्राप्तः ॥ ३।१२।२९ ॥
एवमिति । एवमुक्त्वा फलादिभिः पूजयित्वा च ततः तस्मिन् समये अगस्त्यस्तं राममब्रवीत् ॥ ३।१२।३० ॥
तद्वचनाकारमाह–इदमिति । हेमवज्रविभूषितं हेमभिर्वज्रैश्च विभूषितं विश्वकर्मणा निर्मितमिदं महच्चापं धनुरस्तीति शेषः ॥ ३।१२।३१ ॥
अमोघ इति । अमोघः फलरहितप्रहारशून्यः सूर्यसंकाशः ब्रह्मदत्तः शरोत्तम उत्तमबाणः महेन्द्रेण दत्तौ अक्षयसायकौ ज्वलद्भिः पावकैरिव निशितैः तीक्ष्णैर्बाणैः संपूर्णौ तूणी च सन्तीति शेषः । सार्धश्लोक एकान्वयी ॥ ३।१२।३२३३ ॥
महारजतेति । महारजतेन सुवर्णनिर्मितमुष्टिविशेषेण युक्तः कोशो यस्य स हेमविभूषितोपमश्चा ऽस्तीति शेषः । अर्धं पृथक् । धनुषः प्रभावमाह–अनेनेति । संख्ये संग्रामे अनेन धनुषा महासुरान् हत्वा पुरा पूर्वं दिवौकसां देवानां श्रियं विष्णुराजहार ॥ ३।१२।३४ ॥
तदिति । जयाय जयं लब्धुं वज्रं वज्रधर इन्द्र इव धनुरादीनि प्रतिगृह्णीष्व ॥ ३।१२।३५ ॥
एवमिति । महातेजा अगस्त्यः समस्तं तद्वरायुधं रामाय दत्त्वा पुनरब्रवीत् ॥ ३।१२।३६ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे द्वादश सर्गः ॥ ३।१२ ॥