रामगमनप्रकारं वर्णयन्नाह–अग्रत इति । अग्रतः अग्रे रामः प्रययौ मध्ये सुशोभना सीता पृष्ठतस्तु लक्ष्मणो ऽनुजगाम ॥ ३।११।१ ॥
ताविति । विविधाननेकप्रकारान् शैलादीन् नदीपुलिनचारिणः नदीपुलिनेषु विहरणशीलान् सारसांश्च चक्रवाकांश्च जलजैः जलजातैः खगैः पक्षिभिः युतानि सपद्मानि कमलसहितानि सरांसि च यूथबद्धान् स्वस्वयूथेषु संबद्धान् पृषतान् सबिन्दुमृगांश्च मदोन्मत्तान् विषाणिनः प्रशस्तश्रृङ्गविशिष्टान् महिषांश्च वराहांश्च दुमवैरिणः वृक्षोन्मूलकान् गजांश्च पश्यमानौ पश्यन्तौ तौ रामलक्ष्मणौ सीतया सह जग्मतुः । तत्र प्रस्थः शिखरम् ऽस्नुः प्रस्थः सानुरस्त्रियाम्ऽ इत्यमरः । श्लोकत्रयमेकान्वयि ॥ ३।११।२४ ॥
त इति । सहिताः सहचारिणः ते रामादयः दूरमध्वानं गत्वा दिवाकरे सूर्ये लम्बमाने अस्तं गच्छति सति पद्मपुष्करसंबाधं पद्मै रक्तकमलैः पुष्करैः पुण्डरीकैश्च संबाधं निबिडं राजयूथैः अलङ्कृतं शोभितं सारसैः पक्षिविशेषैः हंसकादम्बैः हंसैः राजहंसैः कादम्बैः कलहंसैश्च जले जातिर्जन्म येषां तैर्मत्स्यादिभिश्च संकुलं योजनायतं क्रोशचतुष्टयविस्तृतं रम्यं तटाकं सरः ददृशुः । श्लोकद्वयमेकान्वयि ॥ ३।११।५६ ॥
प्रसन्नेति । प्रसन्नं सलिलं यस्मिन् तस्मिन् रम्ये सरसि गीतवादित्रनिर्घोषः गीतवादित्रयोः शब्दः शुश्रुवे, दृश्यते तु कश्चिन्न रामादिभिरिति शेषः ॥ ३।११।७ ॥
तत इति । ततः तच्छब्दश्रवणानन्तरं कौतूहलादाश्चर्याद्धेतोः रामो लक्ष्मणश्च धर्मभृतं धर्मभृत्संज्ञकं मुनिं प्रष्टुं समुपचक्रमे ॥ ३।११।८ ॥
इदमिति । अद्भुतमिदमुच्चारपितृदर्शनरहितशब्दजातं श्रुत्वा सर्वेषां नो मनसि महत्कौतूहलं जातमतः इदं शब्दजातं किं किंनिमित्तकमिति साधु यथा स्यात्तथा कथ्यताम् ॥ ३।११।९ ॥
तेनेति । तेन राघवेण एवमुक्तः धर्मात्मा मुनिः सरसः प्रभावमाख्यातुमुपचक्रमे ॥ ३।११।१० ॥
तदाख्यानप्रकारमाह–इदमिति । सार्वकालिकं सार्वकालिकजलविशिष्टं माण्डकर्णिना तदभिधेन मुनिना तपसा हेतुभूतेन निर्मितं पञ्चाप्सरो राम पञ्चाप्सरोभिधमिदं तटाकमवेहीति शेषः ॥ ३।११।११ ॥
तन्निर्माणप्रकारमाह–स इत्यादिभिः । स प्रसिद्धः माण्डकर्णिर्महामुनिः दशवर्षसहस्राणि वायुभक्षः सन् जलाशये तीव्रं तपस्तेपे ॥ ३।११।१२ ॥
तत इति । ततस्तपश्चरणाद्धेतोः प्रव्यथिता अत एव परस्परसमागताः साग्निपुरोगमाः अग्निपुरोगमसहिताः सर्वे ते देवाः वचनमब्रुवन् परस्परमिति शेषः ॥ ३।११।१३ ॥
