सीतावचनश्रवणानन्तरकालिकरामप्रत्युक्तिं वर्णयितुमाह–वाक्यमिति । भर्तृभक्तया भर्तृसेवापरायणया वैदेह्या व्याहृतं कथितं श्रुत्वा रामः प्रत्युवाच ह ॥ ३।१०।१ ॥
तत्प्रतिवचनाकारमाह–हितमिति । स्निग्धया मद्विषयकस्नेहयुक्तया कुलं कुलोचितं धर्मं व्यपदिशन्त्या कथयन्त्या त्वया सदृशं स्वयोग्यमित्यर्थः, इदं वचः हितमुक्तम् ॥ ३।१०।२ ॥
किमिति । यतः आर्तशब्दो न भवेदिति हेतोः क्षत्रियैश्चापो धार्यते इति एतदर्थबोधकं वचस्त्वयैवोक्तमतः किं नु वक्ष्यामि एतेन मत्कर्म त्वत्संमतिविषयीभूतमेवेति सूचितम् ॥ ३।१०।३ ॥
आर्तशब्दवत्त्वं समर्थयन्नाह–ते इति । संशितव्रताः तीक्ष्णव्रतवन्तः शरणं राक्षसकर्तृकहिंसनं गताः प्राप्ताः अत एव आर्ताः पीडिताः दण्डकारण्ये निवासिनो मुनयः शरण्यं शरणहितं मां स्वयमागम्य प्राप्य प्रार्थयन्तेति शेषः ऽशरणं गृहरक्षित्रोर्वधरक्षणयोरपिऽ इति मेदिनी ॥ ३।१०।४ ॥
वसन्त इति । कालकालेषु सर्वकालेष्वित्यर्थः वसन्तो मुनयः करकर्मभिः राक्षसैः सुखं न लभन्ते ॥ ३।१०।५ ॥
सुखालाभे हेतुं वदन्नाह–भक्ष्यन्त इति । नरमांसोपजीविभिः राक्षसैर्दण्डकारण्यवासिनस्ते प्रसिद्धाः मुनयो भक्ष्यन्ते अत एव एते भक्ष्यमाणा आसन्नभक्षणा द्विजसत्तमाः अस्मान् अभ्यवपद्य रक्ष इति मामूचु अभ्यवपद्येत्यत्र संज्ञापूर्वकविधेरनित्यत्वादात्मनेपदाभावः । ऽअभ्यवपद्यन्तेऽ इति भूषणपाठः । सार्धश्लोक एकान्वयी ॥ ३।१०।६ ॥
मयेति । तेषां मुनीनां मुखाच्च्युतं वचनं श्रुत्वा वचनशुश्रूषां वचनेन सत्कृतिं कृत्वा च एतद्वाक्यमुदाहृतं कथितम् ॥ ३।१०।७ ॥
तद्वचनाकारमाह–प्रसीदन्त्विति । उपस्थेयैः अस्माभिः स्तुत्यैः ईदृशैः तपआदिसंपन्नैः विप्रैः भवद्भिः यदहमुपस्थितः स्तुतः तस्माद्धेतोः अतुला तोलयितुमशक्या एषा मम ह्रीः लज्जा प्राप्नोदिति शेषः अतो मे भवन्तः प्रसीदन्तु इति किं करोमि करवाणीति च द्विजसंनिधौ मया व्याहृतं कथितम् ॥ ३।१०।८९ ॥
सर्वैरिति । सर्वैर्ऋषिभिः समागम्य इयं षाक् समुदाहृता । तद्वचनाकारमाह–कामरूपिभिः स्वेप्सितरूपधारणसमर्थैः बहुभिः राक्षसैः दण्डकारण्ये वयं भृशमर्दिताः पीडिताः स्म स्मः । आर्षः सलोपः अतः नो ऽस्मान् भवान् रक्षतु ॥ ३।१०।१० ॥
होमेति । होमकाले संप्राप्ते सति पर्वकालेषु दर्शपौर्णमासादिषु पिशिताशनाः रुधिरभोजनाः दुराधर्षाः धर्षयितुमशक्याः राक्षसाः मां धर्षयन्ति स्म ॥ ३।१०।११ ॥
राक्षसैरिति । राक्षसैः धर्षितानां पराभिभूतानामत एव गतिं भयनिवर्तकमाश्रयं मृगयमाणानां तपस्विनां परमात्मविचारशीलानां तापसानां वेदशास्त्रसंपन्नानां नो ऽस्माकं परमा गतिः अभयाश्रयः भवानेव ॥ ३।१०।१२ ॥