तद्वचनाकारमाह–अस्माकमिति । एषः मुनिः अस्माकं मध्ये कस्यचित्स्थानं प्रार्थयते इति परस्परवचनेन तत्र तस्मिन् समये सर्वे दिवौकसः संविग्नमनसः आसन्निति शेषः ॥ ३।११।१४ ॥
तत इति । ततः मनःसंविग्नत्वप्राप्तिहेतोः तपोविघ्नं कर्तुं विद्युच्चलितवर्चसः प्रधानाः पञ्चाप्सरसः सर्वैर्देवैर्नियोजिताः ॥ ३।११।१५ ॥
अप्सरोभिरिति । दृष्टपरावरः दृष्टे परावरे उपनिषत्प्रसिद्धपरावरविद्ये येन स मुनिः ताभिः देवनियोजिताभिः अप्सरोभिः देवानां कार्यसिद्धये मदनवश्यत्वं नीतः प्रापितः ॥ ३।११।१६ ॥
मदनवश्यत्वप्रकारमाह–ता इति । ताः अप्सरसः मुनेः पत्नीत्वमागताः प्राप्ताः अत एव तस्मिन् तटाके तासां पत्नीनामन्तर्हितं गृहं निर्मितम् ॥ ३।११।१७ ॥
तत्रेति । तत्र मुनिनिर्मितभवने निवसन्त्यो ऽप्सरसः तपोयोगात् यौवनमास्थितं मुनिं रमयन्ति ॥ ३।११।१८ ॥
तासामिति । संक्रीडमानानां तासां भूषणोन्मिश्रः भूषणशब्दसंयुक्तः मनोहरः एषः वादित्रनिस्वनः वीणादिशब्दः श्रूयते ॥ ३।११।१९ ॥
आश्चर्यमिति । भावितात्मनः परिशीलितपरमात्मनस्तस्य ऋषेः एतद्वचनं श्रुत्वा आश्चर्यमिति राघवः प्रतिजग्राह मेने ॥ ३।११।२० ॥
एवमिति । एवमाश्चर्यमिति कथयमानः वदन् स रामः कुशचीरपरिक्षिप्तं कुशैः चीरैः खण्डपटैश्च परिक्षिप्तमितस्ततः पतितं ब्राह्म्या ब्राह्मणसंबन्धिन्या लक्ष्म्या वेदपाठादिसंपत्त्या समावृतमाश्रममण्डलं ददर्श ऽकथयमानस्यऽ इति भृषणपाठः कथयमाने इति तद्व्याख्या ॥ ३।११।२१ ॥
प्रविश्येति । आश्रममण्डलं प्रविश्य सर्वैर्मुनिभिः पूज्यमानो राघवः उवास आश्रममण्डलमित्यनुकृष्यते ॥ ३।११।२२ ॥
तदेति । तस्मिन् श्रीमत्याश्रममण्डले महर्षिभिः सह काकुत्स्थो रामः स सुखमुषित्वा पर्यायेण तेषां तदाश्रमस्वाम्यतिरिक्तानां तपस्विनामाश्रमान् जगाम । सार्धश्लोक एकान्वयी ॥ ३।११।२३ ॥
येषामिति । महास्त्रवित् स रामः येषां मुनीनां सकाशे समीपे पूर्वमुषितवान् तेषामपि सकाशे क्वचित् परिदशान् दशसमीपवर्तिनः नवैकादश वेत्यर्थः । मासान् क्वचिदेकसंवत्सरं क्वचिच्च चतुरो मासान् क्वेचित्पञ्च मासान् क्वचित् षण्मासान् क्वचित् परान् षण्मासतो ऽधिकान् सप्तमासानित्यर्थः । अपरत्र अधिकान् सप्तमासतः आधिक्यविशिष्टान् मासान् अष्टमासानित्यर्थः । क्वचित् अध्यर्धं मासार्धाधिकं त्रीन्मासानष्टमासांश्च राघवः सुखं न्यवसत् । सार्धश्लोकद्वयमेकान्वयि ॥ ३।११।२४२६ ॥
तत्रेति । तत्र तेषु मुनीनामाश्रमेषु संवसतः आनुकूल्येन रमतश्च तस्य रामस्य दश संवत्सरा वर्षाणि वयुः ॥ ३।११।२७ ॥
परीति । धर्मज्ञो राघवः परिवृत्य मुनीनामाश्रमेषु गत्वा सुतीक्ष्णस्याश्रमपदं पुनराजगाम ॥
४।११।२८ ॥
स इति । अरिन्दमः सः रामः तं सुतीक्ष्णसंबन्धिनमाश्रममागम्य तत्रापि मुनिभिः सह परिपूजितः सन् कंचित्कालं न्यवसत् ॥ ३।११।२९ ॥
अथेति । अथ निवासानन्तरं महामुनिं तं सुतीक्ष्णमुपासीनः आश्रमस्थो रामः सुतीक्ष्णमिदमब्रवीत् ॥ ३।११।३० ॥
तद्वचनाकारमाह–अस्िमन्निति । हे भगवन् अस्मिन् अरण्ये मुनिसत्तमो ऽगस्त्यो नित्यं वसतीति कथाः कथयतां कथयद्भ्यः श्रुतमस्य वनस्य महत्तया तमगस्त्याधिष्ठितं देशं न जानामि । सार्धश्लोक एकान्वयी ॥ ३।११।३१ ॥
कुत्रेति । धीमतः महर्षेः तस्य अगस्त्यस्य आश्रमपदं कुत्र कस्मिन्प्रदेशे अस्तीति शेषः, तद्वदेत्यर्थः । अर्धं पृथक् । ननु किमर्थमयं प्रश्न इत्यत आह–प्रसादेति । भगवतः अगस्त्यस्य प्रसादार्थमस्मद्विषयकप्रीत्युत्पत्त्यर्थमगस्त्यं मुनिमभिवादयितुमहमभिगच्छेयम् ॥ ३।११।३२३३ ॥
मनोरथ इति । यत् प्रयत्नवान् अहं मुनिवरं स्वयं शुश्रूषेयमेष महान्मनोरथः हृदि अस्मद्धृदये संपरिवर्तते ॥ ३।११।३४ ॥
इतीति । धर्मात्मनो रामस्य इति वचः श्रुत्वा प्रीतः सुतीक्ष्णो मुनिः दशरथात्मजं प्रत्युवाच ॥ ३।११।३५ ॥
तत्प्रतिवचनमाह–अहमिति । हे राघव सीतया सह अगस्त्यं त्वमभिगच्छ एतदेव त्वामहमपि वक्तुकामः ॥ ३।११।३६ ॥
दिष्ट्येति । अस्मिन् मदीप्सिते अर्थे अगस्त्यदर्शने यत् स्वयमेव मां ब्रवीषि तद्दिष्ट्या अतिभाग्यम् । अतः यत्रागस्त्यो मुनिः तं देशमयमहमाख्यामि ॥ ३।११।३७ ॥
तदाख्यानप्रकारमाह–योजनानीति । हे तात आश्रमादस्मात्स्थानाद्दक्षिणेन पथा चत्वारि योजनानि याहि ततो ऽनन्तरं श्रीमान्महानगस्त्यभ्रातुराश्रमः स्थलीप्राये स्थलीम् अकृत्रिमभूमित्वं प्रैति प्राप्नोति तस्मिन् । किंच स्थल्याः अकृत्रिमभूमेः प्रायः नित्यं स्थितिर्यस्मिन् तस्मिन् पिप्पलीनां वनैः समूहैः शोभिते बहूनि पुष्पफलानि यस्मिन् तस्मिन् नानाविहगनादिते वनोद्देशे अस्तीति शेषः । श्लोकद्वयमेकान्वयि ॥ ३।११।३८३९ ॥