ननु समर्थैर्भवद्भिः राक्षसनिवारणं कुतो न क्रियते इत्यत आहुः–काममिति । तपःप्रभावेण निशाचरान् हन्तुं काममत्यन्तं शक्ताः अपि वयं तथापि चिरार्जितं तपः खण्डयितुं नाशयितुं वयं नेच्छामः एतेन तपस्विकर्तृकहिंसादिकर्मारम्भे तत्तपो नश्यतीति सूचितम् ॥ ३।१०।१३ ॥
तपसो विध्वंसनं नोचितमिति बोधयन्त आहुः–बह्विति । यतः तपो बहुविघ्नमत एव दुश्चरं तेन हेतुना राक्षसैः भक्ष्यमाणा अपि वयं शापं न मुञ्चामः ॥ ३।१०।१४ ॥
तदिति । यतो वयं त्वन्नाथाः त्वमेव नाथो येषां ते तत्तस्माद्धेतो रक्षोभिः अर्द्यमानान् अस्मान् ज्ञात्वेति शेषः । भ्रात्रा सह रक्षकः त्वं भवेति शेषः ॥ ३।१०।१५ ॥
मयेति । हे जनकात्मजे एतद्वचो मया श्रुत्वा कार्त्स्न्येन ऋषीणां परिपालनं संश्रुतं प्रतिज्ञातम् ॥ ३।१०।१६ ॥
संश्रुत्येति । मुनीनामग्रे संश्रुत्य प्रतिज्ञाय जीवमानः जीवेन सकलपालनेन मानः सत्कारो यस्य सो ऽहं प्रतिश्रवं प्रतिज्ञामन्यथा प्रतिज्ञाविरुद्धमनपराधिनो ऽपि वधमित्यर्थः, कर्तुं न शक्ष्यामि हि यतः सत्यं मे सदा इष्टमीसिप्तं सदेत्यनेन स्वाभाविको धर्मस्त्यक्तुं न शक्यते इति सूचितम् ॥ ३।१०।१७ ॥
प्रतिज्ञात्याजनयत्नः कदापि न कर्तव्य इति बोधयन्नाह–अपीति । प्रतिज्ञां संश्रुत्य कृत्वा न जह्यां ब्राह्मणेभ्यो ब्राह्मणार्थं संश्रुत्य तु विशेषतो न जह्याम् ॥ ३।१०।१८ ॥
तदिति । तत् उक्तहेतोः अनुक्तेन रक्षणप्रतिज्ञारहितेनापि मया ऋषीणां परिपालनमवश्यं कार्यं कर्तव्यं यदि अनुक्तेनापि कर्तव्यं तर्हि प्रतिज्ञाय कार्यमिति कथं किं वक्तव्यम् । कथमिति
किमर्थे ॥ ३।१०।१९ ॥
आनुमानिकानिष्टविज्ञापनशङ्काजनितसीताभीतिं निवारयन्नाह–ममेति । मम स्नेहात् मद्विषयकातिप्रीतेः सौहार्दात् सरलस्वभावाच्च हेतोः कुलस्य सदृशं तव चानुरूपं सदृशं ममेदं वचस्त्वयोक्तमतो ऽहं परितुष्टो ऽस्मि हि यतः अनिष्टः अनीप्सितः न अनुशिष्यते ममेष्ट एव भवत्यानुशिष्ट इत्यर्थः । अत एव सधर्मचारिणी सहधर्माचरणशीला त्वं मे प्राणेभ्यो ऽपि गरीयसी असीति शेषः, एतेन संसर्गप्राप्तानपराधिवधस्त्वयापि यत्नतस्त्याजनीय इति सूचितम् । तेन लङ्कागमनाय सीतामाज्ञापयामासेति ध्वनितम् । नहि लङ्कागमनमन्तरा संग्रामाय विभीषणस्य रावणसहगमनं निवारणार्हमिति तात्पर्यम् । अर्धचतुष्टयमेकान्वयि ॥ ३।१०।२०२१ ॥
इतीति । रामः एवं वचनं सीतामुक्त्वा रम्याणि तपोवनानि जगाम ॥ ३।१०।२२ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावारण्यकाण्डे दशमः सर्गः ॥ ३।१० ॥