पद्मिन्य इति । तत्र तस्मिन्वनोद्देशे हंसकारण्डवाकीर्णाः हंसैः राजहंसैः कारण्डवैः जलकुक्कुटैः आकीर्णाः व्याप्ताः चक्रवाकोपशोभिताः प्रसन्नसलिलाशयाः सन्तीति शेषः । तत्र तेषु सलिलाशयेषु विविधा अनेकप्रकाराः पद्मिन्यः सन्ति ॥ ३।११।४० ॥
तत्रेति । तत्र अगस्त्यभ्रातुराश्रमे एकां रजनीं व्युष्य संस्थाय प्रभाते प्रातःकाले वनखण्डस्य पार्श्वतः दक्षिणं दिशमास्थाय गम्यताम् ॥ ३।११।४१ ॥
तत्रेति । तत्र तस्मिन्मार्गे योजनमन्तरं देशं गत्वा अगस्त्याश्रमपदमस्तीति शेषः ॥ ३।११।४२ ॥
रंस्यते इति । यतः बहुपादपशोभितः अत एव रम्यः वनोद्देशो ऽस्ति अतः त्वया सह वैदेही लक्ष्मणश्च तत्र वनोद्देशे रंस्यते विहरिष्यति ॥ ३।११।४३ ॥
यदीति । हे महामते अगस्त्यं द्रष्टुं यदि बुद्धिर्निश्चयः कृता तदा अद्यैव गमने बुद्धिं रोचयस्व कुरु ॥ ३।११।४४ ॥
इतीति । मुनेः सुतीक्ष्णस्य इति वचः श्रुत्वा अभिवाद्य मुनिं प्रणम्य अगस्त्यमुद्दिश्य सीतया सह प्रतस्थे ॥ ३।११।४५ ॥
पश्यन्निति । मार्गवशानुगान्मार्गवशेन प्राप्तान् वनादीन् पश्यन् सुतीक्ष्णेन उपदिष्टेन बोधितेन तेन मार्गेण यथासुखं गत्वा परमसंहृष्टो रामः लक्ष्मणमब्रवीत् । श्लोकद्वयमेकान्वयि ॥ ३।११।४६४७ ॥
तद्वाक्याकारमाह–एतदिति । पुण्यकर्मणः अगस्त्यस्य भ्रातुरेव एतदाश्रमपदं दृश्यते ॥ ३।११।४८ ॥
तत्र हेमुमाह–यथेति । यथा येन प्रकारेण अस्य अगस्त्यभ्रातृस्वामिकस्य वनस्य लक्षणसमूहा इति शेषः । ज्ञाताः सुतीक्ष्णोक्त्या निश्चिताः तथैव दृश्यन्त इति शेषः । लक्षणसमूहानेवाह–फलभारेण पुष्पभारेण च संनताः पथि सहस्रशो द्रुमाः सन्तीति शेषः ॥ ३।११।४९ ॥
पिप्पलीनामिति । कटुकोदयः कटुकस्य कटुरसस्य उदयो यस्मिन् पवनोत्क्षिप्तः वायुना विकीर्णः पक्वानां परिपाकविशिष्टानां पिप्पलीनामयं गन्धः अस्माद्वनादुपागतः ॥ ३।११।५० ॥
तत्रेति । तत्र तत्र च वनप्रदेशे संक्षिप्ताः परित्यक्ताः लूनाः छिन्नाः वैदूर्यवर्चसः दर्भाश्च दृश्यन्ते ॥ ३।११।५१ ॥
एतदिति । कृष्णाभ्रशिखरोपमं कृष्णमेघसदृशपर्वतश्रृङ्गसदृशं वनमध्यस्थमाश्रमस्थस्य पावकस्य यागाग्नेर्धूमाग्रं संप्रदृश्यते ॥ ३।११।५२ ॥
विविक्तेष्विति । विविक्तेषु स्वच्छेषु तीर्थेषु पुण्यजलेषु कृतस्नाना द्विजातयः स्वयमर्जितैः कुसुमैः पुष्पोपहारं देवोद्देश्यकपुष्पबलिं कुर्वन्ति । एतेन इमान्येव आश्रमबोधकचिह्नानि सुतीक्ष्णेन उपदिष्टानीति सूचितम् ॥ ३।११।५३ ॥
उपसंहरन्नाह–तत इति । हे सौम्य ततः तदाश्रमबोधकं यथा येन प्रकारेण सुतीक्ष्णस्य वचनं श्रुतं तथैव दृश्यत इति शेषः । अतः यस्य भ्रात्रा ऽगस्त्येन लोकानां हितकाम्यया तरसा वेगेन मृत्युम् ऋषीणां मारकं निगृह्य इयं दिक् शरण्या शरणहिता कृता तस्य अगस्त्यस्य भ्रातुः आश्रमः एष एव भविष्यतीति निश्चिनोमीति शेषः । श्लोकद्वयमेकान्वयि ॥ ३।११।५४ ॥
मृत्युनिग्रहणप्रकारमाह–इहेति । क्रूरौ ब्राह्मणघ्नौ महासुरौ वातापिरिल्वलश्च भ्रातरौ एकदा कस्मिंचित्समये इह आस्ताम् ॥ ३।११।५५ ॥
धारयन्निति । ब्राह्मणं ब्राह्मणसंबन्धिरूपं धारयन् संत्कृतं व्याकरणसंस्कारविशिष्टं वचनं वदन् उच्चारयन् निर्घृणः निर्दयः स इल्वलः श्राद्धमुद्दिश्य विप्रान् आमन्त्रयति आमन्त्रयत ॥ ३।११।५६ ॥
भ्रातरमिति । मेषरूपिणं धृतमेषरूपं भ्रातरं तं वातापिं संस्कृतं श्राद्धोचितं संस्कारविशिष्टं कृत्वा तानामन्त्रितान्द्विजान् श्राद्धदृष्टेन श्राद्धविहितेन कर्मणा भोजयामास ॥ ३।११।५७ ॥
तत इति । ततः श्राद्धविधिपरिकल्पितमेषरूपराक्षसकर्मकभोजनानन्तरं भुक्तवतां कृतमेषभोजनानां तेषां विप्राणां संमुखे स्थित इल्वलः हे वातापे निष्क्रमस्व ब्राह्मणोदरेभ्यः अत्रागच्छ इति स्वरेण वदन् सन् अब्रवीत् ॥ ३।११।५८ ॥
तत इति । ततः इल्वलोच्चारणानन्तरं भ्रातुरिल्वलस्य वचः श्रुत्वा मेषवन्नदन् वातापिः
ब्राह्मणानां शरीराणि भित्त्वा भित्त्वा विनिष्पतत् । आगमशास्त्रस्यानित्यत्वादडभावः ॥ ३।११।५९ ॥
ब्राह्मणानामिति । कामरूपिभिः यथेप्सितरूपधारणसमर्थैः पिशिताशनैः रुधिरभोजनैः गक्षसैः संहृत्य एकत्र प्रापय्य ब्राह्मणानां सहस्राणि सहस्रं ब्राह्मणाः नित्यशो विनाशितानि ॥ ३।११।६० ॥
अगस्त्येनेति । तदा तस्मिन्काले देवैः प्रार्थितेन महर्षिणा ऽगस्त्येन श्राद्धे अनुभूय तत्कृतनिमन्त्रणं लब्ध्वा महासुरो वातापिर्भक्षितः ॥ ३।११।६१ ॥
तत इति । ततः श्राद्धान्ते संपन्नं श्राद्धसमापकसंपूर्णमिति वचनमुक्त्वा हस्ते ऽवनेजनं दत्त्वा निष्क्रमस्वेति भ्रातरमिल्वलः समभाषतः ॥ ३।११।६२ ॥
स इति । विप्रघातिनं भ्रतारं भाषमाणमिल्वलं धीमान् मुनिसत्तमः सो ऽगस्त्यः प्रहसन्सन्नब्रवीत् ॥ ३।११।६३ ॥
तद्वचनाकारमाह–कुत इति । मया जीर्णस्य चिरकालिकभोजनात् मलादित्वेन परिणतस्य यमसादनं गतस्य मम गृहप्राप्तचैतन्यांशस्य मेषरूपस्य रक्षसस्तव भ्रातुः निष्क्रमितुं शक्तिः कुतः केन हेतुना स्यादिति शेषः ॥ ३।११।६४ ॥
अथेति । अथ अगस्त्यकथनानन्तरं भ्रातुः निधनसंश्रितं मरणबोधकं वचः श्रुत्वा मुनिं प्रधर्षयितुं निशाचरः क्रोधादारेभे उद्योगं चकार ॥ ३।११।६५ ॥
स इति । स इल्वलः द्विजेन्द्रं तमगस्त्यमभ्यद्रवत् दीप्ततेजसा मुनिना तु अनलकल्पेन चक्षुषा निर्दग्धः इल्वल इति शेषः । अत एव निधनं मरणं गतः प्राप्तः ॥ ३।११।६६ ॥
तस्येति । विप्रानुकम्पया विप्रविषयकदयया येन इदं दुष्करं कर्म कृतं तस्यागस्त्यस्य भ्रातुः तटाकवनशोभितः अयमाश्रमः ॥ ३।११।६७ ॥
एवमिति । सौमित्रिणा सह एवं कथयमानस्य रामस्य सूर्यो ऽस्तङ्गतः अत एव संध्याकालो ऽभ्यवर्तत प्राप्नोत् ॥ ३।११।६८ ॥
उपास्येति । यथाविधि संध्यामुपास्य आश्रमपदं प्रविवेश, ऋषिं तमगस्त्यभ्रातरमभ्यवादयच्च ॥ ३।११।६९ ॥
सम्यगिति । तेन अगस्त्यभ्रात्रा मुनिना तु सम्यक् प्रतिगृहीतः सत्कृत्य स्वीकृतो रामस्तु मूलफलानि प्राश्य एकां निशां न्यवसत ॥ ३।११।७० ॥
तस्यामिति । रविमण्डले उदिते सति अगस्त्यस्य भ्रातरं राघवः आमन्त्रयत अपृच्छत् ॥ ३।११।७१ ॥
तत्प्रकारमाह–आमन्त्रय इति । अग्रजं ते गुरुं द्रष्टुं गच्छामि अतः त्वामामन्त्रये । तेन ऋषिणा गम्यतामित्युक्तो रघुनन्दनो यथोद्दिष्टेन मार्गेण तद्वनमवलोकयन् सन् जगाम । सार्धश्लोक एकान्वयी ॥ ३।११।७२ ॥
निवारानिति । पुष्पिताग्राभिः पुष्पविशिष्टाग्रभागविशिष्टाभिः लताभिरुपशोभितान् शतशः हस्तिहस्तैः शुण्डादण्डैर्विमृदितान् शकुनिसंघैः पक्षिसमूहैः प्रतिनादितांश्च शतशः कान्तारपादपान् वनवृक्षान् रामो ददर्श । तत्र निवाराः जलकदम्बाः, वञ्जुला अशोकाः, तिनशा धवाः, चिरिबिल्वा नक्तमालाः । श्लोकद्वयमेकान्वयि ॥ ३।११।७३७५ ॥
तत इति । ततः पादपदर्शनानन्तरं लक्ष्मिणां सुचिह्नानां वर्धनं वृद्धिर्यस्मिँस्तं लक्ष्मणं रामो ऽब्रवीत् ॥ ३।११।७६ ॥
तद्वचनाकारमाह–स्निग्धेति । वृक्षाः यथा यथावत् स्निग्धपत्राः मृगद्विजास्तु यथावत् क्षान्ताः दृश्यन्ते इति शेषः । अतो महर्षेरगस्त्यस्याश्रमो नातिदूरस्थो ऽस्तीति शेषः । एतेन इदमेवाश्रमलक्षणमगस्त्यभ्रात्रा बोधितमिति सूचितम् ॥ ३।११।७७ ॥
अगस्त्य इति । यः स्वेन कर्मणा अगस्त्य इति विख्यातः तस्य परिश्रान्तानां श्रमं खेदमपहन्ति सः, प्राज्यैः अधिकैः धूमैः यागधूमैः आकुलं व्याप्तं वनं यस्य सः, चीरमालाभिः परिष्कृतः नानाशकुनिभिः पक्षिभिर्नादितः आश्रमः दृश्यते । श्लोकद्वयमेकान्वयि । अग इति स्त्याः विन्ध्याद्रौः शब्दो नामेति यावत् यस्मात् ॥ ३।११।७८७९ ॥
निगृह्येति । मृत्युं निगृह्य दूरीकृत्य दक्षिणा दिक् येन शरण्या कृता अत एव यस्य प्रभावात् दक्षिणा दिक् तत्स्थो जनः राक्षसैर्दृश्यते भुज्यते तु न तस्येदमाश्रमपदम् ॥ ३।११।८०८१ ॥
यदेति । यदाप्रभूति यत्कालादारभ्य पुण्यकर्मणा आगस्त्येन इयं दिगाक्रान्ता तदाप्रभूति रजनीचराः निर्वैराः सन्तः प्रशान्ताः ॥ ३।११।८२ ॥
नाम्नेति । इयं दक्षिणा दिक् भगवतो ऽगस्त्यस्य नाम्नैव क्रूरकर्मभिः राक्षसैर्दुर्धर्षा अत एव प्रदक्षिणा अतिकुशलवती प्रथिता ख्याता ॥ ३।११।८३ ॥
तस्य प्रभावान्तरमाह–मार्गमिति । अचलोत्तमो विन्ध्यशैलः भास्करस्य मार्गं निरोद्धुं तस्यागस्त्यस्य सन्देशं सततं पालयन् सन् न वर्धते । इयमत्राख्यायिका–सूर्यमाक्रमितुं वर्धमानो ऽगस्त्यशिष्यो विन्ध्यो गुरूद्देश्यकनित्यसाष्टाङ्गप्रणामसमये देवप्रार्थितागस्त्येन शिष्यद्वारा यावन्मदागमं प्रणमन् भूमावेव पतेत्याज्ञाप्य तदारभ्य स्वयं दक्षिणस्यां दिश्येवातिष्ठदिति ॥ ३।११।८४ ॥
अयमिति । विनीतमृगसेवितः अयमगस्त्यस्याश्रमः ॥ ३।११।८५ ॥
एष इति । सतां हिते नित्यं रतः एषो ऽगस्त्यः अधिगतान् प्राप्तानस्मान् श्रेयसा कल्याणवचनेन योजयिष्यति आशीर्वचनमुच्चारयिष्यतीत्यर्थः ॥ ३।११।८६ ॥
आराधयिष्यामीति । अगस्त्यमहमाराधयिष्यामि वनवासस्य शेषमुर्वरितकालं वत्स्यामि एतदाज्ञयेति शेषः ॥ ३।११।८७ ॥
अत्रेति । गन्धर्वादयः नियताहाराः सन्तः अगस्त्यं पर्युपासते ॥ ३।११।८८ ॥
स्थानप्रभावमाह–नेति । मृषावाद्यादिः अत्र अस्मिन्नाश्रमे न जीवेत् । तत्र हेतुः–एष मुनिस्तथाविधः निषिद्धकर्मासहिष्णुः ॥ ३।११।८९ ॥
अत्रेति । अत्र अस्मिन्नाश्रमे धर्ममधिकफलकं कर्म आराधायेष्णवः साधयितुमिच्छवः देवादयः वसन्ति ॥ ३।११।९० ॥
अत्रेति । अत्र सिद्धादयः देहांस्त्यक्त्वा नवैर्देहैः स्वर्याताः ॥ ३।११।९१ ॥
यक्षत्वमिति । अत्र अस्मिन्नाश्रमे शुभैः कर्मभिः आराधिताः पूजिताः देवाः यक्षत्वादीनि प्रयच्छन्ति ॥ ३।११।९२ ॥
आगता इति । हे सौमित्रे आश्रमपदं वयमागताः स्म अतः त्वमग्रतः पूर्वं प्रविश, इह प्राप्तं माम् ऋषये निवेदय बोधय ॥ ३।११।९३ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे एकादशः सर्गः ॥ ३।११ ॥